________________
१०९
प्रमाणैक्यापत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् यत्वादिति चेन्ननु सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिरिन्द्रियाविषयत्वात् , तस्मात् सर्वथा तुल्य. मुभयं कारकत्वेन । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमिति।
हेतुप्रत्यय इत्यादि, स्यान्मतं हेतुः प्रत्ययो निमित्तमालम्बनमित्यर्थः, असौ धूमोऽनुमाने निमित्तमनधिपतिप्रत्ययः, कल्पनाया हेतोः, निर्विकल्पं हि ज्ञानमधिपतिप्रत्ययं प्रत्यक्षं न तथाऽनुमानमतो वैधोऽत्र दृष्टान्त इति चेत्-एवश्वेन्मन्यसे, अत्र परेणैवोत्तरं वाचयितुकाम आह-अथ कथमि-5 त्यादि, इदमसिद्धं द्रष्टव्यम् , कथं साधनानधिपतिधूम इत्यनालम्बनमित्यर्थः । इतर आह-इन्द्रियाविषयत्वाद्धेतुप्रत्येयस्याम्न्यादिलक्षणस्य । आचार्य आह-ननु सञ्चयनहेतुप्रत्ययोऽप्यनधिपतिः, इन्द्रियाविषयत्वात् ,-परमाणुसञ्चय एव प्रत्यक्षेऽप्यनधिपतिः, तस्मादेव हेतोरिन्द्रियाविषयत्वात् , सञ्चयस्य परमाणुव्यतिरिक्तस्यासत्त्वादिति विस्तरेण प्रागभिहितमेतत् । तस्मात् सर्वथा तुल्यमुभयं कारकत्वेनेति । तथा स्वार्थे सामान्यगोचरत्वादनुमानवदप्रत्यक्षमित्येतस्मिन् साधने कारकहेतुत्वप्रतिपादनार्थः प्रपञ्च- 10 स्तुल्य इत्यतिदिशति ।
अनुमानं वा प्रत्यक्षं स्यात् , अनेकार्थजन्यत्वात् , स्वार्थे सामान्यगोचरत्वादिति ।
अनुमान वेत्यादि, वाशब्दो विकल्पार्थः, यदि प्रतिपादितमिदं युक्तिवचनात् प्रत्यक्षस्य त्वदभिमतस्यानुमानत्वं मया, तत्त्वया खग्रहरक्तमनसा खसमयप्रसिद्ध्यनुपातिना नेष्यते, प्रत्यक्षत्वमेवेष्यते ततस्तस्मात्साधादनुमानं वा प्रत्यक्षं स्यादनेकार्थजन्यत्वात् स्वार्थे सामान्यगोचरत्वादिये-15 ताभ्यामेव हेतुभ्यां प्रत्यक्षवदित्येते अपि द्वे साधने लेशेनोनीते न स्फुटे इति । ___ किश्चान्यदेतस्मादेव हेतुद्वयाद्विषयैक्यापत्तेः प्रमाणैक्यमित्यत आह
द्वयमप्येतदेकमेव, एकलक्षणत्वादिति प्रत्यक्षमेवैकं प्रमाणं तदुभयं स्यादनेकार्थजन्यसामान्यैकगोचरत्वात्, चक्षुरादिद्वारजन्मप्रत्यक्षभेदप्रत्यक्षवत् , अनुमानमेव वा स्यात् , तत एव कारणाद्धूमकृतकत्वाद्यनुमिताग्न्यनित्यादिज्ञानानुमानवत् ।
20 (द्वयमपीति) स्वसामान्यलक्षणं ह्येकमेव वस्तु विषयोऽस्य प्रमाणस्येत्युक्तविधिना प्रसक्तत्वात् । इदानीं वसुबन्धोः स्वगुरोस्ततोऽर्थाद्विज्ञानं प्रत्यक्षमिति ब्रुवतो यदुत्तरमभिहितं परगुणमत्सराविष्टचेतसा तत्त्वपरीक्षायां परमोदासीनचेतसा तु येन केनचिदभिप्रायेण स्वमतं दर्शितमेव दिन्नेन वसुबन्धुकत्वान्नानधिपतिप्रत्ययोऽपि तु हेतु प्रत्ययः, परमाणोश्चाकल्पनात्मकत्वादधिपतिप्रत्ययो निर्विकल्पकप्रत्यक्षस्यातो दृष्टान्तदाान्तिकयोवैषम्यमित्यर्थः । इदमसिद्धमिति, साधनानधिपतिधूम इत्यसिद्धमित्यर्थः । स्वखविषयाणामुपलब्धौ चक्षुरादीनां पञ्चा- 25 नामाधिपत्यादग्नर्हेतुप्रत्येयस्येन्द्रियाविषयत्वान्न साधनमधिपतिप्रत्यय इति पूर्वपक्षयति-इन्द्रियाविषयत्वादिति । परमाणुसञ्चयस्यापि परमाण्वव्यतिरिक्तस्यातीन्द्रियस्य प्रत्यक्षेऽनधिपतित्वमिन्द्रियाविषयत्वादित्युत्तरयति-ननु सञ्चयनहेत्विति । द्वितीय साधनमधिकृत्याह-तथा स्वार्थ इति। इत्थं त्वदभिमतप्रत्यक्षस्याप्रत्यक्षत्वे त्वदीयसाधनाभ्यामेवोपपादितेऽपि यदि खकीयग्रहे एवानुरक्तचित्तत्वात् खसमये विख्यातिकामुकत्वाच्च तन्नानुमन्यते चेत्तर्हि तत एव हेतुभ्यामनुमानमपि प्रत्यक्षं स्यादित्याहअनुमानं वेति । प्रमाणद्वित्वव्याघातमप्याह-द्वयमपीति । प्रत्यक्षस्यानुमानस्यापि अनेकार्थजन्यसामान्यमेको विषयो यत 30 इत्यर्थः। यथा चाक्षुषरासनादिज्ञानानामेकप्रत्यक्षान्तर्भावोऽन्यथाऽनेकप्रमाणत्वात् प्रमाणद्वित्वं न स्यात् , इदश्च प्रत्यक्षस्यैवैकस्यागीकारे। अनुमानस्यैवैकस्याङ्गीकारे तु वयनुमिति शब्दानित्यत्वानुमित्यादीनामेकानुमितिप्रमाणेऽन्तर्भावो यथा तथा प्रत्यक्षस्याप्ये. कलक्षणत्वात्तत्रैवान्तर्भावः स्यादिति भावः। स्वसामान्यलक्षणमिति । खलक्षणसामान्यलक्षणात्मकमेव वस्तु विषयः पर
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org