________________
११२
द्वादशारनयचक्रम्
[विध्यरे कार्थातथाभूतार्थात् प्रज्ञप्तिसतःपरमार्थसदाकारो लभ्यते त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं प्रत्यक्षमिष्टम् , तदा निराकृतेभ्यः सत्पक्षत्वेन घटसंख्याद्याकारेभ्यः समानासमानानेकार्थजन्येन्द्रियस्वार्थेभ्यः प्रत्यक्षज्ञानजनकार्थसधर्मभ्यः परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदिति घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादिज्ञानं 6 प्रत्यक्षं, स च तद्विषयः प्रत्यक्षः स्यात्, संवृतिसदालम्बनत्वान्नीलादिज्ञानवत् , नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम् , संवृतिसत्त्वाद्धटादिज्ञानार्थवत् , त एव हि परमाणवो य एव. घटादित्वेनाभासन्ते य एव नीलादित्वेनाभासन्त इत्येवमुभयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति ?।।
नन्विति, यथा चात्रेत्यादिदार्शन्तिकमुक्त्वा दृष्टान्ततत्साधर्म्यश्च वर्णयति-यथा चात्र भव10 न्मतेन समानासमानानेकार्थजन्येन्द्रियस्वार्थात्-समानेन नीलादिवर्णनानेकेन परमाणुसङ्घातलक्षणेनार्थेन जन्य इन्द्रियस्वार्थो नासाधारणो वस्त्वभिमतस्वलक्षणस्वार्थः, कस्मात् ? तत्त्यक्त्वा तत्रानेकार्थजन्यत्वात् स्वार्थसामान्यगोचरं ज्ञानमिति वचनादन्यादृशस्वार्थस्येष्टत्वात् , तादृशस्वार्थाद्यदुत्पद्यते ज्ञानमित्यभिसंभत्स्यते, तदपि च तैमिरिकवदप्रमाणम् , तिमिरे भवं तैमिरिकम् , यथा द्विचन्द्रदर्शनम् तथा समानेनाप्यनेकवर्णमणिसमूहेन जन्य इन्द्रियस्वार्थो मेचकस्तस्मादुत्पद्यमानं तदपि च तैमिरिक15 वदप्रमाणम् , कुतः ? यस्मात् समानानेकार्थात् तस्मादतथाभूतार्थान्मण्यादिसङ्घाताजन्यं-उत्पद्यते,
अतथाभूतार्थत्वमस्य संवृतिसत्त्वात् , अत आह-समानासमानानेकार्थातथाभूतार्थात्-नीलादिसङ्घातात् प्रज्ञप्तिसत:-आलम्बनात्संवृतिसतः परमार्थसदाकारो-नीलादिको लभ्यते, यतस्त एव हि परमार्थसन्तः परमाणवो नीलादित्वेनाभासन्त इति तद्विषयं ज्ञानं नीलादिप्रत्यक्षमिष्टम् । तथा निराकृतेभ्यः सत्प
क्षत्वेन घटसङ्ख्याद्याकारेभ्यः-घटसयोत्क्षेपणसत्ताघटत्वाद्याकारेभ्यः प्रत्यक्षजनकार्थसधर्मभ्यः, कतमेन 20 साधम्र्येण सधर्मभ्य इति चेदुच्यते समानासमानानेकार्थजन्येन्द्रियस्वार्थेभ्य इत्येतत्सधर्मभ्यः, किमुक्तं
भवति समानासमानानेकार्थातथाभूतार्थभ्यः परमार्थसदाकारो लप्स्यते नीलादिसङ्घातवदिति, अतस्तदुपसंहृत्य साधनमाह घटः संयुक्तो वियुक्तः परोऽपरः स्पन्दत इत्यादिज्ञानं प्रत्यक्षम् , स च तद्विषयः प्रत्यक्षः स्यात् , संवृतिसदालम्बनत्वान्नीलादिज्ञानवत्, नीलादिज्ञानं तदर्थश्च न प्रत्यक्षे वा स्याताम् , संवृतिसत्त्वात् , घटादिज्ञानार्थवत् । वाशब्दस्य विकल्पार्थत्वादुभयत्र ज्ञानोत्पादकार्था25 विशेषः । तत्समर्थयति-त एव हि, ते हि परमाणवो य एव घटादित्वेनाभासन्ते य एव च नीलादित्वेना
भासन्त इति । एवमुभयोर्नीलादिघटादिज्ञानयोस्तुल्ये जनकत्वे तत्कुत एतन्नीलाद्याभासज्ञानं प्रत्यक्षं न घटाद्याभासमिति, स्वरुचिमात्रादन्यत् कारणं नास्तीत्यर्थः । तदपि तैमिरिकज्ञानवदप्रमाणम् , तथानेकवर्णमणिसमूहजन्यमेचकखार्थादुत्पद्यमानमपि, समानानेकार्थादतथाभूतार्थात् संवृतिसतः
इत्पन्नत्वात् । यदि तु समानानेकार्थादतथाभतार्थात संवृतिसतो नीलादिसंघातात्स्वार्थावत्पद्यमानस्य नीलादिज्ञानस्य परमा30 र्थसत्परमाणूनामेव नीलादिसदाकारत्वेनावभासनातू प्रत्यक्षज्ञानमिष्यते तर्हि समानासमानानेकार्थेन्द्रियखार्थेभ्योऽतथाभूतार्थभ्यः
संवृतिसन्य उत्पद्यमानमपि घटसंख्याद्याकारं ज्ञानमपि परमार्थसत्परमाणूनामेव घटसंख्यादिसदाकारत्वेनावभासनात् प्रत्यक्ष स्यात् , अन्यथाऽत्र संवृतिसत एवालम्बनत्वेनाप्रत्यक्षत्वे नीलादेनीलादिज्ञानस्यापि तद्वत् प्रत्यक्षता न स्यात् , उभयत्राविशेषादिति भावः। प्रत्यक्षजनकार्थसधर्मभ्य इति, नीलादिप्रत्यक्षस्य जनकीभूतो योऽर्थः नीलादिसंघातरूपः खार्थः तेन
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org