________________
अभ्युपगतनिरोधः] न्यायागमानुसारिणीव्याख्यासमेतम्
११७ विषयपरमाणूनां दर्शनश्यशक्तिः, वैधय॒णान्धपंक्तौ प्रत्येकादर्शनवैलक्षण्यं नेति, यथाऽन्धानां प्रत्येकमसती दर्शनशक्ति व्यक्तिस्तत्पशावपि न भविष्यति तथेन्द्रियविषयद्रष्ट्रदृश्यशक्तयो नाभविष्यन् , भवन्ति तु, तस्मात् प्रत्येकं विद्यमानशक्तय एवेन्द्रियविषयपरमाणवः समुदायेऽभिव्यक्तशक्तयो भवन्तीति___अनोच्यते- नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, असञ्चितपरमाण्वालम्बनाश्रयणात्, । तच्चाभ्युपगतं निरुणद्धि प्रत्येकं दर्शनशक्तिख्यापनात् ।
(नन्वेवमिति) नन्वेवमभ्युपगतनिराकरणफलैवेयं प्रत्यक्षव्यवस्था, अभ्युपगतं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, तस्याभ्युपगतस्य निराकरणं फलमस्याः प्रत्यक्षव्यवस्थायाः, कुतः ? असश्चितपरमाण्वालम्बनाऽऽश्रयणात् , प्रत्येकं दर्शनशक्तिमतामिन्द्रियविषयपरमाणूनां दर्शनशक्तिव्यक्तिरित्यस्यां कल्पनायां नन्वसञ्चिताः परमाणवश्चक्षुर्विज्ञानोत्पादनशक्ता इत्येतदाश्रितं भवति पञ्चानां 10 विज्ञानकायानामसञ्चितालम्बनत्वम् , तच्चाभ्युपगतं निरुणद्धि सञ्चितालम्बनत्वमिदं कल्पनान्तराश्रयणम् , किं कारणं ? प्रत्येकं दर्शनशक्तिख्यापनात् , शिविकावाहकसाधर्म्यात्त एव दर्शनशक्तियुक्ताः प्रत्येकमिति भवन्ति ।
स्यान्मतम्___ ननु प्रत्येकशक्तानामेव सञ्चये तच्छत्यभिव्यक्तिरित्युक्तम् , सत्यमुक्तम् , एतदयुक्तम् ।। जनकानन्यथात्वात् , न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम् ।
(नन्विति) आचार्य आह सत्यमुक्तं एतदयुक्तम् , किं कारणं ? जनकानन्यत्वात् , न हि ज्ञानस्य जनकेभ्यः परमाणुभ्योऽन्यः सञ्चयोऽस्तीति प्रागेतद्विस्तरेण प्रतिपादितम् , तस्माजनकानन्यत्वात् सञ्चयाभावात् प्रत्येकं दर्शनशक्त्यभिव्यक्तिः प्रत्यक्षव्यवस्थाऽभ्युपगतनिराकरणफलैवेयम् । 20 अथवा जनकानामन्यः प्रकारोऽन्यथा तद्भावोऽन्यथात्वं तत्प्रतिषेधो जनकानन्यथात्वं तस्मात् , जनकानां-परमाणूनामतीन्द्रियाणामनन्यथात्वादैन्द्रियकत्वव्यवस्थानाभावात् सञ्चयस्यार्थान्तरभूतस्याभाबादस्ति परमाण्वालम्बनाश्रयणं तदवस्थम् ।
समुदायो विज्ञेयः तस्यैव संवृत्तिसत्त्वादसत्त्वमुक्तम् , अणूनां समुदाय इति, विशिष्ट सम्बन्धवत्सु परमार्थसत्सु परमाणुवित्यर्थः सञ्चितपरमाणुष्विति यावत् , तेन पूर्व समुदायो विज्ञप्तिसत्त्वान्निराकृतः अतोऽत्र कथं तत्समुदाये दर्शनशक्त्यभि- 25 व्यक्तिरित्याशङ्का परास्ता वैधhणान्धपताविति, प्रत्येकमन्धेषु याऽदर्शनशक्तिः सैवान्धपतौ वर्त्तते नतु काचिद्विलक्षणा दर्शनशक्त्यात्मिका विद्यत इति भावः । प्रत्येकं दर्शनशक्तिख्यापनादिति, प्रत्येकं परमाणुषु दर्शनशक्तिखीकारे विज्ञानस्य तदालम्बनत्वप्राप्त्या सञ्चितानामेवालम्बनत्वविषयोऽभ्युपगमः सञ्चितालम्बनाः पञ्च विज्ञानकाया इत्येवंरूपो निराकृत एव भवेदिति भावः । कल्पनान्तराश्रयणं-असञ्चितपरमाण्वनालम्बनाश्रयणम् , निरुणद्धीति शेषः । ननु प्रत्येकं शक्त्यभावे समुदाये शक्ति यातीति प्रत्येकं समुदाये च शक्तिर्मयोक्ता न केवलं प्रत्येकमेव, समुदाये वा, तस्मात्सश्चये शक्त्यभ्युपगमात् 30 कथमभ्युपगतनिराकरणफला कल्पनेत्याशङ्कते नन्विति । सत्यमित्यर्धाङ्गीकारे, प्रत्येकाभावे समुदायेऽयभाव इत्यस्याङ्गीकारः सूचितः, अनङ्गीकारार्थमाह-जनकानन्यथात्वादिति, सञ्चयस्येति शेषः । भावार्थमाह-तस्मादिति । तथापि परमा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org