SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [विध्यरे प्रत्यक्षलक्षणं दूषयता, तस्य पुनरर्थो योऽस्तु सोऽस्तु किं नोऽनेन, इदमेव तावदस्तु रूपादिष्वालम्बनार्थो वक्तव्य इति विकल्प्य विकल्पद्वये दोषजातं तल्लक्षणे प्रक्रान्तं तत्तवापि समानमिति प्रतिपादयिष्यन्नयचक्रकारः सविशेषं तन्मतविरोधहेतुं स्ववचनजनितमाह अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायां यथाभासं तेषु ज्ञानमुत्पद्यते, तथा त । आलम्बनं रूपादयः, प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् समुदयकृतं तन्निर्भासतयाऽऽलम्बनम् । (अनेकार्थेति) अनेकार्थजन्यत्वाच्च स्वार्थसामान्यगोचरतायामित्यादि शिष्याचार्ययोः तुल्योत्तरत्वात् , स्वार्थ इति नीलादिः स एव किल सामान्यमनेकार्थजन्यत्वात् , अनेकार्थाः परमाणवस्तजन्यं नीलविषयं प्रत्यक्षमत इन्द्रियस्य स्वार्थ इति, एतस्यामनेकार्थजन्यत्वाच स्वार्थसामान्यगोचरतायां यथाभासं 10 तेषु ज्ञानमुत्पद्यते तथा त आलम्बनं रूपादय इति नीलपीतादित्वेन यथैवाभासन्ते तथैवालम्बनमि येतदिष्टम् , किं कारणं त एव नीलादिपरमाणवो नालम्बनमिति चेदुच्यते प्रत्येकं परमाणुरूपस्य बुद्धावसन्निवेशात् , एकमेकं प्रत्येकं परमाणूनां यन्नीलादिरूपं तस्यातीन्द्रियत्वाद्बुद्धावसन्निवेशः, तस्मात् किं प्राप्तं ? समुदयकृतं तन्नि सतयाऽऽलम्बनमित्येतत् प्राप्तं, नीलादिरूपस्य तत्समुदायात्मकत्वात् । ... एवञ्च सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं 15 प्रत्यक्षमिति ज्ञानमर्थेन विशेष्यते । (एवञ्चेति) एवञ्च सति-परमाणुसञ्चयनीलादिनिर्भासतयाऽऽलम्बनत्वे सति प्रत्यक्षार्थ एवं ज्ञायते, तद्यथा-अर्थसन्निकर्षादक्षं प्रति यदुत्पद्यते तज्ज्ञानं प्रत्यक्षमिति ज्ञानमर्थन विशेष्यते, अर्थेनेन्द्रियस्य सन्निकर्षादुत्पद्यमानं ज्ञानमक्षं प्रति वृत्तेः प्रत्यक्षमिति ज्ञानेऽर्थस्य विशेषणता, सन्निकर्षाद्वाऽक्षं प्रति यो वर्ततेऽर्थः स प्रत्यक्षः, अर्थन्द्रियसन्निकर्षादक्षं प्रतिवृत्तेः प्रत्यक्षमितत्वादुपचरित20 वृत्तिरर्थोऽक्षेण विशेष्यत इति । अत्रोत्तरमुच्यते न तदुपपद्यते प्रत्यक्षम् , तस्यार्थस्याभावात् , न च सञ्चयोऽर्थः, संवृतिसत्त्वात् संवतिसत्त्वमद्रव्यत्वात् , वान्ध्येयवत् , अतो न साधूत्पत्तिप्रत्यय इष्यते इति सोऽर्थो न विशे षणेन विशेष्यः। तस्माज्ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः। 25 (नेति) एवञ्च सतीत्युच्चार्य सञ्चयः प्रसक्त इत्यभ्युपगम्य दूषयति-यस्मान्न च सञ्चयोऽर्थः, माणूनां तत्सञ्चयस्य च गोचरत्वादिति भावः। अथ ततोऽर्थाद्विज्ञान प्रत्यक्षमिति वसुबन्धुलक्षणं दूषयता दिन्नेन तदुपरि रूपादिध्वालम्बनार्थो वक्तव्य इति विकल्पद्वयं विधाय दूषितम् , सूरिश्च तदेव दूषणं तवापि प्रसज्यत इत्याह-अनेकार्थजन्यत्वाञ्चेति। प्रत्यक्ष नीलादिविषयं नीलादिरेवेन्द्रियस्य स्वार्थः समुदयकृतः स निर्भासतयाऽऽलम्बनमनेकार्थजन्यत्वात् , परमाणुरूपन्तु अतीन्द्रियत्वेन बुद्धावसन्निवेशानालम्बनमिति भावः । परमाणुसश्चयेति, परमाणूनां सञ्चयरूपं यन्नीलादि तस्यैव निर्भास 30 तया प्रत्यक्षस्यालम्बनत्वे सति प्रत्यक्षशब्दस्यार्थ एवं ज्ञायत इत्यर्थः । ज्ञानमर्थन विशेष्यत इति, नीलादिनाऽर्थेन ज्ञानं विशेष्यते नीलज्ञान पीतज्ञानमिति विषयाणां प्रत्यक्षपदबोध्यत्वमुपचारादित्याह-सन्निकर्षाद्वति । घटः प्रत्यक्षः नीलं प्रत्यक्षमित्येवमर्थोऽक्षेण विशेष्यते । संवृतिसत्त्वेनार्थस्य सञ्चयस्याभावानालम्बनत्वं सम्भवति, अतः प्रत्यक्षं निरालम्बनमिति किं Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy