________________
द्वादशारनयचक्रम्
[विध्यरे गोपालेत्यादिना दृष्टान्तं समर्थ्य तथा संवृतिसतीत्यादिना दार्टान्तिकसमर्थनम्। संवृतिसल्लक्षणे ज्ञापकमाह 'यस्मिन् भिन्न' इति श्लोकः ।
(तदिति), भ्रान्तिवत्-नावारूढस्य तीरवृक्षधावनदर्शनात्मिकामेकां क्रियाभ्रान्ति मुक्त्वा प्रोक्तचतुर्विधभ्रान्तिवत् , उपनयस्तु व्यवहारप्रसिद्धस्य परमाणुनीलत्वग्रहणस्य सर्वत्रातथाभूतार्थप्रति5 पत्तिसाधर्म्यात् ।
___ यस्मिन् घटे भिन्ने कपालशकलशर्करादिभावेन घटाभिमताद्वस्तुनोऽन्येष्वप्यपोहेषु कपालादिषु न घटबुद्धिरस्ति, तदग्रहे तबुद्ध्यभावात् , अङ्गल्यभावे मुष्टिबुद्धिवत् , अतोऽङ्गुलिव्यतिरेकेण मुट्यभाववत् कपालादिव्यतिरेकेण घटाभाव इति संवृतिसन् घटः, एवं क्रिया
सम्भवे क्रिययाऽपोढे । यत्रापि क्रिययाऽपोहो न सम्भवति तत्रापि धियाऽपोहेऽन्येषां रूपादीनां 10 घटस्य समुदायान्न तद्बुद्धिरस्ति, रूपादिसमुदायस्य च परमाणुरूपाद्यपोहे न तद्बुद्धिरस्तीति
वर्तते दृष्टान्तोऽम्बुवत् , एकस्मिन्नपि जलबिन्दौ जलबुद्धिदर्शनात् , रूपादिषु पुनर्बुद्ध्याऽपोढेषु न तोयबुद्धिरस्तीत्येतत्संवृतिसतो लक्षणम् । अथवा यस्मिन् घटे भिन्नेऽवयवशो न तद्बुद्धिर्भवति तद्धटवत्संवृतिसत्, यत्र चाम्बुबुद्ध्यार्थान्तरापोहे न तद्बुद्धिरर्थान्तरनिवृत्ति
रूपस्य वस्तुनः स्वरूपाभावादग्निवाय्वादिनिवृत्तिमात्रं व्यवहारप्रसिद्धाम्बुवत्तदपि संवृतिसत्, 16 परमार्थसदन्यथा, एतद्विपरीतलक्षणम् , स्वत एव विविक्तरूपं यद्विद्यते रूपं रस इत्यादि तत्परमार्थसत् प्रत्यक्षगोचरमिति' । एतदपि परमार्थसदित्यभिमतं संवृतिसल्लक्षणानतिवृत्तेरसदेव यथोक्तविधिना । यथा रज्वां सर्प इति ज्ञानं, तददृष्टौ तत्रापि सर्पवद्रज्जुविभ्रम इत्यप्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति ।
(यस्मिन्निति) (असदेवेति) यथोक्तविधिना संवृतिसदेव सर्वमपीत्यत्रापि ज्ञापकोदाहरणं 20 तत्संवाद्यभिहितं रज्वां सर्प इति ज्ञानम् , तावदेव रज्ज्वां सर्प इति विपर्ययज्ञानं भवति यावदस्मदादिभिर्विशेषलिङ्गादर्शनम् । विशेषतस्तु तदवधारणदृष्टौ सत्यां प्राक्तनं सर्पदर्शनं जायतेऽनर्थकम् । सापि रज्जुबुद्धिस्तदवयवे दृष्टौ सत्यां यथा सर्प इति ज्ञानमनर्थकं तथानयिंका, तत आह-तददृष्टौ तत्रापि सर्पवद्रजुविभ्रम इति । एवमनया कल्पनया सर्पपिण्डज्ञानानां संवृतिसद्विषयतैवेति साधूक्तम
त्वदुक्तं प्रत्यक्षमपि नैव प्रत्यक्षं सञ्चितालम्बनप्रत्ययत्वेनैवास्य प्रत्यक्षत्वादिति भावः । यस्मिन् भिन्न इति, 'यस्मिन् भिन्ने न 25 तद्बुद्धिरन्यापोहधियाऽपि च। घटाम्बुवत्संवृतिसत् परमार्थसदन्यथा' इति कारिका। तामेतां कारिकां व्याख्याति-यस्मिन् घटे भिन्न इति । एवं क्रियासम्भव इति, घटस्य क्रियया पुरुषादिप्रयत्ननिर्वृत्तया कपालादिभावेन मेदे सति न तद्बुद्धिरिति प्रथमपादव्याख्यानं कृतम् , यत्र क्रियया मेदः कर्तुं न शक्यते तत्राप्याह-यत्रापीति, द्वितीयपादव्याख्येयम्, बुङ्ख्या यदि घटे रूपादिकमपनोद्यते तदा घटबुद्धिनिरुज्यते, रूपे च परमाणुत्वं प्राप्तेऽपि रूपबुद्धिः प्रवर्तत एव अतस्तत्परमार्थसदिति, जलसमुदायस्यापोहेऽपि जलबिन्दौ जलबुद्धिरस्तीति खत एवेति, यस्य भेदरूपता क्रियया बुद्ध्या वा न कर्तुं शक्यते 30 किन्तु खतो विविक्तं तादृशं रूपं रसादि परमार्थसदित्यर्थः । यद्भवतः परमार्थसत्त्वेनाभिमतं तदपि प्रोक्तविधिना संवृतिसदेवेति
मूलकृदाह-एतदपीति । सञ्चितस्यैव प्रत्यक्षादिविषयतया बुद्ध्या मेदे परमाणोरेकस्याप्राह्यतया न परमाणुरिति बुद्धिरस्तीति परमाणुरपि संवृतिसन्नेवेति भावः । तदवधारणदृष्टौ सत्यामिति, रजरेव नायं सर्प इत्येवमवधारणे दृष्टे सतीत्यर्थः । तथैव रजुबुद्धिरप्यनर्थिका भवति यदा विशेषतो रजववयवदर्शनं भवतीत्याह-सापीति, तददृष्टाविति, विशेषलिङ्गादर्शन
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org