________________
रूपघटानाकारताऽणोः] न्यायागमानुसारिणीव्याख्यासमेतम्
बुद्धावाभासनसामर्थ्याविशेषाञ्च जनकहेत्वविशेषमेव दर्शयति__यथैव हि परमाणवो ज्ञानस्याकारसन्निवेशविशिष्टाः सामान्यत आभासन्ते तथा घटादिज्ञानेष्वप्याकारविशेषेण समुदितास्त एवाभासन्ते, नान्यो घटो नामास्ति यस्तथा भासेत, तथास्थेषु रूपादिष्वेव घट इति बुद्धिः प्रवर्तते प्रज्ञप्तिश्च, एवं तथास्थेष्वेव परमाणुषु नीलादिरूपबुद्धिः प्रवर्तते प्रज्ञप्तिश्चेति।।
यथैव हीत्यादि यावत्समुदितास्त एवाभासन्त इति, अत्र च यथापरमाण्ववयवसमुदायता च नीलप्रत्यक्षावभासत्वात् , तथास्थेषु-तेन प्रकारेण स्थितेषु । सर्वमुभयत्र तुल्यम् ।
अत्र परेणोभयोवैधर्म्यप्रदर्शनार्थम्
अथोच्येत नीलादिसमुदाये नीलादिद्रव्यसदाकारो विद्यते, तदण्वात्मकत्वात्तेषाम् , अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यम् , न तु घटाद्याकारोऽतत्परमाणुत्वात् , तथाऽसत्त्वात् । 10
अथोच्येत नीलादिसमुदाय इत्यादि यावत्तथाऽसत्त्वादिति; नीलादिसमुदाये नीलादिद्रव्यसदाकार:-परमार्थसदाकारः स विद्यते, किं कारणं ? तदण्वात्मकत्वात्तेषाम् , नीलादीनामण्यास्मकत्वात् , अणूनां द्रव्यसत्त्वात्तत्प्रत्यक्षत्वं न्याय्यम् , न्यायादनपेतं न्याय्यं युक्तमित्यर्थः, तद्विषयस्य च ज्ञानस्य प्रत्यक्षत्वं तत्प्रत्यक्षत्वम् । न तु घटाद्याकारः-न त्वस्ति घटसंख्योतक्षेपणाद्याकारोऽतत्परमाणुत्वात्, तस्याकारस्य परमाणुत्वं तत्परमाणुत्वं न तत्परमाणुत्वमतत्परमाणुत्वमतोऽतत्परमाणु-15 त्वात् । ततः किं ? तथाऽसत्त्वात्-तेन प्रकारेणासत्त्वात्-परमाणुत्वेन तेषां घटाद्याकाराणामसत्त्वात् ।
अत्राचार्य उत्तरमाह
एतच्च तुल्यमुभयत्राविशेषात् , यथैव तस्मिन् रूपादिसमुदाये घटाधनाकारता, तदनणुत्वात् तथाऽसत्त्वात् , एवं रूपाद्याकारस्यानाकारता, अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात्तस्यैवालम्बनत्वात् तदनणुत्वात् , तथाऽसत्त्वात् , अन्यथाऽविषयत्वादनालम्बन- 20 त्वादत एवाप्रत्यक्षत्वात्।
(एतचेति) एतच्च तुल्यमुभयत्राविशेषात् , परमाणुजन्यत्वादेव नीलादिघटाद्याकारप्रत्यक्षयोः । यथैव तस्मिन् रूपादिसमुदाये घटाद्यनाकारता तदनणुत्वात् , तस्य घटाद्याकारस्यानाकारता तस्या
सह समानासमानानेकार्थजन्येन्द्रियस्वार्थत्वधर्मेण सदृशा घटादिसंख्यादिसंघातास्तेभ्यो घटसंख्यादिज्ञानस्य तत्संघातानाच परमार्थपरमाणुसदाकारो लप्स्यते नीलादिसंघाततज्ज्ञानवदिति भावः । सच-घटादिसंघातः, तद्विषयः घटसंख्यादिविष-25 यश्च प्रत्यक्षः स्यादित्यर्थः । यथैव हीति, नीलादिज्ञाने परमाणव एव सामान्येनाकारसन्निवेश विशिष्टा यथाऽवभासन्ते तथैव : घटादिज्ञानेऽपि परमाणव एवाकारसन्निवेशविशेषेणावभासन्ते समुदितपरमाणुभ्योऽव्यतिरिक्तत्वाद्धटादेः । यथा तेन प्रकारेण स्थितेष्वेव रूपादिषु घट इति बुद्धिः, तद्विषया प्रज्ञप्तिश्च प्रवर्तत एवमेव तेन प्रकारेण स्थितेषु परमाणुष्वेव नीलरूपबुद्धिः तद्विषया प्रज्ञप्तिश्च प्रवर्तत इत्याभासनसामर्थ्याविशेषाजनकहेतोर्विशेषाभावेन नीलाद्याभासमेव प्रत्यक्षं न घटाद्याभासमित्येकशेषो न युज्यते कर्तुमिति भावः । ननु नीलात्मका हि परमाणवोऽतो नीलादिसमुदाये नीलादिपरमार्थसदाकारो विद्यते, न तु घट- 30 संख्याद्यात्मकाः परमाणवः, तस्माद्धटादिज्ञानेषु न घटादिपरमार्थसदाकारतया परमाणूनां प्रतिभासः, एवञ्च नीलादिज्ञानस्य तद्विषयस्य च प्रत्यक्षत्वं युक्तं न तु घटादिज्ञानस्य तद्विषयस्य चेत्याशयेनाह-नीलादिसमुदाय इति । अतत्परमाणुत्वादिति, घटसंख्याद्याकाराणां परमाण्वात्मकत्वाभावादित्यर्थः, अविशेषमाह-परमाणुजन्यत्वादेवेति । उभयत्रेतिपदप्रात्यमाह-नीलादिघटाद्याकारप्रत्यक्षयोरिति । रूपाद्याकारस्यानाकारतेति, न रूपायाकारः परमावात्मक
द्वा० न० १५
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org