SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रम् [विध्यरे - अथवा युक्तैषा कल्पना त्वयाऽऽश्रयि, स्वलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञातसंवादित्वात्तनिर्वोढुकामेन । प्रत्येकं ते समुदिताः कारणमित्येतद्धि प्रत्यक्षविषयसमर्थवचनमादिप्रतिज्ञातवत् , यस्मात्स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् , प्रत्यवेक्षितव्यार्थोपायसाध्यसाधनसम्बन्धो हि वक्तव्यः, अहो साधु ! किन्तु पुनरत्र देवानां प्रिय ! भवति दोषजातम् , किं तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् । पूर्वापरानुमतनिगमनपरिग्रहेण वाssदिप्रतिज्ञातार्थनिरसनम् । (अथवेति) अथवा युक्तैषा कल्पना त्वयाऽऽश्रयि स्वलक्षणविषयं प्रत्यक्षमित्येतत्प्रतिज्ञातसंवादित्वात्तन्निर्योदुकामेन । यस्मात् प्रत्येकं ते समुदिताः कारणमित्येतत् प्रत्यक्षविषयसमर्थनवचनम् , आदिप्रतिज्ञातेन तुल्यं वर्तत इत्यादिप्रतिज्ञातवत्-आदिप्रतिज्ञातानुरूपम् । या हि प्रतिज्ञा स्खलक्षणं 10 प्रत्यक्षमिति सैतेन वचनेन न विरुद्ध्यते, यस्मात्स्वलक्षणविषयत्वप्रतिसमाधानेन निर्वहणमेतत् स्वलक्षण. विषयं प्रत्यक्षमित्यादौ प्रतिज्ञाय प्रत्येकं ते समुदिताः कारणमिति ब्रुवताऽणूनां स्खलक्षणत्वात् । प्रत्यवेक्षितव्यार्थोपायसाध्यसाधनसम्बन्धो हि वक्तव्यः । अहो साधु ! किन्तु पुनरन देवानाम्प्रिय ! भवति दोषजातम्, किन्तत् ? अनेकार्थजन्यस्वार्थसामान्यगोचरनिरसनम् , तत्रानेकार्थजन्यत्वात् खार्थे सामान्यगोचरमिति चोद्योत्तरपक्षपरिग्रहेण प्रत्यवेक्षितव्यार्थोपायसौस्थित्यार्थनिगमनवचनमनेन तु निरस्यते, 15 अथ मा भूदेष दोष इति पूर्वापरानुमतनिगमनपरिग्रहेण वा आदिप्रतिज्ञातार्थनिरसनम्, वाशब्दस्य विलक्षणत्वात् स्खलक्षणविषयप्रत्यक्षत्वं वा निरस्यते, अनेकार्थजन्यस्वार्थसामान्यगोचरता वोभयं वा निरस्यत इति । किश्चान्यत् प्रत्येकं समुदिताः कारणमिति वचनादव्यस्ता इत्येतदर्थापन्नमिति तदेव पुनः स्मारयति दोषान्तरैः,20 अनेकान्तवद्वयोरन्तरयोरवस्थातव्यं तैः परमाणुभिरेकतः. प्रत्येकसमुदितैः प्रत्येकतायाश्च । (अनेकान्तवदिति) द्वयोरन्तरयोरवस्थातव्यम् , द्वावन्तौ-द्वौ देशौ, द्वयोर्देशयोरवस्थेयं तैः परमाणुभिरेकतः प्रत्येकसमुदितैः, किमिव ? अनेकान्तवत् , अनेकान्तेन तुल्यं वर्तत इत्यनेकान्तवत् , यथा द्रव्यान्तरपर्यायान्तरयोरवतिष्ठमानाः परमाणवस्त एव तत्समुदायश्चेति व्यपदिश्यन्ते, तथा प्रत्ये25 ग्वालम्बनाश्रयणं तदवस्थमेवेति सूचनाय व्याख्यान्तरमाह-अथवा जनकानामिति । परमाण्वालम्बनतायाः स्वीकारेऽपि दोषान्तरमाह-अथवेति, प्रथमोक्तस्य स्खलक्षणविषयं प्रत्यक्षमिति वाक्यस्य प्रत्येकं ते समुदिताः कारणमिति वाक्येन त्वया निवोहः कृतः, उभयत्र परमाणुलक्षणस्खलक्षणस्यैव विषयत्वप्रतिपादनात्, किन्तु पूर्वोत्तरपक्षाभ्यां विचार्य यन्निगमनं कृतमनेकार्थजन्यत्वात् खार्थे सामान्यगोचरं प्रत्यक्षमिति तत्तु त्वयाऽनेन वचनेन निराकृतमेव, अस्य वा वचनस्य परिग्रहे प्रथम प्रतिज्ञातः प्रत्येकं ते समुदिताः कारणमिति वाक्यार्थो निराकृत एव भवतीत्यथवा युक्तैषा कल्पनेत्यादि यावदादिप्रतिज्ञाता30 निरसनमिति ग्रन्थसन्दर्भस्याभिप्रायः। प्रत्यवेक्षितव्येति, प्रत्यवेक्षितव्यस्य निर्णेयस्यार्थस्योपायभूतः साध्यसाधनसम्बन्धोऽवश्यवाच्यः स चोक्त इति पूर्वपक्षाशयः । तत्रापि दोषमाह-अहो साध्विति, अहो साधु वक्तव्यः किन्तु दोषजातमत्र भवति, अनेकार्थजन्यत्वादिति वाक्यविरोधः, तस्याभ्युपगमे च प्राथमिकवाक्यविरोध इति भावः । ननु प्रत्येकं ते समुदिताः कारणं नतु व्यस्ता इत्यभ्युपगमेऽनेकान्तवादापत्तिव्यपर्यायरूपेणावतिष्ठमानानां परमाणूनां कारणतावधारणादित्याह-अनेकान्तवदिति, त एव तत्समुदायश्चेति, प्रत्येकावस्थायां समुदायावस्थायां च वर्तमानत्वात् परमाणना Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy