________________
१२५
सांख्यप्रत्यक्षभङ्गः] न्यायागमानुसारिणीव्याख्यासमेतम् मशक्यत्वाद्विशेषकान्तवादिन इव निर्विकल्पपरमार्थपरमाणुमात्रसाधादविकल्पकत्वम्, अविकल्पकत्याद्यथापूर्व प्रत्यक्षलक्षणोदाहरणवाक्ये दोषाश्चक्षुर्नैव चक्षुः, रूपं नैव रूपम् , विज्ञानं नैव विज्ञानमित्यादयस्तथा श्रोत्रादिवृत्तिः प्रत्यक्षं श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां मनसाऽधिष्ठिता वृत्तिः-शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति ब्रुवतः सर्वसर्वात्मकत्वे निर्विकल्पत्वाद्विभागाभावात् कि श्रोत्रं, यत्त्वगादिभ्यो विभक्तम् ? किमश्रोत्रं त्वगादि, यच्छोत्राद्विभक्तम् ? यच्चोक्तं श्रोत्रादीनि । तत्र क आदिः ? सर्वात्मकैकवस्तुत्वे प्रथमद्वितीयाद्यपेक्षविभागाभावात् , कोऽनादिमध्योऽन्तो वा ? का वृत्तिः, तेषां श्रोत्रादीनां पूर्वमवृत्तानां पश्चाद्वृत्तिः ? कालभेदेनावस्थान्तरत्वेन च विशिष्टा काऽवृत्तिः वृत्त्युपरमलक्षणा, विभागाभावादेव, किं प्रति-कतमोऽन्यो भावोन्यमपेक्ष्य तं प्रत्यक्षमित्युच्यते, नपुंसकलिङ्गस्याव्यक्तगुणसंदेहविषयत्वात् किं प्रतीति प्रश्नः, किं प्रति सर्वसर्वात्मकत्वैकैकं नापेक्ष्यते। किमक्षमिन्द्रियं यद्विषयव्यतिरिक्तं श्रोत्रादिपरस्परव्यतिरिक्तं वा ? किमनक्षमिन्द्रियव्यतिरिक्तं विषयो 10 रूपादि, परस्परतो वा ? इतिः प्रदर्शने, एवं विभागाभावाद्विभागेन लक्षणप्रणयनं स्ववचनव्यपेक्षाक्षेपदुस्तरविरोधम् , आदिग्रहणात् किं शब्दादि ? किं मनः ? किमधिष्ठेयं ? केनेति ? । - किश्चान्यत्
त्वन्मतेनैव च प्रत्यक्षलक्षणायोगः, यदुक्तं लोकशास्त्रे 'बहिर्वस्तुस्वतत्त्वसाक्षात्पतिपत्तिः प्रत्यक्षं' इति, तत्तु प्रत्यक्षं त्वन्मतवन्न घटते, निर्विकल्पत्वासिद्धेः, शब्दादिविभागवि-10 कल्पविषयत्वात् , अविभागरूपश्च सर्वसर्वात्मकं वस्तुस्वतत्त्वम् , तद्विषयञ्च तन्न भवति ततश्च कल्पनात्मकम् , कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत् ।
__ (त्वन्मतेनैव चेति) वस्तुनः स्वं तत्त्वमसाधारणं, आत्मीयं रूपं वा, तस्य साक्षात् प्रतिपत्तिः न व्यवहिता सा प्रत्यक्षं तत्त्वेवलक्षणं प्रत्यक्षं त्वन्मतवत् त्वन्मत इव त्वन्मतवत् , यथा सर्वसर्वात्मकत्वे त्वन्मते श्रोत्रादिवृत्तेः सर्वसर्वात्मकवस्त्वेकदेशशब्दादिविषयत्वात् समुदायरूपत्वाद्वस्तुस्वतत्त्वस्य विभा- 20 गाभावाच्छ्रोत्रादिवृत्तिर्न सम्भवतीत्युक्तं तथा तस्य निर्विकल्पस्य वस्तुनो वस्तुस्वतत्त्वसाक्षात्प्रतिपत्त्यभिमतं लौकिकं सामयिकश्च प्रत्यक्षलक्षणं न घटते निर्विकल्पत्वासिद्धेः, नैव तन्निर्विकल्पं प्रत्यक्षं शब्दादिविभागविकल्पविषयत्वात् , अविभागरूपञ्च सर्वसर्वात्मकं वस्तुस्वतत्त्वं तद्विषयश्च तन्न भवति, विशेषैकान्तवादिना सहाविशेषैकान्तवादिनोऽत्रार्थे साधर्म्यमाह-निर्विकल्पपरमार्थपरमाणुमात्रसाधादिति, विविधकल्पनारहितं परमार्थभूतं वस्तूभयमते, बौद्धमते तथाविधं वस्तु परमाणुः सांख्यमते सर्वसर्वात्मिका प्रकृतिरिति साधर्म्यम् 25 तत्र परमाण्वतिरिक्ताः सन्तः, अत्र परस्परविलक्षणाः श्रोत्रादयो न सन्त्येवेति । सर्वात्मकैकवस्तुत्वे इति, विभागे ह्येकस्य द्वित्वत्रित्वादिना निरूपणम् , यदा च सर्वसर्वात्मकैकं वस्तु तदाऽयं प्रथमोऽयं तद्भिन्नो द्वितीयोऽयश्च ततोऽपि भिन्नस्तृतीय इति व्यावृत्तत्वेन विभागासम्भवात् क आदिमध्योऽन्तो वेति भावः । एवं वृत्त्यवृत्त्योरसम्भवोऽपि बोध्यः। यमपेक्ष्येति, कीदृशं भावमपेक्ष्य श्रोत्रादिवृत्तेः प्रत्यक्षत्वमुच्यत इति भावः। नपुंसकलिङ्गस्येति यस्माद्यावृत्तिः प्रत्यक्षस्य कर्तव्या तादृशस्याव्यक्तगुणस्याप्रस्फुटविशेषणस्य संशयविषयत्वात् किं प्रतीति नपुंसकलिङ्गसम्बंधी प्रश्न इत्यर्थः 30
ते। किं प्रतीति, एकैकस्य सर्वसर्वात्मकत्वात् किं वस्तु प्रति सर्वसर्वात्मकैकक नापेक्ष्यते, नास्त्येव तादृशं वस्तु यत्सर्वसर्वात्मकं न भवेत् यदपेक्षया प्रकृतस्य विभागः कर्तुं शक्यतेति भावः। नैव तनिर्विकल्पं प्रत्यक्षमिति, तत्प्रत्यक्षं निर्विकल्पं विकल्परहितं न सम्भवति, शब्दादिविभागस्वरूपविकल्पस्य विषयीकरणात्, वस्तुवतत्त्वस्य सर्वसर्वात्मकत्वेना
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org