________________
सांख्यमते दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
१२७ . सम्भाव्यमानेऽपि च तस्मिन्नव्यक्तेऽतीन्द्रियत्वादालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति तेषां प्रत्येकं परमार्थसत्त्वाभावान्न विषयता, तस्माद्योनिबीजप्रकृतिबहुधानक प्रधानाव्यक्तादिपर्यायाख्यं यद्वस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं रूपादि न तत्परमार्थसदित्याद्यशेषं विशेषकान्तवादिमते यथाभागं तद्विपर्ययेणात्र यद्यत्र घटते तत्तथाऽनुसृत्य योज्यं भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनया ।
_(सम्भाव्यमानेऽपीति) सम्भाव्यमानेऽपि च तस्मिन्नव्यक्ते तस्याव्यक्तस्यातीन्द्रियत्वा. दालम्बनत्वानुपपत्तेश्चक्षुरादिविज्ञानानां रूपादिसंघात आलम्बनमिति प्राप्तम् , ते च रूपादयः प्रत्येक परमार्थतोऽसन्तः। इतिशब्दो हेत्वर्थे, इत्यतःकारणाद्रूपसङ्घातालम्बनत्वात्तेषां प्रत्येकं परमार्थसत्त्वाभावान विषयता, रूपादयो न चक्षुरादिविषयाः परमार्थतोऽसत्त्वाद्वन्ध्यासुतवत्, रूपादिविषयं वा . न प्रत्यक्षं परमार्थतोऽसद्विषयत्वाद्वन्ध्यासुतज्ञानवत् । तस्माद्योनिबीजप्रकृतिबहुधानकप्रधानाव्यक्तादि- 10 पर्यायाख्यं यवस्तु तदतीन्द्रियत्वादप्रत्यक्षम् , यदिन्द्रियविषयं तत्परिणामभेदे सङ्घाते रूपादि न तत् परमार्थसदित्याद्यशेषं विशेषैकान्तवादिमते यथाभाग-यो यो भागो यथाभागं तद्विपर्ययेणाविशेषैकान्तवादेऽत्र यद्यत्र घटते तत्तथानुसृत्य योज्यमित्यतीतं ग्रन्थार्थ स्मारयति । तद्योजनोपायदिङमात्रप्रदर्शनार्थमप्याह-भेदाभेदसंवृतिपरमार्थस्थानव्यवस्थापनयेति, ये तत्र भेदरूपाः परमाणवः परमार्थसन्ततेऽत्र संवृतिसंतः सर्वसर्वात्मकपरमार्थवादे, यस्तत्राभेदः परमाणुसमुदायः संवृतिसन् सोऽत्र परमार्थ- 15 सन्नित्यनया व्यवस्थापनया योज्यम् । पुनरुत्तरोऽपि ग्रन्थो योज्यस्तद्यथा-सर्वसर्वात्मकैकरूपान्तराविविक्तखतत्त्वे रूपादिसत्त्वादिसंघात इन्द्रियसन्निकृष्ट आलम्बनविपरीतैकरूपेयं प्रतिपत्तिः, व्यपदेश्यानेकात्मकनीलरूपविषया न च हेत्वपदेशव्यपदेश्यैषा यतः सर्वात्मकग्रहणापदेशेन धूमेनैवाग्निसामान्यवद्गृह्यते नानिर्देश्यरूपम् , किं कारणं ? ततोऽन्यत् कल्पितमेकं रूपम् । ननु सर्वस्य कारकहेतुत्वेनापदेशः प्रत्यक्षप्रतिपत्तेर्न धूमवत् , ज्ञापकहेत्वपदेशतयाऽग्नेरिवार्थान्तरस्यानेकरूपत्वस्य । नन्विद- 20 मस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिर्यदिदं प्रत्यक्षं स्यात् कारकादेव, स्वार्थादालम्बनाद्धेतोर्जायेत, दाहानुभववत् प्रत्यक्षत्वादव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य स्खलक्षणविषयत्वादनध्यारोपात्मकसाम्यावस्थानत्वेन सम्भाव्यमानत्वेऽपि रूपादेरव्यक्तत्वादतीन्द्रियत्वादनालम्बनत्वमिति रूपादिसंघातस्यैवाऽऽलम्बनता वाच्या तत्र च प्रत्येकं रूपादेः संवृतिसत्त्वेनाभावादविषयत्वमिति भावः । कथं योज्यमित्यत्राह-मेदामेदेति, तत्र-विशेषैकान्तवादे, अत्र-अविशेषैकान्तवादे । उत्तरोऽपि ग्रन्थ:-अग्रिमग्रन्थ इत्यर्थः, तत्र प्रतिविविक्तरूपान्तराविविक्तखतत्त्वे इत्युक्तमत्रत्वे. 25 करूपाविविक्तखतत्त्वे इति बोध्यम्, तत्र प्रतिविविक्तरूपान्तराविविक्तखतस्वरूपसंघातः संवृतिसन् तत्र या प्रतिपत्तिः साऽऽलम्बनविपरीता भवति, परमाणूनामालम्बनत्वात् , तस्य संघातेऽभावात् सा च प्रतिपत्तिरव्यपदेश्यैकात्मकनीलरूपविषया भवति. अत्र तु वैपरीत्यमिति दर्शयति तद्यथेति । इन्द्रियसनिकृष्ट इति, खविषयाभिमुख्येनोपस्थित इत्यर्थः । व्यपदेश्येति, पूर्वमन्यपदेश्यैकात्मकनीलरूपविषयप्रतिपत्तिरुक्ता, व्यपदेश्यानेकपरमाण्वालम्बनेभ्योऽन्यस्याव्यपदेश्यैकात्मनीलरूपस्य विषयीकरणात् , तथा बौद्धमते ननु हेत्वपदेशव्यपदेश्यैव सा, यतः सञ्चयग्रहणापदेशेन धूमेनामिरिव व्यपदेश्यं तत् ततोऽन्यत् 30 कल्पितमेकं सामान्य व्यवहितमेवार्थान्तराद्यते। ननु च सञ्चयस्य कारकहेतुत्वेनापदेशः । प्रत्यक्षप्रतिपत्तेः न धूमवज्ज्ञापकहेत्वपदेशताऽमेरिवार्थान्तरस्यैकरूपत्वस्य । नन्विदमस्यैवार्थस्य प्रदर्शनार्थ प्रस्तुतमस्माभिः यदिदं प्रत्यक्षं स्यात् कारकादेव, खार्थादालम्बनाद्धेतोऑयेत नतु भवति, वैधम्र्येण दाहानुभवनवत् प्रत्यक्षत्वात् । अव्यवहितप्रतिपत्त्यात्मकत्वात् प्रत्यक्षस्य, तथा तस्य खलक्षणविषयत्वादनध्यारोपत्वाविति यावदित्यायुक्तं, अत्र तु सञ्चयस्थाने सर्वपदमनेकस्थाने एकपदं निवेश्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org