________________
१२८
द्वादशारनयचक्रम्
[विध्यरे त्वादिति यावत् , अपि च कारकतापि सर्वस्य नैव, तत्र द्वितीय चन्द्रवत्परमार्थतोऽसत्त्वादनुरूपात्तव्यावृत्तिव्यवस्थानमात्रत्वालोकवत्तु सर्वसत्त्वे विशिष्टोऽपदेशो व्यपदेशो प्रायादन्यस्तेन व्यपदेशेन प्रमेयं व्यपदेश्यमनुमेयं न प्रत्यक्षम् , धूमानुमेयाग्निवदकारकतायां कारकतायां वा वस्तुनः, पितृधूमा. दिवत् । अभिधानाव्यपदेश्यानेकात्मकत्वे अपि च नैवानुमिताग्निवदेवैकानेकविषयत्वान्नीलस्य, तद्धि 5 नीलनिरूपणं विकल्पः प्रतिपरमाणु परस्परप्रतिभिन्नखतत्त्वानेकरूपैकतत्त्वैकगमाध्यारोपात् सर्वसर्वात्मकैकरूपवस्तुरूपाद्यनेकरूपाध्यारोपाद्वा रूपान्तरसामान्यरूपविषयत्वात्तदतद्विषयवृत्तत्वादनपोहादपोहाद्वाऽम्यनुमानवत्तत्सामान्यात्मकेनैव परमार्थस्थितसञ्चयप्रज्ञप्तिनीलाणुभेदपरिग्रहात्मकत्वात् साधारणार्थविविक्तकल्पनात्मकत्वान्न प्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत, संवृत्त्यतीन्द्रियस्वाभ्यां हि न नीलादिषु न च सञ्चये कारणता तथा प्रतिपत्तिं प्रति, अनुमानज्ञानमपि तन्न प्रति10 पूर्यते, सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेविरुद्धवदिति समानमेतत् कल्पनात्मकत्वात् । अन्यदपि यथासम्भवं तत्प्रक्रियापतितं मुक्तवा यदुभयोः सामान्यं तत्सर्व योज्यम् ।।
एवं तावद्विशेषाविशेषकान्तवादयोः स्ववचनव्यपेक्षाक्षेपदुस्सरविरोधत्वाल्लौकिकप्रत्यक्षविलक्षणं कल्पितमपि न युक्तमित्युक्तम् , नानात्वैकान्तवादेऽपि सामान्यविशेषयोः 'आत्मे
न्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्', (वै. अ० ३ आ० १ सू. १८) आत्मा मनसा 15 मन इन्द्रियेणेन्द्रियमर्थेनेति चतुष्टयत्रयद्वयसन्निकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि द्रव्यादिविनिर्मूलत्वात् किमात्मादि ? इति न प्रत्यक्षम् ।।
(एवं तावदिति) (सामान्य विशेषयोरिति) अयुक्तं प्रत्यक्षमिति वर्त्तते, कीदृशं वा तत्प्रत्यक्षं कथमयुक्तं वेति ? आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यनिष्पद्यते तदन्यत्, आत्मा मनसा मन इन्द्रि
येणेन्द्रियमर्थनेति चतुष्टयत्रयद्वयसनिकर्षादुत्पद्यमानं प्रत्यक्षमित्येतदपि नानात्वैकान्तवादिनां मतं द्रव्या20 दिविनिर्मूलत्वात् किमात्मादीनीति न प्रत्यक्षम् । द्रव्यमादिर्येषान्त इमे द्रव्यादयो द्रव्यगुणकर्मसामान्यविशेषसमवाया अद्रव्यत्वात् द्रव्येभ्योऽन्ये खपुष्पवन्न स्युः, एवं गुणेभ्योऽन्ये न स्युरगुणत्वात् , अकमत्वात् , कर्मणोऽन्येऽसामान्यत्वात्सामान्यतोऽन्येऽविशेषत्वाद्विशेषेभ्योऽन्येऽसमवायत्वात्समवायादन्ये निर्मूलत्वाञ्च खपुष्पवत्सर्वे । तस्य निर्मूलत्वं चापरिणामित्वाद्वन्ध्यापुत्रवदतोऽसत्त्वादात्मादीनामात्मा
क्षार्थाभावे किमात्मादि यत्सन्निकर्षाज्ज्ञानमुत्पद्येत ? कस्य तत् ? आत्मद्रव्याभावात् , किं तत् ? 25 गुणामावात् । इतिशब्दो हेत्वर्थे राजपुरुषोऽसीति न बिभेमीति यथा तथा इति न प्रत्यक्षम् ,
आत्मादिद्रव्याणां ज्ञानादिगुणानावाभावान्नास्ति प्रत्यक्षमित्यर्थः । योजितं बोध्यम् एवमग्रेऽपि । नैव-अस्तीति शेषः । तेन व्यपदेशेनेति, तेन व्यपदेशेन व्यपदेश्यं प्रमेयं त्वदभिमतप्रत्यक्षप्रमाणगम्यमनुमेयं प्राप्नोति न प्रत्यक्षं धूमानुमेयाग्निवदिति वस्तुनो ध्यपदेश्यत्वसिद्धौ कारकतायामकारकतायां वा न कश्चिद्विशेषोर्थान्तरनिमित्तत्वात् । आत्मेन्द्रियेति, आत्मेन्द्रियार्थसन्निकर्षात्तावज्ज्ञानमुत्पद्यते, तच्चात्मनि लिङ्गम् , असिद्ध20 विरुद्धानेकान्तिकेभ्योऽन्यत् , अनाभासमिति सूत्रार्थः । चतुष्टयेति, युञानयोगिनां सूक्ष्मव्यवहितविप्रकृष्टेषु आत्ममन
इन्द्रियार्थसन्निकर्षाद्योगजधर्मानुग्रहसहकृताच्चतुष्टयसंनिकर्षात प्रत्यक्षमत्पद्यते. अस्माकमपि द्रव्ये रूपादौ चात्ममनोबहिरिन्द्रियग्राह्यार्थचतुष्टयसनिकर्षात् प्रत्यक्षम्, आत्ममनःश्रोत्रेतित्रयसन्निकर्षाच्छब्दस्य प्रत्यक्षम्, खुड्यादीनामात्ममनसोद्वयोः संनिकर्षात प्रत्यक्ष बोध्यम् । मतेऽस्मिन् सामान्यविशेषयोरत्यन्तभिन्नत्वेन द्रव्यादीनां निर्मूलत्वादात्मादेरभाव एवेति प्रत्यक्ष कल्पितमेवेलाशयेनाह-द्रव्यादिविनिर्मूलत्वादिति । खपुष्पमत्सर्वे इति न स्युरिति शेषः, राजपुरुषोऽसीतीति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org