________________
१२३
विज्ञानमात्रताभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् दुर्निवारः, स तावत्तिष्ठतु, इदं तावदस्तित्वाभ्युपगमेनाऽन्यथा विचार्यते-विज्ञानं हीत्यादि, हिशब्दो दृष्टार्थे, दृष्टं हि लोके विज्ञानं प्रत्यक्षादि-प्रत्यक्षमनुमानञ्च प्रमाणे विज्ञाने, आदिग्रहणात् संशयविपर्ययानध्यवसायलक्षणानि च विज्ञानानि प्रमाणाभासाभिमतानि । इदमसि त्वं प्रष्टव्यः, तत्र निर्धाय कतमत्तव विज्ञानमात्रम् ? इदं सर्ववैकधातुकमिति नैकमपि विज्ञानमात्रं भवतीत्यभिप्रायः । ब्रूयास्त्वं प्रत्यक्षविज्ञानमात्रमिति, तन्न तावत् प्रत्यक्षविज्ञानमात्रम् तस्यैवमवस्थत्वात् ,-तस्य-प्रत्यक्षविज्ञानस्य, । एवमवस्था यथाऽस्माभिर्व्याख्याता 'न रूपादिविषया न समुदायविषया न चक्षुरादिनिमित्ता संवृत्या परमार्थेन वा युज्यत' इति, तस्मान्न प्रत्यक्षविज्ञानमात्रम् । स्यान्मतमनुमानमात्रमिति तदपि नानुमानविज्ञानमात्रम् , किं कारणं ? तस्यापि तत्पूर्वकत्वात् , तस्याप्यनुमानस्य तत्पूर्वकत्वात्-प्रत्यक्षपूर्वकत्वात् , प्रत्यक्षपूर्वकं हि स्वानुभवोत्तरभावि विकल्पात्मकम् , अविकल्पज्ञानसमनन्तरजन्मानुमानं मानसमनि. न्द्रियमयोगिमानसप्रत्यक्षपूर्वकमेवेष्यते तस्यैव प्रत्यक्षस्यासिद्धौ कुतोऽनुमानसिद्धिः, अतो नानुमानमा-10 त्रमत आह-तदसिद्धावसिद्धिरतन्त्वपटवत्, यथा तन्तुपूर्वकस्य पटस्य तन्त्वसिद्धावसिद्धिस्तत्पूर्वकत्वात्, तथा प्रत्यक्षासिद्धावसिद्धिरनुमानस्य, एवं तावत्प्रमाणविज्ञानमात्रत्वासिद्धिः ।
एवं तर्हि संशयभ्रान्त्यादिकल्पना विज्ञानमात्रमस्तु तदपि न, अत एव, नानध्यवसायमात्रम् , अग्रहात्मकत्वात्तस्य, न हि तदत्यन्तासंचेतितं नाम ज्ञानमस्ति, तस्मात् प्रमाणप्रमाणाभासज्ञानेष्वनन्तर्भावात् कतमद्विज्ञानमात्रमिदं सर्वमित्यलमतिविकाशिन्या संकथया । 15
(एवमिति) तदपि-संशयभ्रान्त्यादिकल्पनामात्रमपि न संशयमानं न भ्रान्त्यादिमात्रम् , आदिग्रहणान्न स्वप्नानुभवानुभूतानुकारमानं न तैमिरिककेशोण्डुकाद्याकारमात्रम्, सर्वस्यास्य कल्पना. त्मकस्य प्रमाणाभासस्यात एव-प्रत्यक्षपूर्वकत्वादेव तदसिद्धावसिद्धेः। स्यान्मतमनध्यवसायमात्रमस्त्विति तदपि नानध्यवसायमानं नासश्चेतितं नाऽव्यक्तसुखदुःखादिस्वरूपमित्यर्थः । किं कारणं १ अप्रहात्मकत्वात्तस्य, न हि तदत्यन्तासञ्चेतितं नाम ज्ञानमस्ति, यद्यप्यव्यक्तज्ञानमस्ति, अपटुत्वात्तद-20 विग्रहात्मकं न भवत्यतो विज्ञानमेव न भवति, यस्माद्विजानातीति विज्ञानमिष्टं तच्च न किञ्चिद्विजानातीति नानध्यवसायविज्ञानमात्रम् , तस्मात् प्रमाणप्रमाणाभासज्ञानेष्वनन्तर्भावात कतमद्विज्ञानमात्रमिदं सर्वम्-एतेभ्यश्च विज्ञानेभ्यो व्यतिरिक्तस्यान्यविज्ञानस्याभावान्न किश्चिदेतद्विज्ञानमात्रं सर्वमलमतिविकाशिन्या संकथयेति ।
मित्यर्थः। प्रत्यक्षपदस्य प्रमाणत्वेन प्रमाणमात्रोपलक्षकत्वादाह-प्रत्यक्षमनुमानञ्च प्रमाणे विज्ञाने इति। एवं विज्ञानमेदे 25 लोके दृष्टे तेषु तव विज्ञानं कतमद्विज्ञेयमित्याशङ्कते-तत्र निर्धार्यमिति । सर्वत्रैकधातुकमिति, सर्वत्रैकवरूपमित्यर्थः । संशयादीनामसत्वरूपत्वाद्विज्ञानत्वाभाववत् प्रत्यक्षादीनामप्यसद्विषयकत्वाद्विज्ञानत्वाभाव इत्यभिप्रायं दर्शयति-नैकमपीति । अनुमानस्य विकल्परूपतया विकल्पस्य च स्खलक्षणविषयनिर्विकल्पकप्रत्यक्षमन्तरेणासिद्धेः प्रत्यक्षपूर्वकत्वमित्याह-खानुभवेति। संशयमात्रमिति, एकत्र विरुद्धभावाभावकोटिकं ज्ञानमात्रमित्यर्थः । भ्रान्त्यादिमात्रमिति, तदभाववति तत्प्रकारकज्ञानमित्यर्थः । स्वनानुभवेति, जाग्रदनुभूतवस्त्वनुकरणमात्रं ज्ञानमित्यर्थः तैमिरिकेति, तिमिररोगिणश्चिरकालाध्ययनखिन्न-30 स्योत्थितस्य वा नीललोहितादिगुणविशिष्टः कश्चिन्नयनस्याग्रे यः परिस्फुरति, अथवा करसंमृदितलोचनरश्मिषु येयं केशपिण्डावस्था स केशोण्डुक उच्यते तद्विषयं ज्ञानमित्यर्थः, स्वप्नादेन्त्यिात्मकत्वेऽपि प्रतिभासविशेषाश्रयेण पृथगुक्तिः । अग्रहात्मकस्वादिति, ज्ञानानात्मकत्वादित्यर्थः, न हि विषयमात्रानवभासकं ज्ञानं सम्भवत्यन्यथा घटादीनामपि ज्ञानत्वापत्तेः, तस्माद
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org