________________
૨૨૬ द्वादशारनयचक्रम्
[विध्यरे ततश्च कल्पनात्मकम् , कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवत्, न प्रत्यक्षमिति वर्त्तते, कल्पनात्मकत्वात् , निरूपणविकल्पात्मकत्वात् , आलम्बनविपरीतप्रतिपत्त्यात्मकत्वात् , अध्यारोपात्मकत्वात् , सामान्यरूप. विषयत्वात् , तदतद्विषयवृत्तित्वात् , सदसदभेदपरिग्रहात्मकत्वात् , सर्वथा साधारणार्थत्वात् , भ्रान्तिसंशयानुमानादिज्ञानवदिति ।
सञ्चितालम्बनस्थाने उक्तवदिह तद्विपरीतं समुदायपरमार्थत्वम् , नीलादिसंवृतिसत्त्वं, संवृतिसन्तो नीलादय ऐन्द्रिया न परमार्थसत्समुदायः, तस्यारूपाद्यात्मकत्वात् , तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽप्यविभागावस्थस्यैकस्यासर्वस्यालम्बनस्यासश्चितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान्न प्रत्यक्षम् ।
सञ्चितालम्बनस्थान उक्तवदित्यादि यावन्नीलादिषु चाभावादित्यनेनातिदिष्टग्रन्थार्थभावनो10 पायदिक्प्रदर्शनं करोति मा भूद्व्यामोह इति यादृक्सञ्चितालम्बनस्थानेऽस्माभिरुक्तं परमाणुनीलादीनां
सञ्चय:-सामान्यं संवृतिसत्त्वादसदिति, इह तु तद्विपरीतं समुदायस्य परमार्थसत्त्वम् , नीलादेः संवृतिसत्त्वम् , संवृतिसंतो हि नीलादय ऐन्द्रिया न परमार्थसत्समुदयः, किं कारणं ? तस्यारूपाद्यात्मकत्वात्, तदेकदेशभूतस्य रूपादेरपरमार्थसतोऽपि विभागावस्थस्यैकस्यासर्वस्यालम्बनस्यासश्चितवत्-न
ह्येकोऽसर्वः कदाचिदालम्बनं रूपं रसः शब्दो यथाऽसञ्चिताः परमाणवः पूर्वस्मिन् वादे नैन्द्रियका 15 एवमसचितवदस्मिन् वादे लोकलोकोत्तरव्यवहारप्रत्यक्षाभिमतेषु घटादिषु नीलादिषु चाभावान प्रत्य
क्षम् , तद्विषयं ज्ञानमित्यभिसम्बन्धः । किमुक्तं भवति ? रूपादयः सर्वैकात्मरूपा एव सन्ति न पृथक्स्वरूपाः, ततस्तद्विषयं ज्ञानमभावविषयत्वादप्रत्यक्षं वन्ध्यासुतादिविषयज्ञानप्रत्यक्षवदिति । अनया दिशा यदाभासं प्रत्यक्षं न सोऽस्ति विषयः, योऽस्ति न तदाभासं प्रत्यक्षमित्यादि विशेषकान्तवादिनं
प्रति योऽभिहितः प्रपञ्चः स सर्वो योज्यः । 20 तथासम्भावनेऽपि च रूपादे व तत्साम्यावस्थानं सम्भाव्यते ।
तथासम्भावनेऽपि चेत्यादि, रूपादेरेकस्य सत्त्वरजस्तमोगुणसाम्यावस्थानलक्षणप्रधानाख्यपदार्थत्वसम्भावनेऽपि, नैव तत्साम्यावस्थानं-शब्दादिभेदैकसर्वात्मकत्वस्वभावरूपं सम्भाव्यते । विभक्तरूपत्वात् , अतस्तत्प्रत्यक्षं कल्पनात्मकमेवेति भावः । कल्पनात्मकत्वस्य साधकमाह-निरूपणेति, अस्यासिद्धत्ववारणा
याह-आलम्बनविपरीतेति आलम्बनं सर्वसर्वात्मकं वस्तु तत्र शब्दादिरूपेण प्रतिपत्तिर्विपरीतेति भावः, कथं विपरीत20 रूपतेत्यत्राह-अध्यारोपात्मकत्वादिति । कुतो गम्यतेऽध्यारोपित इत्यत्राह-सामान्यरूपविषयत्वादिति ।
तदप्यसिद्धमिति चेदाह-तदतदिति । सर्वसर्वात्मकत्वादेव शब्दतदितरात्मविषयवृत्तित्वात् प्रत्यक्षस्येति भावः । तत्साधकमाह-सदसदिति । विभक्तशब्दादेरसत्त्वात्तस्य सता सर्वसर्वात्मकेनामेदं परिगृह्य ज्ञानोत्पत्तेरिति भावः । अत एवाह-सर्वथेति । अतिदिष्टग्रन्थार्थेति, अतिदिष्टो यः पूर्वग्रन्थो बौद्धप्रतिक्षेपपरस्तदर्थस्य भावनाऽत्र कथं कर्तव्येति व्यामोहो मा भूदिति संक्षेपेण तद्भावनोपायं प्रदर्शयतीति भावः । इह तु तद्विपरीतमिति, बौद्धमते हि परमाणुः परमार्थसन् 30 सञ्चयलक्षणं सामान्यन्तु संवृतिसत्, सांख्यमते तु समुदायलक्षणं सामान्यं परमार्थसत् , नीलादिघटादि च संवृतिसदिति
वैपरीत्यं विज्ञेयम् । लोकलोकोत्तरेति, प्रत्यक्षाभिमतेषु घटादिषु तद्गुणेषु नीलादिषु च सर्वसर्वात्मकवस्त्वेकदेशभूतस्य रूपादेरपरमार्थसतोऽपि विभागावस्थस्यैकस्यासर्वस्यालम्बनस्याभावो यथा बौद्धमतेऽसञ्चितस्यैकस्य प्रत्यक्षाभिमतेषु घटादिषु संवृतिसत्स्वभावादभावः, अत एव तद्विषयं ज्ञानं न प्रत्यक्षं न हि यथा सञ्चितेष्वसञ्चितपरमाणुरस्ति तथा विभागावस्थस्या
सर्वस्य रूपादेः सर्वसर्वात्मकेऽस्ति, एतदेवाह-रूपादय इति । रूपादेः पदार्थत्वसम्भावनेऽपि सर्वसर्वात्मकत्वलक्षणसाम्या35 वस्थानं न सम्भाव्यते, अव्यक्तत्वापत्तेरित्याह-तथासम्भावनेऽपीति । सम्भाव्यमानेऽपिचेति, रूपादीनामेकैकस्य
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org