________________
१०८
द्वादशारनयचक्रम्
[ विध्यरे तत्र तावत्प्रथमं साधनम्--
तदभिमतप्रत्यक्षमप्रत्यक्षम् , अनेकार्थजन्यत्वात् , अनुमानवत् , अनुमानमपि हि पक्षधर्माद्यनेकार्थजन्यम् , ज्ञापकः स हेतुरिति चेन्न, अत्रापि तुल्यत्वात् , कारकादप्यनेकस्मादर्थात् साध्यसाधनधर्मान्वयैकान्तवतो जायते ।
(तदभिमतेति) दृष्टान्तेऽनुमानेऽनेकार्थजन्यत्वमसिद्धमिति मा मंस्थाः, यस्मादनुमानमपि पक्षधर्माद्यनेकार्थजन्यम्, पक्षधर्मः सपक्षानुगमो विपक्षव्यावृत्तिरित्यनेकार्थेन जन्यतेऽम्यनित्याद्यनुमानज्ञान तथेदमपि प्रत्यक्षमनेकपरमाण्वर्थजन्यमिति, ज्ञापकः स हेतुरिति चेत्, स्यान्मतं-अनुमाने पक्षधर्मादिरनेकोऽप्यर्थो धूमकृतकत्वादिरम्यनित्यादिज्ञानस्य न कारकः, किन्तर्हि ? पूर्वसिद्धमेवावि
नाभाविनं सम्बन्धं स्मारयतीति ज्ञापकः स हेतुः, इतरस्तु प्रत्यक्षज्ञानस्य कारकोऽर्थस्तस्माद्वैधाद10 दृष्टान्तः इत्येतच्चायुक्तम् , अत्रापि तुल्यत्वात् , कारकादपीत्यादि, अनुमानमिति वर्तते, अनुमानमपि
स्वार्थ कारकादनेकस्मादर्थाज्जायते, कस्मात् ? साध्यसाधनधर्मान्वयैकान्तवतः, पक्षधर्मसपक्षानुगमविपक्षव्यावृत्तिमत ऐकान्तिकात् , अग्निमान् प्रदेशो धूमवत्त्वाचुल्लीमूलवत्, अनित्यः शब्दः कृतकत्वाद्घटवत् , न नदीवन्नाकाशवदिति कारकहेतुतैवानुमानेऽपि तदर्थस्य ।
इतर आह15 असञ्चितानेकार्थजन्यत्वादनुमाने नैतत्साधर्म्यमुपपद्यते, अत्रोच्यते, ननु धूमादिरपि सञ्चय एव गृहीतोऽन्यादिकमणव इव गमयतीति कारकत्वाव्यभिचार उभयत्र ।
(असश्चितेति), असञ्चितानेकार्थजन्यत्वादनुमाने नैतत्साधर्म्यमुपपद्यते, कस्मात् ? असश्चितानेकार्थजन्यत्वादनुमानस्य, सचितानेकार्थजन्यत्वाच्च प्रत्यक्षस्य, देशकालभिन्नसन्निहितासन्निहिता.
र्थविषयं ह्यनुमानं तद्विपरीतविषयं प्रत्यक्षमिति । अत्रोच्यते नन्विति प्रसिद्धानुज्ञापने, ननु धूमोऽग्नि 20 मत्त्वविशिष्टप्रदेशधर्मा चतुर्भूतसङ्घातोऽन्वयव्यतिरेकसहितोऽग्निमत्त्वविज्ञानं प्रदेशे जनयति, अणुसमुदायो यथा रूपविज्ञानं गमयति, अग्निर्न ज्ञानं जनयतीतिज्ञानोत्पत्तौ कारकत्वाव्यभिचारादुभयोति ।
हेतुप्रत्ययोऽसौ धूमोऽनुमाने, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षमतो वैधो दृष्टान्त इति चेदथ कथं साधनानधिपतिधूमः ? हेतुप्रत्ययस्यार्थस्येन्द्रियाविषपक्षधर्म इति, यथा वह्नयनुमितिः शब्देऽनित्यत्वानुमितिर्वा पक्षवृत्तिसपक्षवृत्तिविपक्षव्यावृत्तिलक्षणानेकार्थेन जन्यते तथा 25 प्रत्यक्षमपि अनेकपरमाणुभिर्जन्यत इति भावः। एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकमिति न्यायेनाविनाभावलक्षणसम्बन्धेनैकसम्बन्धिनो धूमादेर्शानमपरसम्बन्धिनमन्यादिं स्मारयतीति धूमादिआपको न तु कारकः परमाणवश्च विषयतया प्रत्यक्षज्ञानस्य कारका एवेत्यनुमानदृष्टान्तो न युक्त इत्याह झापकः स हेतरिति चेदिति। अनुमानस्यापि धूमादिकं कारकहेतुरेवेत्याहअत्रापि तुल्यत्वादिति । न नदीवदिति बहेविपक्षः नाकाशवदिति अनित्यत्वस्य विपक्षः । अनुमानमसञ्चितानेकार्थजन्यं प्रत्यक्षन्तु सञ्चितानेकार्थजन्यमिति दृष्टान्तदान्तिकयोवैषम्यमाशङ्कते-असञ्चितेति। एतत्साधयं-प्रत्यक्षसाधर्म्यम् । 30 धूमोऽपि सञ्चितानेकार्थ एवेत्याह-नन्विति । अणव इवेति, अणुसमुदायो रूपविज्ञानमिवेत्यर्थः। कारकत्वाव्यभिचार
उभयत्रेति यथा गृहीतोऽणुसञ्चयो रूपविज्ञानं जनयति धूमादिरपि सञ्चय एवं गृहीतोऽम्यादिकं गमयतीत्युभयत्र कारकत्वमव्यभिचरितमिति भावः । उभयत्रेति, प्रत्यक्षेऽनुमाने चेयर्थः । कल्पनाया हेतोरिति, अनुमानहेतोषूमादेः कल्पनात्म
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org