________________
१२२
द्वादशारनयचक्रम्
[विध्यरे विधः संक्लेशोऽस्ति यदिदं संवृतिसदिदं परमार्थसदिदमैन्द्रियमिदमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाव्यतिरिक्तमर्थजातमिच्छतां स्यात् , न तु तत्ततो भिन्नमस्ति, तस्मादनर्थको विचार इति ।
अथोच्येत बाद्यवस्तुतत्त्वेत्यादि यावत्ततो भिन्नमस्तीति, अत्यधिकारान्तरे, अथ सञ्चितालम्बनविषयज्ञानपक्षे कल्पिताकल्पिता उपपत्तयो विफला भवन्ति सदोषाश्चेति तं परित्यज्येदमुच्येत सर्व एवैष विरोधसंक्लेशो बाह्यवस्तुप्रतिपत्तिजनित:-विज्ञानाद्वाह्य वस्तुतत्त्वमस्तीति प्रतिपत्तौ सत्यां जायतेऽयं संक्लेशः, यदि परमाणव आलम्बनं ततोऽतीन्द्रियत्वसञ्चितालम्बनत्वाद्यभ्युपगमविरोधः, अथ समुदायः, असत्त्वात् खपुष्पवदनालम्बनमेव। प्रत्येकं ते समुदिता इति स्ववचनविरोधादिदोषः प्रोक्तन्यायेनेत्येवमादिविरोधोद्भावनजनितेन चित्तसंक्लेशेन कमर्थं वाच्यामहे ? एवन्तु सर्वदोषविनिर्मुक्तमिदं 10 कल्पनान्तरमाश्रयामहे विज्ञानमात्रकमिदं त्रिभुवनम् । यदुक्तम् 'द्यौः क्षमा वायुराकाशं सागरः सरितो दिशः । अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः' इति, न द्रव्यसंवृत्या, न पुनरेतस्यां कल्पनायामेवंविधः संक्लेशोऽस्ति यदिदं संवृतिसदिदं परमार्थसदिदमैन्द्रियमिदमतीन्द्रियमित्यादि विकल्प्यमानं विज्ञानाव्यतिरिक्तमर्थजातमिच्छतां स्यात् , न तु तत्ततो भिन्नमस्ति तस्मादनर्थको विचार इति। .
. अत्रोच्यते ननु देवानां प्रिय! तन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः, तिष्ठतु 15 तावद्वाह्यार्थाभावे विज्ञेयत्वाभावात्तस्य विज्ञानत्वाभावः, ततश्च प्रमेयत्वाभावात् प्रमाणत्वाभावः प्रत्यक्षस्येति, इदं तावद्विज्ञानं हि लोके प्रत्यक्षादि, तत्र निर्धार्य कतमत्तव विज्ञानमात्रम् । ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति, तन्न तस्यैवमवस्थत्वात् , नानुमानविज्ञानमात्र, तस्यापि तत्पूर्वकत्वात् तदसिद्धावसिद्धिरतन्त्वपटवत् ।
अत्रोच्यते ननु देवानां प्रिय ! तन्मतवदेव विज्ञानवादविध्वंसनार्थोऽयमारम्भः, यथेदं 20 कल्पनापोढं प्रत्यक्षमित्येतस्य तन्मतस्य तत्संवादिनो बुद्धवचनस्य च विध्वंसनार्थोऽयमारम्भस्तथा विज्ञानमात्रविध्वंसनार्थोऽप्ययमेवारम्भः, त्वत्तीर्थकराभि हितत्वात्तस्यापि । अथवाऽपरमार्थत्वप्रतिपादनार्थत्वाच सर्वदेशनानां बौद्धानां तद्विध्वंसनार्थ एवायमारम्भः, एतदपि प्रमाणाभावादयुक्तमिति ग्राह्यम् । प्रमाणाभावश्च प्रमेयाभावादिति स दोषः स्थित एवेति दर्शयति-तिष्ठतु तावदित्यादि, तच्चोपायेन दर्शयिष्यन्नाह-बाह्यार्थाभावे विज्ञेयत्वाभावः, तस्य विज्ञानमात्रत्वाद्विज्ञेयत्वाभावे च तस्य विज्ञा25 मत्वमपि नास्ति, विजानातीति विज्ञानम् , किं विजानाति विज्ञेयाभावे, ततः प्रमेयत्वाभावात् प्रमाण
वाभावः प्रत्यक्षस्येति शेयज्ञानं प्रमाणत्वप्रमेयत्वविलक्षणं खपुष्पवत् किं तत् प्रत्यक्षं नामेत्येष दोषो दर्शयति यदुक्तमिति कथं पुनरवगम्यतेऽन्तस्थ एवायं सर्वव्यवहारो न विज्ञानव्यतिरिको बायोऽर्थोऽस्तीत्याशङ्कायां विपझे बाधकं दर्शयति,-न पुनरेतस्यामिति, तिष्ठतु तावदिति, बाह्यार्थस्याभावेऽपि सर्वस्य ज्ञानात्मकत्वेन विज्ञेयत्वाभावः
तदभावे च विजानातीति व्युत्पत्तिसिद्धं विज्ञानमपि न सम्भवति. तथा च प्रमाप्रमेययोरभावे प्रमाणत्वप्रमेयत्वयोरप्यभाव इति 30 तद्विलक्षणज्ञानज्ञेययोरसिद्धरित्ययं विचारस्तावत्तिष्ठतु तदभ्युपगम्य तु विज्ञानमेदो विचार्यत इति भावः। तमेव विचार विधत्तेइदं तावदिति । तन्मतवदेवेति, बाह्यार्थक्षणिकवादिमतवदेवेत्यर्थः । त्वत्तीर्थकरेति, विनेयाभिनिवेशमालक्ष्य तद. नुरोधेनोपदेशविधात्रा सुगतेनाभिहितत्वाद्विज्ञानकवादस्येति भावः। न केवलं तन्मतविज्ञानमतयोरेवापरमार्थताप्रतिपादनार्थोऽयमारम्भः किन्तु तथागतस्य सर्वेषां देशनानामित्याह-अथवेति । एतदपि-कल्पनान्तराश्रयणमपीत्यर्थः। तमिति, दोष
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org