________________
११६
द्वादशारनयचक्रम्
[विध्यरे साधारणविषयत्वाच्चक्षुर्विज्ञानस्य, असाधारण एवैको नीलपरमाणुर्विषयोऽस्येति तदसाधारणविषयत्वम् , तञ्च सिद्धं प्रत्येकं च ते समुदिताः कारणमिति वचनात् , तस्मादसाधारणविषयत्वाद्वा रसज्ञानवत् , यथा रसज्ञानमसाधारणविषयत्वान्नीलपरमाण्वालम्बनं न भवत्येवं चक्षुर्विज्ञानमपि, वाशब्दा
सन्नीलपरमाणवश्चक्षुर्विषया न भवन्त्यसाधारणविषयत्वात् , असाधारणाश्च ते विषयाश्च, रसज्ञान6 बत् , रसज्ञान इव रसज्ञानवत् , यथा रसज्ञाने रसलक्षणोऽर्थोऽसाधारणविषयत्वात्त्वन्मतेनैव चक्षुविज्ञानविषयो न भवत्येवं नीलपरमाणव इति ।
इतर आह
ननु च प्रत्येकमेव ते समुदिताः कारणमित्युक्तमेव, तथासन्त एव समुदिताः परमाणव आलम्बनम् , तदवस्थेषु ज्ञानोत्पादनशक्त्यभिव्यक्तेः, सा हि प्रत्येकं विद्यमाना नाभिव्यज्यते, 10 चक्षुरादिपरमाणूनामिव, न ह्येक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानमुत्पादयितुमलम् , न
तत्समुदायः, प्रज्ञप्तिसत्त्वात् , तस्मात् प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः, शिबिकावाहकसमुदाये वहनशक्तिवत् , वैधयेणान्धपतौ प्रत्येकादर्शनवैलक्षण्यं न । - ननु च प्रत्येकमेव ते समुदिताः कारणमित्यादि यावदन्धपत्रौ प्रत्येकादर्शनवैलक्षण्यं 'नेति, ननु मया विशिष्योक्तं प्रत्येकमेव ते समुदिताः कारणमिति, किमुक्तं भवति ? तथासन्त-एव 15 परमाणुत्वेन परमार्थसन्त एव समुदिताः परमाणवश्चक्षुरादिज्ञानोत्पत्तिहेतुत्वादालम्बनम् । किं कारणं ? तदवस्थेषु ज्ञानोत्पादनशक्त्यभिव्यक्तेः, सः समुदायः अवस्था येषान्ते तदवस्थाः, तदवस्था एव हि ज्ञानमुत्पादयितुं शक्ताः, सा हि ज्ञानोत्पादनशक्तिः प्रत्येकं विद्यमाना नाभिव्यज्यते समुदायेऽमिव्यज्यते, को दृष्टान्तः ? चक्षुरादिपरमाणूनामिव प्रत्येकं रूपदर्शनशक्तानामपि न सा शक्तिरभिव्य" ज्यते समुदाये त्वभिव्यज्यते, तद्वदालम्बनपरमाणूनामपि, विषयविषयिपरमाणूनां प्रत्येकं तद्व्यक्तीनाम20 प्यसमुदितानां शक्त्यभावं तुल्यं दर्शयति-न हीन्द्रियपरमाणुर्विषयपरमाणु विज्ञानमुत्पादयितुमलमिति, न तत्समुदायः, प्रज्ञप्तिसत्त्वात्-नापि तेषामिन्द्रियविषयपरमाणूनां समुदायो विज्ञानमुत्पादयितुमलं प्रज्ञप्तिसत्त्वात्-परमार्थतोऽसत्त्वादित्यर्थः। तस्मादेकमेकं प्रति कारणभावः-प्रत्येककारणता, तस्यां सत्यामेव प्रत्येककारणतायामणूनां समुदाये दर्शनशक्तिव्यक्तिः किमिव ? शिबिकावाहकसमुदाये वहनशक्तिवत्, यथा शिविकावाहकानां प्रत्येक विद्यमानैव सा वहनशक्तिः समुदायेऽभिव्यज्यते तथैन्द्रिय
26 तन्निष्ठासाधारणविषयत्वादित्यर्थः तत्पदेन चक्षुर्विज्ञानं ग्राह्यमतो न व्यधिकरणता हेतोः, एतदेव बहुव्रीहिणा दर्शयति असाधा
रण एवेति, चक्षुर्विषयस्य धर्मित्वे न बहुव्रीहिः किन्तु कर्मधारय एवेत्याशयेनाहासाधारणाश्चेति, नन्वेवं रसज्ञानवदिति दृष्टान्ते न हेतुसद्भावस्तस्य विषयवृत्तित्वादित्यत्राह रसज्ञान इव रसज्ञानवदिति, अभिप्रायं स्फोरयति यथेति । ननु च प्रत्येकमेवेति, परस्परं मिलिताः प्रत्येकाभिन्ना ये परमाणवस्त एव प्रत्यक्षज्ञानकारणभूताः सन्त आलम्बनम्, न केवलं
परमाणुः, तच्छत्तयनभिव्यक्तेः, नापि केवलं समुदायः, तस्य परमार्थतोऽसत्त्वादतः समुदितास्ते कारणमालम्बनमिति भावः । 30 विषयविषयिपरमाणूनामिति । विषयपरमाणवः नीलादिपरमाणवः विषयिपरमाणवश्चक्षुरादिपरमाणवः, तद्व्यक्तीनां
विषयविषयिपरमाणुव्यक्तीनाम्, न तत्समुदाय इति, परमाणूनां समुदायो विशिष्ट इत्यर्थः, अत्र पक्षे परमाणुभिर्विलक्षणः
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org