________________
बौद्धवचनासङ्गतिः] न्यायागमानुसारिणीव्याख्यासमेतम् तुमलमतीन्द्रियत्वादतीन्द्रियत्वं निराभासत्वाद्विषयवदिति प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनत्वात् , खपुष्पवत् ।
(एवं तहीति) इतिशब्द उपसंहारे, इतीत्थमनालम्बनत्वं सञ्चयस्याणूनाञ्च सिद्धं प्रत्यक्षज्ञानस्य, तस्मात् प्रत्यक्षज्ञानं नोत्पद्यते निरालम्बनत्वात् , खपुष्पवत् ।।
अतः प्रत्यक्षस्याभावे स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च कल्पनापोडं प्रत्यक्षमि- । त्येतल्लक्षणमनर्थकं स्यात् , तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्ध्यति, त्वन्मतेनैव तदाभासं, कल्पनात्मकत्वात् ।
(अत इति) अतः प्रत्यक्षस्य निरालम्बनस्य खपुष्पवदनुपपत्तरुक्तोपपत्तिविधिना कल्पनापोढस्य सविषयस्य प्रत्यक्षस्य ज्ञानस्य वाऽभावे प्रतिपादिते स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च कल्पनापोढं प्रत्यक्षमित्येतल्लक्षणमनर्थकं स्यालक्ष्यस्याभावात् खरविषाणस्य कुण्ठतीक्ष्णादिनिर्णयवत् , 10 अभ्युपेतेऽपि तु विषये दोषः, स चाभ्युपगम्यमानोऽपि विषयः सञ्चय एव सम्भाव्येत, न परमाणवोऽतीन्द्रियत्वात् स चालम्बनप्रत्ययो ज्ञानस्य सञ्चयस्तस्मिन्नभ्युपेतेऽपि तु सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षता सिद्ध्यति, त्वन्मतेनैव तदाभासत्वात् , तदाभासत्वं कल्पनात्मकत्वात् ।
उक्ता च कल्पनात्मकता 'तदुभयमपि भ्रान्तिज्ञानात्मकत्वात् , भ्रान्तिः संज्ञासंख्यासंस्थानवर्णान्यथाकल्पनात्, मृगतृष्णिकाप्रत्ययवद्द्विचन्द्रप्रत्ययवदलातचक्रप्रत्ययवत् काम- 15 लोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति ।
(उक्ता चेति) संज्ञा च संख्या च संस्थानञ्च वर्णश्च तेषां वैर्वाऽन्यथाकल्पनादन्यथाप्रतिपत्तिरेव ते कल्पनाऽभिमता, संज्ञासंख्यासंस्थानवर्णानामन्यथाप्रतिपत्तेमगतृष्णिकाप्रत्ययवहिचन्द्रप्रत्ययवदलातचक्रप्रत्ययवत् कामलोपहतचक्षुषो नीलरूपपीतप्रत्ययवदिति यथासंख्यं दृष्टान्ताः, यथाक्रमञ्च हेतोर्वा भ्रान्तिज्ञानात्मकत्वे साध्ये, ततश्च प्रत्यक्षत्वाभावे साध्ये तत्समर्थनार्थ उत्तरो ग्रन्थः। 20
तदर्थमुपसंहत्यान्ते साधनम् 'अत इदं नैव प्रत्यक्षम् , अतथाभूतार्थाध्यारोपात्मकत्वात् , भ्रान्तिवत् , अथवा तत एव हेतोः संवृतिसंज्ञानवदप्रत्यक्षम्', तद्व्याख्या यथापरमार्थसदूपत्वात् खभावस्य सम्भवेन ज्ञानं तमवभासयतीति परमाणूनां विषयत्वमालम्बनत्वं स्यादिति भावः । नालम्बनता तेषामतीन्द्रियत्वादित्याह-तेनाभासमिति । एवञ्च कल्पनापोढं प्रत्यक्षमित्यलक्षणम् कल्पनात्मकत्वात् प्रत्यक्षस्य निरालम्बनत्वाच खवचनव्यपेक्षाक्षेपदुस्तरविरोधप्रस्तुतेश्च खरविषाणस्य कुंठतीक्ष्णादिनिर्णयवदित्यनर्थकत्वं साधयति-अत इत्यादिना 25 खेनैव वचनेन पूर्वापरेण प्रत्यवमृश्यमानेन दुस्तरस्य विरोधस्य प्राप्तेरित्यर्थः। आलम्बनभूतं विषयमभ्युपेत्यापि दोषमभिदधातुमाह तस्मिन्नभ्युपेतेऽपि विति,सच विषयः सञ्चय एव वाच्यो न तु परमाणुरतीन्द्रियत्वात् ,एवञ्च तत् प्रत्यक्षं सञ्चितालम्बनरूपं जातम् , स च प्रत्यक्षाभास एव त्वन्मतेन कल्पनात्मकत्वात् , खलक्षणविषयञ्च प्रत्यक्षमसिद्धमिति भावः। कथं तस्य कल्पनात्मकतेत्यत्राह-उक्ताचेति, संज्ञासंख्येति, मृगतृष्णकाप्रत्ययः संज्ञयाऽन्यथाप्रतिपत्तिरूपः, अजलायां मृगतृष्णिकायां जलबुद्धेः। द्विचन्द्रप्रत्ययः संख्ययाऽन्यथाप्रतिपत्तिरूपः चन्द्रस्यैकत्वात् , अलातचक्रप्रत्ययः संस्थानेनान्यथाप्रतिपत्तिरूपः, अग्निक-30 णानां चक्ररूपत्वाभावात् , नीलरूपे पीतप्रत्ययो वर्णनान्यथाप्रतिपत्तिरूपः, चक्षुर्गतपीतताया अन्यत्र विज्ञानात् , तदर्थमुपसंहत्येति । अन्ते-पूर्वपक्षिणो बौद्धस्याभिधर्मकोशे प्रत्यक्षादिज्ञाननिरूपणप्रकरणान्ते इत्यर्थः । अत्रापि तद्रन्थानुपलम्मेन साधु मूलव्याख्याविवेकः कर्तुमहमसमर्थः संवृत्त इति सुधीभिर्भाव्यम् । अतथाभूतेति, खलक्षणं हि अनारोपितं वस्तु तत्र साधारणं रूपमारोप्यते समारोप्यमाणं हि सकलपरमाणुसाधारणम् , तथा चातथाभूतार्थाध्यारोपात्मकत्वात, भ्रान्तिज्ञानमिव
द्वा० न० १४
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org