________________
१२० द्वादशारनयचक्रम्
[विध्यरे न कालान्तरावस्थाय्यनित्यत्वं लौकिकाभिमतघटादिवदियेतेनाभ्युपगमेन सह प्रत्येकं ते समुदिताः कारणमित्यस्याभ्युपगमस्य सङ्गति स्ति, किं कारणं? प्रत्येकत्वप्राप्तानन्तरमेव विनष्टत्वात् , एकैकस्य परमाणोः स्वरूपलाभसमनन्तरमेव विनष्टत्वात् कः प्रत्येकं समुदायः ? को वा देशतोऽत्यन्तं रूपादि
भेदेन यावदनभिलाप्यतयाऽवस्थानं भिद्यमानानां प्रत्येक भाव इति सिद्धं प्रत्येकमभूतत्वं देशतः काल5 तश्वावस्थान्तरप्राप्तेरिति ।
प्रत्येकत्वप्राप्तिरपि चैवं नैव निर्मूलत एव परमाणूनामसत्त्वाद्वन्ध्यापुत्रवत् । सहोत्पादाददोष इति चेन्न, तुल्यत्वात् , किं भूतस्य सहता, अभूतस्य वेति विकल्पद्वयेऽपि योगपद्यासिद्धेः । अभूतस्य सहतेत्ययुक्तो विकल्पः खपुष्पस्येवातो भूतस्य सहतेति ब्रूमः ।
(प्रत्येकत्वेति) प्रत्येकत्वप्राप्तिरपि चैवं नैव, निर्मूलत एव परमाणूनाम् ,-यापि प्रत्येकत्व10 प्राप्तिः सापि चैवमुक्तविधिना नैवास्ति, स्वरूपप्राप्तिमात्रदेशकालाप्रतीक्षित्वविनाशित्वादसत्त्वात् ,
वन्ध्यापुत्रवत् , यथा वन्ध्यापुत्राणां प्रत्येकत्वस्य प्राप्तिास्ति तथा परमाण्वभिमतानां तथानवस्थानानामभावान्न प्रत्येकत्वप्राप्तिरिति । सहोत्पादाददोष इति चेन्न-तेषां परमाणूनामसत्त्वमसिद्धं तथानवस्थानानामपि देशैक्येन कालैक्येन सहोत्पादाभ्युपगमात् , तस्मादस्ति प्रत्येकत्वप्राप्तिरित्येतच्च न,
तुल्यत्वात् परमाण्वसत्त्वस्य, देशकालभेदोत्पादासत्त्वेन सहोत्पादासत्त्वस्य तुल्यत्वात् । (किमिति) 1B विकल्पद्वयेऽपि यौगपद्यासिद्धेरिदमसिद्धं द्रष्टव्यं किं भूतस्य सहता, अभूतस्य वेति । विकल्पद्वयानति
वृत्तरेवं प्रश्नः, उभयथापि न घटत इत्युत्तरं वक्तुमनसः । (अभूतस्येति) एवं न ब्रूयामभूतस्य खपुष्प स्येव सहतेति, यतः स विकल्पः पूर्वपक्षस्ते, तस्माद्भूतस्य सहतेति ब्रूमः ।
. अत्राचार्य आह। त्वमेवैतद्विकल्पद्वयं 'तदवस्थाः प्रत्येकसमुदिताः कारणं परमाणवः' इति ब्रुवाणश्चि20 नाम हेतुप्रत्यजनिता रागाद्याश्रयभूताः अनास्रवा मार्गसत्यपदवाच्या हेतुप्रत्ययं विनैवात्मलाभवन्त आकाशप्रतिसंख्यानिरोधा
प्रतिसंख्यानिरोधरूपाः, तत्राकाशमनावरणस्वरूपं तन्नान्यधर्मराव्रियते न चान्यानावृणोति, स प्रतिसंख्यानिरोधो यो निखिलानां सासवधर्माणां पृथक् पृथक् विभागः । प्रतिसंख्या-प्रज्ञा तया निरोधः । धर्माणामुत्पत्तोऽत्यन्तं विरोधी सोऽप्रतिसंख्यानिरोधः, एकस्मिन् हि रूपे यदा चक्षुर्मनसी व्यासक्ते तदाऽन्ये शब्दादयोऽगृहीता एव प्रत्युत्पन्ना निरोधगतिं यन्ति सत्स्वपि श्रोत्रादिषु, तदेवमप्रतिसंख्याय-अपरिज्ञायैव तेषां निरोधोऽप्रतिसंख्यानिरोधः । एकैकस्येति. इदं कालतः प्रत्येकमभूतत्वप्रकाश25 नाय । को वा देशत इति, इदं देशतः प्रत्येकमभूतत्वप्रकाशनाय । एवञ्च प्रत्येकमभूतत्वं परमाणूनां सिद्धत्वाच्यायतोऽपि
समुदायाभावः सेत्स्यत्येवेति भावः । अथ परमाणूनां प्रत्येकत्वप्राप्तिरपि नास्ति, समुदायापेक्ष हि प्रत्येकत्वं समुदायासम्भवे न सम्भवत्येव,स्वरूपप्रायनन्तरमेव देशकालाधनपेक्षयैव विनाशित्वात् यावदनभिलाप्यतयाऽवस्थानं भिद्यमानत्वाञ्चेत्याह-प्रत्येकत्वप्राप्तिरपीति। अनेके परमाणवः सहोत्पद्यमानाः समुदायव्यपदेश्याः तदपेक्षया चैकैकस्य तद्धटकस्य परमाणोः प्रत्येकव्यप
देश्यत्वमिति नोक्तदोष इत्याशङ्कते-सहोत्पादादिति । यथा परमाणनां देशकालापेक्षयोत्पत्ति स्ति. अन्यानपेक्ष 30 त्वात् , तथैव सहत्वापेक्षोत्पत्तिरपि नास्तीत्युत्तरयति-तुल्यत्वादिति । दोषान्तरमप्याह-किं भूतस्येति, किं भूतस्य सहता? .: अभूतस्य वेति विकल्पनमिदमसिद्धं द्रष्टव्यम्, विकल्पद्वयेऽपि योगपद्यासिद्धरुभयथाऽपि न घटत इत्युत्तरं वक्तुमनसो विकल्प
द्वयानतिवृत्तेरेवं प्रश्न इति योजना। ननु नाहमभूतस्य सहता खपुष्पस्येवेति ब्रूयाम् , किन्तु तुल्यत्वात् परमाण्वसत्त्वस्येति ब्रुवतस्तवैवायं पूर्वपक्षो न मम, वयन्तु भूतस्य सहतेति ब्रूम इति बौद्ध आशङ्कते-अभूतस्येति । नायं मम पूर्वपक्षः किन्तु तवैवेत्याशयेनाऽऽचार्य उत्तरयति-त्वमेवैतदिति । भूतस्य सहता तावन्न सम्भवतीत्याह-यदि तावदिति । प्रतिलब्ध.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org