________________
प्रत्यक्षस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम् प्रत्यक्षं नीलादिविषयं चक्षुरादिविज्ञानं शाक्यपुत्रीयं भ्रान्तिवदिति । एवं तावत्कल्पनापोढप्रत्यक्षलक्षणसञ्चितालम्बनपञ्चविज्ञानकायग्रन्थविरोधोद्भावनचोद्योपक्रमायातपरिहारार्थस्यानेकार्थजन्यस्वार्थसामान्यगोचरवाक्यस्य सप्रसङ्गो दोषोऽभिहितः ।
अधुना यदेतदनेकरूपेत्यादिग्रन्थचोद्यद्वाराऽऽयातकल्पनात्मकत्वपरिहारार्थं यथोक्तमायतनस्वलक्षणं प्रतीति तत्कथमित्येतत्परिहारार्थस्य तस्य वाक्यस्य दोपं वक्तुकामः परपक्षमेव तावत् प्रत्युच्चारयन् । व्याचष्टे सूरिष्टीकाकारलिखितं लिखन्
__ यावदेकाकारपरिकल्पनादिति, उत्तरन्त्वत्राप्यनेकार्थविषयैकप्रत्ययत्वात्-तेषु परमाणुषु प्रत्येकमतीन्द्रियेषु समुदितेष्वसमुदितेषु वा प्रत्ययाभावात्तत्समूहोऽनेकार्थविषयः स एवैकः प्रत्ययः, समूहालम्बनतदाभासज्ञानोत्पत्त्यभ्युपगमात्, अर्थभेदविषयज्ञानाभ्युपगमे च 'विजानाति न विज्ञान'मित्यादि विरुद्ध्येत, तस्मादेकप्रत्ययोऽनेकार्थविषय एकार्थरूपस्तत 10 एव सामान्यरूपस्तदतद्विषयतया तदतद्भूतसामान्यगोचरः ततश्चास्वलक्षणो विषयः, अतएव संवृतिसञ्चयस्तस्मात् कल्पनात्मको निर्देश्यश्चेत्येवमाद्यस्माभिः प्राक् प्रक्रान्तं तत्सुतराम्, शेष त्वयैव भावितमनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरमिति परिहारं ब्रुवता ।
(यावदिति), गतार्थम् , उत्तरं त्वत्रापि, अपिशब्दात् पूर्वस्मिन्नर्थविकल्पे व्याख्याता दोषास्तेऽत्रापि सम्भवन्ति, कथमिति चेत् ? अनेकार्थविषयकप्रत्ययत्वात् , अनेकोऽर्थः परमाणवः, तद्विषय 15 एक इति प्रत्ययः, सोऽनेकार्थविषयकप्रत्ययः, तद्भावादनेकार्थविषयकप्रत्ययत्वात् । (अखलक्षणो विषयः) त एव हि परमाणवः खलक्षणम् , न तत्समूहः सामान्यत्वात् , अत एव संवृतिसञ्चयः सः, तस्मात्-अखलक्षणविषयत्वात् ।
किश्वान्यत्
भवदभिमतप्रत्यक्षस्याप्रत्यक्षत्वसाधने च द्वे अनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचर- 20 त्वादिति लेशेनोनीते त्वयैव ।
(भवदिति) मा भूत् स्वाभ्युपगमदोषव्यक्तिरित्युक्ते कुशलजनतर्कगम्ये न स्फुटे, कतमे द्वे ? अनेकार्थजन्यत्वात् , स्वार्थ सामान्यगोचरत्वादिति चैते द्वे ।।
इत्यर्थः । तत्रापि- रजौ। एवं तावदिति, कल्पनापोडं ज्ञानं प्रत्यक्षम् , सञ्चितालम्बनाः पञ्च विज्ञानकाया इति ग्रन्थोपरि विरोधे उद्भाविते तद्वारणार्थ अनेकार्थजन्यत्वात्स्वार्थे सामान्यगोचरमिति वाक्यमुपन्यस्तम् तच्च दूषितमिति भावः । 25 यच्चोक्तमनेकप्रकारभिन्नैकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽखलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थमायतनखलक्षणं प्रत्येते खलक्षणविषया न द्रव्यखलक्षणमिति कथं तत्कल्पनापेतमित्यन्यत्र विचारः करिष्यत इति तदिदानी विचार्यते यावदेकाकारेति, समूहालम्बनेति, अनेकविषयतैकविज्ञानं दूरान्मणिसमूहदर्शनवदखलक्षणविषयमनुमानतदाभासज्ञानवदसत्कल्पनविषयत्वादप्रत्यक्षमप्रमाणं वा स्यादिति भावः। अर्थभेदेति रूपायतनं परमाण्वादि च प्रतीत्य ज्ञानाभ्युपगम इत्यर्थः। अनेकार्थविषय एकार्थरूप इति, सामान्यलक्षण एकप्रत्ययस्तदतद्विषयतया सामान्यगोचरो- 30 ऽभ्युपेय इत्यर्थः अग्रे स्फुटमेव । एते द्वे इति, अप्रत्यक्षत्वसाधने सूक्ष्मबुद्धिगम्ये न च स्फुटे त्वयैवोपात्ते इत्यर्थः ।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org