________________
विध्युपसंहारः] न्यायागमानुसारिणीष्याख्यासमेतम्
१२९ तेषाश्चात्मादीनामन्यथा-परमार्थतो विद्यमानानामनेकान्तात्मकानामेकान्तात्मकतया कल्पनात अन्यथाध्यारोपात्कल्पनात्मकत्वादिभ्यो हेतुभ्यो भ्रान्त्यादिवन्न प्रत्यक्षमिति पूर्वोक्तं तदेव व्याचष्टे
द्रव्यगुणभवनविशेषकारणकार्याणां सदसदनेकान्तस्वतत्त्वानामन्यतमैकान्तकल्पनात् कल्पनात्मकत्वम् , ततः कल्पनात्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षम् ।
द्रव्यगुणेत्यादि यावत्कल्पनादिति, द्रव्यग्रहणेन पृथिव्यादीनां तत्कल्पितानां सर्वगुणानां । गुणग्रहणेन भवनग्रहणेन सत्ताया विशेषग्रहणेन गोत्वादीनां यावदन्त्यविशेषस्य कारणग्रहणेनावयवादिद्रव्याणां संयोगादिगुणानां कर्मणाश्च कार्यग्रहणेन व्यणुकाद्यवयविद्रव्याणां चित्रादिगुणानाञ्च ग्रहणम् । तत्र परमार्थतः संश्चासंश्च पदार्थोऽनन्तरोक्तो द्रव्यादिस्तस्यानेकान्तः स्वतत्त्वं-द्रव्यमपि रूपाद्यपि भवनमपि विशेषोऽपि कारणमपि कार्यमपीति, तस्य तस्यान्यतमैकान्तकल्पनादतत्त्वं-द्रव्यमेव गुण एव कमैव भवनमेव विशेष एवेति न तत्स्वतत्त्वमपीति, तस्मात्कल्पनात्मकत्वं सिद्धम् , ततः कल्पना- 10 त्मकत्वादिभ्यो भ्रान्त्यादिवदप्रत्यक्षम्, कल्पनात्मकत्वादयः प्रागुक्ताध्यारोपात्मकालम्बनविपरीतप्रत्ययत्वादयः।
अतः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेव सामान्यविशेषौ घटादिविषयौ नान्यथेति विधिः।
अतः सर्वप्रमाणाविरोधीत्यादि यावद्विधिरिति, अत इत्यनन्तरोक्तसर्वोपपत्तिप्रपञ्चतो 15 यत्प्राक् प्रतिज्ञातं यथालोकग्राहमेव वस्त्विति तन्निगमयति सोपपत्तिकम् , सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहवदेवेति, प्रत्यक्षानुमानागमप्रमाणैरनवधारितकारणकार्योभयानुभयात्मकं तस्य तस्य वस्तुनो भावस्तत्त्वमविरोधि तस्मिंस्तत्त्वे तत्त्वस्य तत्त्वेन वा व्यवहारस्तस्मिन् समवस्था यस्य लोकस्य, तस्य लोकस्य परिग्रहः स सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकपरिग्रहस्तद्वत् तेन तुल्यं वर्तत इति, एवेत्यवधारणे, ताहग्लोकपरिग्रहवदेव सामान्यविशेषौ, न तु सामान्यमेव विशेष एव परस्परं 20 भिन्नावेवाभिन्नावेवेति वा यथा शास्त्रेषु कल्पिताविति । अथवा सर्वप्रमाणाविरोधिनि तत्त्वव्यवहारे समवस्था यस्य स लोकः सर्वप्रमाणाविरोधितत्त्वव्यवहारसमवस्थलोकः तस्य परिग्रहवदेव सामान्यविशेषौ नान्यथेति यथा प्रतिपादितं लोकवदेव घटादिविषयाविति, यथा लोके घटादिभवनमेव सामान्य विशेषश्च द्रव्यक्षेत्रकालभावरूपभवनविशेषाविशेषाभ्यामुक्तविधिना कार्यकारणादिभेदेन वा नियतौ सर्वत्र न मर्यादयेत्यनवधृतस्वभावौ, इति विधिः, इतिः प्रदर्शने, एष विधिरित्थं विचारितो यः 25 प्रागुद्दिष्टः। वं राजपुरुषोऽसीति हेतोरहं न बिमेमीति भावः । अस्मीति पाठे सु अहं राजपुरुषोऽस्मि, अत एव न कस्माद्विमेमीति भावः । भवनग्रहणेन सत्ताया इति, अस्तिभवत्योः सत्तापर्यायत्वादिति भावः । विशेषग्रहणेन च सत्तावान्तरजातीनामन्त्यविशेषस्य च प्रणम् , कारणग्रहणेनावयवादिद्रव्याणामवयविद्रव्यं प्रति समवायिकारणत्वात. संयोगादिगुणानामवयबिद्रव्यं प्रत्यसमवायिकारणत्वात् कर्मणाञ्च संयोगविभागकारणत्वाद्वहणम् । एतेषां पदार्थानां परमार्थतः सदसद्रूपतयाऽनेकान्तात्मकत्वस्यैव खत-30 स्वत्वादेकान्तात्मकत्वं काल्पनिकमिति तदुक्तप्रत्यक्षादीनां कल्पनात्मकत्वमवगन्तव्यमिति भावः । अथोपसंहरति विधिभनमत इत्यादिना, अनवधारितकारणकार्येति वस्तु कारणात्मकमेव, कार्यात्मकमेव, उभयात्मकमेव, अनुभयात्मकमेवेत्यनवधारितखरूपत्वं वस्तुनस्तत्त्वं तच सर्वप्रमाणाबिरोधि, तथाविधस्वरूपेण लोकस्य व्यवहारप्रवृत्तेः सामान्यविशेषौ तथाविधावेव
द्वा.न. १७
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org