________________
प्रमेयाभावः]
न्यायागमानुसारिणीव्याख्यासमेतम् किं कारणं नार्थः सञ्चय इति चेत् संवृतिसत्त्वात् , संवृतिसत्त्वमद्रव्यत्वात् , वान्ध्येयवत्, अत:एतस्मात् कारणान्न साधूत्पत्तिप्रत्यय इष्यते, उत्पत्तौ प्रत्यय आलम्बनप्रत्यय इत्यर्थः, सोऽसत्त्वान्नेध्यते, इतिशब्दो हेत्वर्थे, एतस्मात् कारणात् सोऽर्थो न विशेषणेन विशेष्यः, तस्मात् विशेषणविशेष्यत्वाभावात् , ज्ञानत्वप्रत्यक्षत्वाभ्युपगमहानिः, ज्ञानं प्रत्यक्षमित्येतदभ्युपगतम्, विशेषणस्य विशेष्यस्य चार्थस्याभावात् किं विषयं ज्ञानं प्रत्यक्षञ्च स्यादिति हीष्यते ।
किश्चान्यत
चक्षुरादिषु ज्ञानेष्वतः स्वनिर्भासव्यतिरिक्तप्रमेयाभावः, ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकाद्विचन्द्रादिदर्शनवत् सा त्वसत्सत्प्रतिपत्तिरेव, तस्मात्तस्य ज्ञानस्याप्रत्यक्षत्वमलातचक्रादिज्ञानवत् तेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः।
चक्षुरादिषु ज्ञानेष्वत इत्यादि यावदनुमानविरोधः, चक्षुरादीन्द्रियबुद्धयः स्वविषयनिर्भास-10 स्वरूपमात्रा एव, ज्ञानत्वात् , वस्तुत्वात् , सत्त्वात्, तैमिरिकादिज्ञानवत्, अतश्चक्षुरादिविज्ञानेषु स्वनि सव्यतिरिक्तप्रमेयाभावः, ततश्च तैमिरिकस्य केशोन्दुकमशकमक्षिकाद्विचन्द्रादिदर्शनवत् सा त्वसत्सत्प्रतिपत्तिरेव, असदवस्तु सद्वस्त्विति प्रतिपत्तितः, तस्माद्धेतोरसत्सत्प्रतिपत्तेः-विपर्ययप्रतिपत्तेस्तस्य ज्ञानस्याप्रत्यक्षत्वं प्रसिद्धमलातचक्रादिज्ञानवत् , तेन-अप्रत्यक्षत्वेन प्रसिद्धेन त्वया प्रतिज्ञातं तत्प्रत्यक्षत्वं निराक्रियते, तन्निराकरणादनुमानविरोधः ।
___ ननु प्रत्यक्षनिराकरणात् प्रत्यक्षविरोधोऽयं कथमनुमानविरोध इति, अत्रोच्यते त्वन्मतेन सपक्षधर्मस्य विपक्षस्योक्तानुमानेन निराकरणानिर्विकल्पकप्रत्यक्षत्वाभावात् कतमत्तत्प्रत्यक्षं येन निराक्रियेत, यद्वा निराकुर्यात् ? अतोऽनुमानविरोध एवायम्। किश्चान्यत् , घटसंख्योक्षेपणसत्ताघटत्वाद्याकारज्ञानानामपि प्रत्यक्षत्वप्रसङ्गः, कथमिति चेदुच्यते यथा चात्र भवन्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थाद्यदुत्पद्यते तदपि च तैमिरिकवदप्रमाणम् , यथा 20 द्विचन्द्रदर्शनं तथा समानानेकवर्णमणिसमूहजन्येन्द्रियस्वार्थादुत्पद्यमानमपि तैमिरिकवदप्रमाणं स्यात्, समानानेकार्थादतथाभूतार्थान्मण्यादिसाताजन्यं हि तत् , यदि समानासमानानेविषयं ज्ञानं प्रत्यक्षञ्च स्यादिति भावः। वान्ध्येयवदिति, वन्ध्यापुत्रवदित्यर्थः । स्वविषयेति, चक्षुरादीन्द्रियबुद्धिषु विषयतया यो निर्भासते तत्स्वरूपमात्रा बुद्धयः, न तदतिरिक्तः कश्चन पदार्थोऽस्ति यथा तैमिरिकबुद्धौ निर्भासमानाः केशोन्दुकादयो द्विचन्द्रादयश्च, अत एवासौ प्रतिपत्तिस्तथाविधवस्त्वभावेऽपि सत्त्वेन निर्भासनादसत्प्रतिपत्तिरेवैवमिदमपि ज्ञानमप्रत्यक्षं स्यादिति वसुबन्धुलक्षणं भवता निराक्रियत इत्यनुमानविरोधः स्यादिति भावः । अनुमानविरोधे कारणमाह-त्वन्मतेनेति । सपक्षभूतप्रत्यक्षस्य विपक्षभूतस्य प्रत्यक्षस्यापि ज्ञानत्वादिहेतुना निराकरणात्प्रत्यक्षाभावेनानुमानस्यैव विरोध आयात इति भावः । सपक्षो निर्विकल्पप्रत्यक्षमात्रं विपक्षः सविकल्पप्रत्यक्षम् । विवादाध्यासितं ज्ञानमप्रत्यक्षम् , असत्सत्प्रतिपत्तेरलातचक्रादिज्ञानवदित्यनुमानेन वा निराकरणादिति बोध्यम् , असत्सत्प्रतिपत्तित्वञ्च ज्ञानत्वादिना सिद्धमिति नासिद्धिहे तोरिति । घटसंख्येति, द्रव्यगुणकर्मसामान्यविशेषाकारज्ञानानामपीत्यर्थः । अयं भावः कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते यदा नीलादिप्रकारावच्छेदः 30 स्यादिति न वक्तुं शक्यते एकस्य परमाणोरिन्द्रियाविषयत्वादतोऽनेकार्थजन्यत्वमभ्युपेयम् , तत्रानेकार्थजन्यखार्थोऽपि नीलादिसामान्यमेव, अनेकार्थपरमाणुजन्यत्वात् . अत एव स स्वार्थो न वस्तुस्खलक्षणः किन्तु संवृतिसन् , तादृशखार्थाद्यदुत्पद्यते ज्ञानं
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org