________________
समुदायासम्भवः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
कतायाच्चावस्थेयमित्यनेकान्तसाधर्म्य दर्शयति, चशब्दः समुच्चये, किं समुश्चिनोति ? समुदायमुपरितनम् प्रत्येकतायाञ्च समुदाये चावस्थातव्यमिति ।
११९
प्रत्येक शक्यतो हि समुदाय इत्युभयथा स्याद्वादिनो यद्वदन्ति तदेव तवाप्यापनम्, साक्षात्तदुक्ततत्त्वत्वात्, अनेकैकत्व भृशगत्यर्थ समुदायपरिग्रहाच्च ।
(प्रत्येकेति ) अम्यम्भसोश्च तदशक्यशक्ते समुदाये - अमे: शक्यं दहनादि हाइनस्नेहनाद्यश- 6 क्यम्, अम्भसस्तु स्नेहनह्लादनादि शक्यमशक्यं दहनादि, तदशक्ये शक्तस्तदशक्याशक्तः प्रत्येक शक्ये शक्तः समुदायः । वाक्यार्थस्तु लोकव्यापिनोऽपि परमाणवः संघातभेदपरिणामापेक्षा एव चाक्षुषत्वादिभाजो भवन्ति नान्यथेत्युभयथा स्याद्वादिनो जैना यद्वदन्ति तदेव तवाप्यापन्नम्, कुतः ? साक्षातदुक्ततत्त्वत्वात् तथैव साक्षादुक्तं तत्त्वमेतत् परमाणूनां प्रत्येकं चक्षुर्विज्ञानोत्पादने न शक्ताः समुदिताः शक्ता इत्येवं तावत् साक्षादनेकान्ताभ्युपगमः । अर्थापत्त्या वाऽभ्युपगत एव, - अनेकैकत्वभू - 10 शगत्यर्थ समुदाय परिग्रहाच्च, समित्येकी भावे, स चैकी भावोऽनेकस्य, इण् गतौ, अयनं गमनं गतिराय इति पर्यायाः, उत्कृष्ट आय उदायः, संगतो भृशमायः, समुदायशब्दस्य तत्परिग्रहात्, प्रत्येकं ते समुदिता अनेकैकी भूतभृशगतयः कृताः, तस्माच्चानेकान्तवादाभ्युपगमः ।
किञ्चान्यत्—
"
इतरथापि वैषां समुदाय एव न स्यात्, प्रत्येकमभूतत्वाद्वन्ध्यापुत्रवत् ।
(इतरथापीति) न्यायतोऽपीत्यर्थः, एतत्प्रतिज्ञातः समुदाय एव न स्यात्, प्रत्येकमभूतत्वात्, वन्ध्यापुत्रवदित्येष न्यायः, यथा प्रत्येकमभूतानां वन्ध्यापुत्राणां समुदायो नास्ति तथा परमाणूनामिति । नन्वयमन्यायः प्रत्येकमभूतत्वासिद्धेः परमाणूनामिति चेनेत्युच्यते
बौद्धैरेवोक्ता त्रयातिरिक्तसंस्कृतक्षणिकानित्यत्वाभ्युपगमेन सहासङ्गतिरस्य, यदुक्तं वः सिद्धान्ते 'बुद्धिबोध्यं त्र्यादन्यत् संस्कृतं क्षणिकञ्च तत्' इति प्रत्येकत्वप्राप्तानन्तरमेव 20 विनष्टत्वात् कः प्रत्येकं समुदायः को वा देशतोऽत्यन्तं रूपादिभेदेन यावदनभिलाप्यतया - वस्थानं भिद्यमानानां प्रत्येकं भावः ? ।
(बौद्धैरेवेति) आकाशप्रति संख्याऽप्रतिसंख्या निरोधाख्यत्रयादन्यत् प्रत्ययजनितत्वात् संस्कृतं संस्कृतत्वाच्च क्षणिकानित्यम्, क्षणोऽस्यास्तीति क्षणिकं क्षणमात्रमेवास्य कालो न परत इति क्षणिकानित्यमेव
Jain Education International 2010_04
For Private & Personal Use Only
1
मनेकान्तसाम्यता विज्ञेया । एतदेव समर्थयति - प्रत्येकेति प्रत्येकेनाशक्यं समुदायेन शक्यते कर्त्तुं यथाऽमिनाऽसाध्यं यत् 25 स्नेहनादि, जलेनासाध्यं यद्दहनादि तदभिजल समुदायेन कर्तुं शक्यते तथा प्रत्येकपरमाणूनामसामर्थ्येऽपि संघातमेदपरिणामापेक्षाणां चाक्षुषत्वं सम्भवतीति जैनसिद्धान्त एव त्वयाप्याश्रयणीयः आश्रितश्च त्वयोभयथा साक्षादर्थापत्त्या च । तदेवाहउभयथेति । कथं साक्षादाश्रित इत्यत्राह - साक्षात्तदुक्तेति । कथमर्थापत्त्याऽऽश्रित इत्यत्राह - अनेकैकत्वेति । ननु वस्तुतः परमाणूनां समुदाय एव न सम्भवतीति न्यायप्रयोगमाह- इतरथापीति, अनुमानप्रयोगमाह-एतदिति बौद्धेत्यर्थः । परमाणूनामसत्त्वासिद्ध्या दुष्टोऽयं न्याय इत्याशङ्कते - नन्वयमिति । क्षणिकानित्यत्वेनाभ्युपगतेन सह प्रत्येकं ते समुदिता: 30 कारणमित्यभ्युपगमस्य परमाणूनामुत्पत्त्यनन्तरविनाशित्वेन प्रत्येकसमुदायभावासम्भवादभूतत्वसिद्धेरुक्त प्रयोगस्य नान्यायत्वमित्याह - बौद्धैरेवेति । आकाशेति, बौद्धमते त्यवबोधोपयोगिपदार्थस्वरूपो धर्मः सातवानात्रवभेदेन द्विविधः, तत्र सास्रवाः रूपादि पश्च स्कन्धाः द्वादश चक्षुरायायतनानि चक्षुराद्यष्टादश धातवः, एते एव संस्कृतपदप्रायाः, तत्र संस्कृता
15
www.jainelibrary.org