________________
न्यायागमानुसारिणीव्याख्यासमेतम्
परमाण्वनालम्बनता ]
११५
स्यात्, अन्यथाविद्यमानत्वेऽन्याभासविज्ञानजनकार्यालम्बनत्वात् त्वदुक्तप्रत्यक्षवत्, तस्मादेव तोश्चक्षुराद्यप्यालम्बनं स्यादेवमयमतिप्रसङ्गदोष एवंवादिनो यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टम् ।
10
अभ्युपगम्याप्येवंविधालम्बनताश्चेत्यादि यावत्त्वदुक्तप्रत्यक्षालम्बनवदिति, अन्यथा विद्यमानाः परमाणवः - अतीन्द्रियत्वेन विद्यमानाः समूहाभासस्यापि ज्ञानस्य कारणं भवन्तीत्येवं - 5. विधालम्बनतायां सत्यां धूमोऽभिप्रत्यक्षज्ञानालम्बनं स्यात्, तथाविद्यमानत्वेऽन्याभासस्यापि ज्ञानस्य कारणीभवनात् - धूमत्वेन विद्यमानो धूमोऽम्याभासस्य अन्याभासज्ञानस्य कारणीभवनुपलभ्यत इति पक्षधर्मत्वमस्त्यस्य त्वदुक्तप्रत्यक्षालम्बनवदिति दृष्टान्ते तस्य सपक्षानुगमनं दर्शयति-यथा त्वदुक्तस्य प्रत्यक्षस्यालम्बनं परमाणवोऽन्यथा विद्यमानाः - परमाणुत्वेन विद्यमानाः समूहाभासज्ञानस्य कारणं भवन्ति तथा धूमोऽपि तत्साधर्म्यात्तज्जनितज्ञानालम्बनस्याग्नेः प्रत्यक्षालम्बनतया व्याप्तत्वात् प्रत्यक्षाल- ' म्वनतामात्मनः साधयति । धूमनिमित्ताभिज्ञानं वा प्रत्यक्षं स्यात्, तथाविद्यमानत्वेऽन्याभास विज्ञानजनकार्थालम्बनत्वात् त्वदुक्तप्रत्यक्षवत्, तत्साधर्म्यदेव त्वदुक्तप्रत्यक्षं समूहार्थेनाप्रत्यक्षं स्याद्भूमजनिताम्यर्थज्ञानवत् । किञ्चान्यत् - तस्मादेव हेतोश्चक्षुराद्यप्यालम्बनं स्यात्, एवमयमतिप्रसङ्गदोष एवं वादिनः - यदि कारणमालम्बनं विज्ञानस्यान्याभासस्यापीष्टं ततश्चक्षुरादीन्द्रियाणि चक्षुरादिविज्ञानानामालम्बनानि स्युः, अन्यथा विद्यमानत्वेऽन्याभासस्यापि विज्ञानस्य कारणीभवनाच्चक्षुरि- 15 न्द्रियं चक्षुर्विज्ञानस्यालम्बनं स्यात् रूपादिपरमाणुवत् तज्ज्ञानं वा चक्षुरिन्द्रियालम्बनं स्यात्तज्जन्यत्वे सत्यन्याभासत्वात् परमाणुजन्यरूपविज्ञानवत्, एवं श्रोत्रादिज्ञानानि । परमाण्वालम्बनमभ्युपगम्यायं दोष उक्तः ।
"
न च ग्राह्यस्य नीलादेर्विषयस्य चक्षुरादिविज्ञानस्य नीलादिपरमाणव आलम्बनम्, अन्यथा विद्यमानत्वाच्चक्षुरादिवत् । तदसाधारणविषयत्वाद्वा रसज्ञानवत् ।
नच ग्राह्यस्य नीलादेर्विषयस्येत्यादि, चक्षुरादिभिर्ग्राह्यस्य नीलादेः समूहात्मकस्य विषयो गोचरः सम्बन्धि चक्षुरादिविज्ञानं तस्य नीलादिपरमाणवो नालम्बनम्, अन्यथा - परमार्थतो विद्यमानत्वात् चक्षुरादिवत्, नीलादिग्राह्य विषयज्ञानालम्बना न भवन्ति परमाणवः, यथा चक्षुरादीन्द्रियाण्यन्यथा परमार्थतोऽनीलादिपरमाण्वात्मकानि सन्ति अन्यथा नीलादिज्ञानोत्पत्तौ हेतुभावं बिभ्रति नालम्बनानि तथा परमाणव इति । इतश्च परमाण्वालम्बनं न भवति चक्षुर्विज्ञानम्, तदसाधारणविषयत्वाद्वा, तस्या- 25
Jain Education International 2010_04
अन्यथाविद्यमानत्वे सत्यन्याभासज्ञानस्य हेतुत्वात् त्वदुक्त प्रत्यक्षालम्बनवदित्यनुमानम्, अत्र हेतोः पक्षधर्मत्वं दर्शयन्नाह - धूमत्वेन विद्यमान इत्यादिना । दृष्टान्ते साध्यहेत्वोरनुगमनं दर्शयति-यथा त्वदुक्तस्येति । उपनयनिगमने दर्शयत्यर्थतः - तथा धूमोऽपीति । लाघवात् परमाणुजनितसमूहाभासज्ञानस्य प्रत्यक्षवद्धूमजनिताग्निज्ञानस्यापि प्रत्यक्षत्वं स्यादित्याह - धूमनिमित्ताग्निज्ञानं वेति । समूहाभासज्ञानस्यानुमानवदप्रत्यक्षं वा स्यादित्याह तत्साधर्म्यादेवेति । परमाणुवच्चक्षुरादीनामप्यालम्बनत्वापत्तिमाह-किञ्चान्यदिति । चक्षुषि चाक्षुषज्ञाने वा चक्षुर्विज्ञानालम्बनत्वं चक्षुरिन्द्रियालम्बनत्वं वाऽऽपा - 30 दयति-चक्षुरादीन्द्रियाणीति । ननु चक्षुरादिग्राह्य समूहात्मकनीला दिगोचरचक्षुरादिविज्ञानस्य न नीलादिपरमाणव आलम्बनम्, अन्यथा विद्यमानत्वे सत्यन्याभासविज्ञानकारणत्वात् चक्षुरादिवदिति प्रयोगमाह-न च ग्राह्यस्येति । परमाण्वालम्बनतां निरस्यति । चाक्षुषज्ञानं पक्षत्वेनाधिकृत्याह - तदसाधारणेति । तदसाधारणविषयत्वाद्वेति,
20
For Private & Personal Use Only
www.jainelibrary.org