SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ११४ द्वादशारनयचक्रम् [विध्यरे कारस्यानणुत्वात् , तथाऽसत्त्वात् अनणुत्वेन घटाद्याकारणासत्त्वात् , अणुत्वादेव सत्त्वात् , एवं रूपाद्याकारस्यानाकारता, अनन्तरोक्तहेतोः सञ्चितस्यैन्द्रियकत्वात्-परमाणुसमुदायस्यैन्द्रियकत्वात् , तस्यैबालम्बनत्वात् , असश्चितस्यातीन्द्रियत्वात् , अत एवानालम्बनत्वात् , तदनणुत्वात् ,-तस्य सञ्चित. स्पैन्द्रियकस्यालम्बनस्थानणुत्वात् तथाऽसत्त्वात्-अनणुत्वादेवासत्त्वात् , अन्यथाऽविषयत्वात्-परमा6 णुत्वेनाविषयत्वात् , अविषयत्वादेवानालम्बनत्वात् , अत एवाप्रत्यक्षत्वात् । किश्चान्यत्--- पक्षान्तरापत्तिश्चैवं यदाभासं तेषु ज्ञानमुत्पद्यते तथा नालम्बनमित्येवं पक्षं परित्यज्य यथा ते विद्यन्ते तथा नालम्बनमित्ययं पक्ष आश्रितो भवति, अस्मिन्नपि च पक्षे त्वयैव वसुबन्धुं प्रत्युक्ता ये दोषास्ते तवापि स्युः, यस्मात्त्वयाऽपि चायं पक्षोऽङ्गीकृत एव, यथाच 10 प्रत्यक्षोत्पत्तिबीजसञ्जननार्थमुक्तं प्रत्येकञ्च ते समुदिताः कारणमिति, तत्रानेकार्थजन्यत्वात् स्वार्थ सामान्यगोचरमित्यस्य व्याख्यायां पुनर्वसुबन्धुं दूषयितुकामेन विकल्पितः स एवार्थः। किम् ? यथा विद्यमाना अन्याभासस्यापि विज्ञानस्य कारणं भवन्ति तथा प्रत्यक्षस्यालम्बनं रूपादय इति पूर्वपक्षत्वेनैतयोश्च वचनयोरेकाकारार्थत्वादसावपि पक्षोऽभ्युपगतस्त्वया, एवमपि न त आलम्बनमतीन्द्रियत्वाद्गगनवत् ।। 18 (पक्षान्तरेति) पक्षान्तरगमनश्च वादावसानायेति । किश्चान्यत्-(अस्मिन्नपीति) कथमिति चेत्तदर्शयति-(यथा चेति), ततः को दोष इति चेत् ? (एवमपीति) अतीन्द्रियत्वात्-इन्द्रियगोचरातीतत्वात् । इन्द्रियज्ञानालम्बनं न भवन्ति परमाणवः। किश्चान्य उत्तरदोष उच्यते अभ्युपगम्याप्येवंविधालम्बनताश्चान्यथाविद्यमानाः परमाणवः समूहाभासस्यापि ज्ञानस्य 20 कारणं भवन्तीति धूमोऽग्निप्रत्यक्षज्ञानालम्बनं स्यात् , तथाविद्यमानत्वेऽन्याभासस्यापि ज्ञानस्य कारणीभवनात् , त्वदुक्तप्रत्यक्षालम्बनवत् , यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथाविद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधयत्तिज्जनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतामात्मनः साधयति, धूमनिमित्ताग्निज्ञानं वा प्रत्यक्षं इत्यर्थः, नीलादिज्ञाने यो नीलाकारः स सञ्चितोऽत एवैन्द्रियकोऽत एव चालम्बनम्, परमाणुस्त्वसञ्चितोऽत एवातीन्द्रियोऽत 25 एवानालम्बनमिति कथं नीलाद्याकारः परमाण्वात्मक इति भावः । अनन्तरोक्तहेतोरिति, प्रत्येकं परमाणुरूपस्य बुद्धाव सन्निवेशादित्यर्थः । पक्षान्तरापत्तिश्चेति, यदाभासं तेषु ज्ञानं तथा ते आलम्बनमिति वसुबन्धुं दूषयितुं तथानालम्बन मित्येव पक्ष आश्रयणीयः परन्तु त्वयाऽथोच्येतेति ग्रन्थात् यथा ते विद्यन्ते तथा नालम्बनमित्येवं पक्षः श्रित इति पक्षान्तरापत्त्या निग्रहस्थान प्राप्त इति भावः। कथं मयाऽयं पक्षोऽङ्गीकृत इत्यत्राह-प्रत्येकञ्च त इति, अनयोक्त्या यदाभासं ज्ञानमुत्पद्यते तथानालम्बनमिति पक्ष उक्तः परमाणूनामेव समुदितानां शिबिकोद्वाहकन्यायेन कारणत्वात् , अनेकार्थजन्यवादित्युक्त्या च यथा ते विद्यन्ते परमाणवस्तथैव प्रत्यक्षस्य कारणमिति पक्ष आश्रितः त एव परमाणवोऽन्याभासज्ञानस्य कारणीभवनादिति प्रतिभाति । सूरिरुत्तरमाह-एवमपि न त आलम्बन मिति । उत्तरदोष इति, वसुबन्धोर्यदुत्तरं दत्त तत्र दोष उच्यत इत्यर्थः । तथा विद्यमानानामन्याभासविज्ञानजनकत्वेऽङ्गीकृतेऽनेकान् दोषानभिधातुमाह-अभ्र पीति । अन्यथाऽविद्यमानाः-समूहात्मनाऽविद्यमानाः स्वस्वरूपेण विद्यमाना इत्यर्थः । ननु धूमोऽमिप्रत्यक्षस्यालम्बनं स्यात्, Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy