SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १२४ द्वादशारनयचक्रम् संक्षिप्योपसंहरति- इति प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् तत्कल्पितं प्रत्यक्षं न घटते, स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधत्वात्, अनयैव च दिशाऽविशेषैकान्तवादिनोऽपि । [ बिध्यरे ( इतीति ) प्रत्यक्षलक्षणस्य सर्वथा दूषितत्वात् इतरथापि दूषणवचनप्रपञ्चस्यानेकस्यावकाB शोऽस्तीति । एवं तावद्विशेषैकान्तवादिना कल्पितं लौकिकप्रत्यक्ष विलक्षणं प्रत्यक्षं न घटते स्ववचन - व्यपेक्षाक्षेपदुस्तरविरोधत्वात्, अनयैव च दिशा, स्ववचनव्यपेक्षैवाऽऽक्षेपो द्रष्टव्य इति वाक्यशेषः, एषोऽतिदेशः कस्यचिदविशेषैकान्तवादिनोऽपि, अपिशब्दादनन्तरोक्तस्य विशेषवादिनोऽसंभवादुभयवादिनोऽपि तत्र यद्विशेषवादिनः प्रागुक्तं दोषजातं कल्पनापोढं प्रत्यक्षमिच्छतः कल्पनात्मकत्वमेव हेतुपरम्परया परिपाट्याऽप्रत्यक्षत्वमनुमानत्वमुभयैक्यं सचयाभावो निर्देश्यत्वमस्वलक्षणता च कारक10 ज्ञापकाविशेषापादनादभिधानार्थव्यपदेश्यता च पश्चाच कल्पनापोढतामभ्युपेत्यापि स्वसामान्य - योर्लक्षणयोरभावाच्चक्षुषी रूपस्य तद्विज्ञानस्यैवाभाव इत्यादिलक्षणवाक्यमुद्दिश्य तदिदानीमुत्क्रमेण वाच्यमिति । तद्दिशं दर्शयति— 15 सर्वसर्वात्मकतायां श्रोत्रादिवृत्तिः प्रत्यक्षमिति ब्रुवतो वस्तुनो निर्विकल्पत्वाद्विभागाभावात् किं श्रोत्रं यत्त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं यच्छ्रोत्राद्विभक्तम् ? क आदिः कोऽनादिः ? का वृत्तिः ? किं प्रति कतमोऽन्यो भावोऽन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं परस्परव्यतिरिक्तं वा ? किमनक्षमिति । सर्वसर्वात्मकतायामित्यादि यावदनक्षमिति, एवं हि लक्षणदूषणातिदेशः, सर्व सर्वात्मक.. मित्यविशेषमिच्छतः सांख्यस्यापि, सर्वात्मकैकस्य वस्तुनो रूपरसादिभेदेन श्रोत्रादिभेदेन च विकल्पयितु t Jain Education International 2010_04 20 संचेति तखरूपस्यानध्यवसायस्य कथं ज्ञानत्वमिति भावः । अथ बौद्धदूषणमुपसंहरति- इतीति । इतरथापीति, प्रत्यक्षलक्षण संक्षिप्यैव दूषितं न तु विस्तरेण तेनाऽन्यथापि दूषणवचनप्रपञ्चस्यानेकस्य सत्त्वेऽपि न क्षतिरिति भावः । अनयैव दिशेति, यथा विशेषैकान्तवादिवचनस्य प्रत्यवमर्शात्मकाक्षेपो विहितस्तथैवाविशेषैकान्तवादिन उभयैकान्तवादिनश्च वचनस्य प्रत्यवमर्श - त्मक आक्षेपो विधेय इति भावार्थो बोद्धव्यः । अपिशब्दात् कस्य ग्रहणमित्यत्राह - अपिशब्दादिति, असम्भवादिति, कण्ठत एव तत्र दोषस्योकत्वादतिदेशासम्भवेनापिशब्दप्रात्यत्वासम्भवादिति भावः । प्रागुक्तं दोषजातमिति, अस्याग्रेतने25 नोद्दिश्येति पदेन सम्बन्धः । विशेषैकान्तवादे प्रोक्तान् दोषानाह - कल्पनात्मकत्वमेवेत्यादिना । निरूपणविकल्पात्मकत्वादिना कल्पनात्मकत्वमत एवाप्रत्यक्षत्वं व्यपदेश व्यपदेश्यत्वाञ्चानुमानमत एवोभयैक्यं संवृतिसत्त्वात्सचया भावोऽर्थान्तरेणधिगम्यमानत्वाद्व्यपदेश्यत्व मतीन्द्रियत्वात् स्वलक्षणस्यानालम्बनत्वं हेत्वपदेशव्यपदेश्यत्वं सञ्चयस्य कारकत्वज्ञापकत्वयोरविशेषादेव व्यपदेश्यत्वमत एव चाप्रत्यक्षत्वमनुमानत्वं तथा चक्षुर्विज्ञानसमङ्गित्वाद्यभावो विशेषैकान्तवादे दोषा दर्शितास्ते यथासम्भवमत्रापि वादयोः सम्भवन्तीति भावः । तत्कथमित्याशंका यामविशेषैकान्तवादाश्रयेणाह - सर्व सर्वात्मकतायामिति । तत्र 30 लक्षणदूषणप्रकारमाह-एवं हीति । सांख्यस्य हि श्रोत्रादिवृत्तिः प्रत्यक्षमिति प्रत्यक्षलक्षणम्, तदर्थश्च श्रोत्रादीनां शब्दादिषु मनसाऽधिष्ठिता वृत्तिः यथाक्रमं तद्ब्रहणे वर्तनं प्रत्यक्षं प्रमाणमिति, तन्मते वस्तुनः सर्वसर्वात्मकत्वान्निर्विकल्पकत्वेन विभागासम्भवात् त्वगादिविलक्षण श्रोत्राद्यभावात् किं श्रोत्रं भवेत्, यच्छब्दमेव गृह्येत, को वा शब्दो यच्छ्रोत्रेणैव परिच्छेद्यः स्यात्, कावा वृत्तिरितरव्यावृत्ता तयोरेव सम्भाविनी किं वा मनः यदधिष्ठात्रेव भवेदित्येवं तन्मतेनैव तल्लक्षणमनुपपन्नमिति भावः । For Private & Personal Use Only www.jainelibrary.org
SR No.002584
Book TitleDvadasharnaychakram Part 1
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1948
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy