________________
विज्ञानपक्षाश्रयः] न्यायागमानुसारिणीव्याख्यासमेतम् न्तय क एवमाहेति, किं नः एतेन, यो ब्रवीति स ब्रवीतु, यदि भूतस्य, कुतः सहता! उक्तवत् , तथा तेषामसत्त्वापत्तेः, प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया तत्तु सहत्वमप्रतिलब्धमसत्त्वापत्तेरेव ।
(त्वमेवैतदिति) यदि तावद्भूतस्य सहोत्पादो भवनानन्तरविनष्टत्वात् क्षणिकवादे कुतः सहता ? नास्त्यत्र कारणं सहत्वे कस्यचित् केनचिदित्यर्थः । उक्तवदित्यतिदेशादेशकालाभ्यामत्यन्त-5 भेदे निरभिलाप्यस्वभावानां प्रत्येकत्वप्राप्तिरेव नास्तीत्युक्तम् , तथा तेषामसत्त्वापत्तेः, अणूनां कुतः सहतेत्यभिसम्बन्धः । प्रतिलब्धसहत्वस्य चोत्पाद उच्यते त्वया, तत्तु सहत्वं-योगपद्यमप्रतिलब्धमसस्वापत्तेरेव, तस्मात्सहोत्पादाददोष इत्यपरिहारः । ____ अथाभूतस्योत्पादो यौगपद्येनेष्यते साऽपि सहता वो नोपपद्यते, वन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टप्रसङ्गात् , अभूतत्वादस्थितत्वादणुसमुदायवत् । अणुसमुदायोऽपि 10 न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत् ।।
(अथेति) अथाभूतस्योत्पादो यौगपद्येनेष्यते सापि सहता वो नोपपद्यतेऽनिष्टप्रसङ्गात् , किमनिष्टं ? वन्ध्यापुत्रसमुदायोऽपि स्यादित्यनिष्टम् । कुतः ? अभूतत्वादस्थितत्वादणुसमुदायवदिति साक्षादनिष्टापादनम् । अणुसमुदायोऽपि न स्यादभूतत्वादस्थितत्वाद्वन्ध्यापुत्रसमुदायवत्, अभूतत्वमस्थितत्वश्च हेतुद्वयं शून्यक्षणिकवादिनोः सिद्धत्वादुक्तम् ।
... . 15 सन्तानादिति चेदेतच्चायुक्तम् , सोऽपि ह्येवमेव । (सन्तानादिति) स्यान्मतमभूतत्वमस्थितत्वश्चेष्यते तेषां तथापि जन्मविनाशसन्तानस्याव्यवच्छेदात् स्थितत्वमस्त्यतः सहोत्पादाददोष इति, एतच्चायुक्तम् , यस्मात्सोऽप्येवमेव, सोऽपि सन्तानो भूतो वा स्यादभूतो वा ? यदि भूतः कुतः सहता ? उक्तवत् , भवनानन्तरविनष्टेभ्योऽन्यस्य सन्तानस्याभावात् , अस्ति चेत्तद्विलक्षणो नित्यान्य इति सर्वक्षणिकप्रतिज्ञाहानिः, अथाभूतो वन्ध्यापुत्रव-20 दित्यायभिहितदोषाक्रान्तमेव ।
___ अथोच्येत बाह्यवस्तुप्रतिपत्तिजनितः सर्व एवैष विरोधसंक्लेशः, एवन्तु सर्वदोषविनिर्मुकमिदं कल्पनान्तरमाश्रयामहे विज्ञानमात्रकमिदं त्रिभुवनम् , न पुनरेतस्यां कल्पनायामेवंसहत्वस्येति, भूतस्य सहतेति सहत्वावस्था प्राप्त एवोत्पाद्य इति वा स्वीकारादिति भावः । अभूतस्य योगपयनोत्पादाभ्यु गको बन्ध्यापुत्रसमुदायस्यापि प्रसङ्गेन बन्ध्यापुत्रसमुदायासम्भववद्वा परमाणुसमुदायासम्भवेन न युज्यते युष्याकमित्याह-अथा- 25 भूतस्येति । न चाभूतत्वमस्थितत्वञ्चासिद्धमित्याह-अभतत्वमिति । सन्तानादिति, परमाणोः क्षणविनाशित्वेऽपि. क्षणिकपरमाणुसन्तानस्य सत्वात् स्थितत्वमस्तीति सहोत्पादो युज्यत इति भावः, तमपि किं भूतस्याभूतस्य वा सहतेति विकल्प्य दूषयति सोऽपीति, परमाणुव्यतिरेकेण सन्तानस्याभावान भूतस्य सहस्वसम्भवो व्यतिरेके च नित्यत्वे क्षणिक वस्तुमांत्रमिति प्रतिज्ञा हानिः, अभूतस्य सहत्वन्तु वन्ध्यापुत्रसमुदायस्यापि योगपद्येनोत्पत्तिप्रसज्ञादयुक्तमिति भावः । ननु सचितालम्बनाः पत्र विज्ञानकाया इति बाद्यवस्तुखीकारपक्षे सञ्चयः कल्पितोऽकल्पितो वेत्यादिनियोगपर्यनुयोगादयः स्यानाम, 30 तथा तत्र वैफल्यविरोधादिदोषाच, यदा च सर्वदोषविनिर्मुक्त विज्ञानमेवैकं वस्त्विति वयं प्रतिपद्यामहे तदा न कोऽपि क्लेश इति विज्ञानवादी समुत्तिष्ठते-अथोच्चतेति विज्ञानवादेऽनुभवानान्योऽनुभाथ्योऽनुभविताऽनुभवनश्च तथापि बुख्या सोन बुद्धिपरिकल्पितेनान्तस्थ एवेष प्रमाणप्रमेयफलन्यवहारः प्रमालव्यवहारथन पारमार्थिक इति कास्किका प्रायोजया
द्वा० न० १६
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org