________________
१३०
- द्वादशारनयचक्रम्
[विध्यरे - एष च वेदनादिभिरपि लोकप्रमाणकोज्ञानिकवाद उपजीव्यत इति, किञ्चिन्न ज्ञायते को वैतद्वेद किंवाऽनेन ज्ञातेनेत्यशक्यप्राप्त्यफलत्वाभ्यां वस्तुतत्त्वविचारो न युज्यते, क्रियाया एवोपदेशोऽतः श्रेयानिति लेशेनाभ्युपगतत्वात्तस्यैवायमन्यभेदः । सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादि, रूपादिमत्त्वाद्धटादिवत् । s (एष इति) एष च वेदनादिभिरपि लोकप्रमाणकोऽज्ञानिकवाद उपजीव्यत इति, नयानामे
कैकस्य शतधा भेदात् सप्तनयशतान्यर्था व्याख्यायन्ते, तेषां पुनश्चतुर्धा संक्षेपः, क्रियाऽक्रियाऽज्ञानविनयवादसमवसरणवचनात्, तत्रोक्तं तेऽज्ञानिकवादः-(किश्चिन्नेति) तस्यैवायमन्यभेद इति, तस्यैवाज्ञानवादस्यान्योऽयं भेदः, कतमोऽसौ भेदः ? सर्वमिदमज्ञानप्रतिबद्धमेव जगत् पृथिव्यादीति, कथं ? रूपादिमत्त्वाद्धटादिवत् , आदिग्रहणादप्तेजोवायवः । 10 नन्वेते पदार्था अज्ञान एव, किमर्थमज्ञानप्रतिबद्धं जगत् पृथिव्यादीत्युच्यते ? उच्यते, आका
शकालदिगात्मेन्द्रियमनःप्रभृतीनामपि तद्व्यतिरेकेणानुपलब्धेर्न सन्ति, तन्मयत्वादेव च तद्वदचेतनानि, अत आह
इन्द्रियाण्यपि च तन्मयान्येवाचेतनानि ।
इन्द्रियाण्यपि च तन्मयान्येवाचेतनानीति, तन्मयत्वानुमानश्च भूतत्वाद्गन्धवत्त्वाच्च, पृथिवी 15 गन्धे तथा जलं तेजोवायुश्च, रसरूपस्पशेषु गन्धविशेषात् रसरूपस्पर्शविशेषादिति, स्यान्मतं प्रत्यभि
ज्ञानाहङ्कारेच्छादिविशेषलिङ्गदर्शनादात्मा तद्गुणस्तद्व्यतिरिक्तोऽस्तीत्येतच्चायुक्तम् , गुणगुणिनोर्भेदमिच्छतां ज्ञानादन्यत्वसाम्यात् पृथिव्यादिगुणत्वेऽपि तुल्यानुमानत्वात् ।
अभ्युपेत्याप्यात्मादिव्यतिरेक
तत्करणत्वात्तैः प्रकाशितं स्थूलमज्ञं प्रकाश्यत्वात् प्रतिपद्येत ज्ञः, प्रदीपप्रकाशितघटवत्। 20 (तत्करणत्वादिति) तत्करणत्वात्तेषामिन्द्रियाणां करणत्वात्तानि वाऽस्य करणानीति तत्करणोऽज्ञः, तैः करणैः प्रकाशितं घटादिस्थूलमज्ञं प्रकाश्यत्वात् , एवञ्चान्यमप्यर्थ प्रकाश्यं प्रतिपद्य
न त्वन्यथेति भावः। अत्र कल्पे वस्तुतत्त्वे सर्वप्रमाणाविरोधित्वं विशेषणम् , अथ वेति कल्पे च वस्तुतत्त्वव्यवहारे तद्विशेषणमिति मेदः । एष चेति, अयं विधिवादो लोकप्रमाणसिद्धोऽप्यज्ञानवाद एव ज्ञानाङ्गीकारेऽपि, नानानयसङ्ग्राहकचतुर्भेदैकतमाज्ञानवादेऽस्यान्तर्गतत्वादिति भावः। किञ्चिन्नेति, किञ्चिन्न ज्ञायते को वैतद्वदेत्यनेनाशक्यप्राप्तिरुक्ता, किं वानेन ज्ञाते25 नेत्यनेनेतज्ज्ञानस्याफलत्वमादर्शितम् , ताभ्यां वस्तुतत्त्वविचारो व्यर्थ इति भावः । लेशेनाभ्युपगतत्वादिति सदपि ज्ञानं निष्फलमिच्छत्यसौ बहुदोषसम्भावनया । अस्याज्ञानवादस्य प्रकारान्तरं दर्शयति-तस्यैवायमिति । ननु पृथिव्यप्तेजोवायूनामज्ञानात्मकत्वमस्तु न चैतावता जगदज्ञानप्रतिबद्धं सिध्यति. अन्येषामपि रूपरहितानां पदार्थानां सत्त्वादित्याशंकतेनन्वेते पदार्था इति । तद्व्यतिरेकेणेति । पृथिव्यप्तेजोवायुव्यतिरेकेणेत्यर्थः, तत्र हेतुमाह-तन्मयत्वादेव चेति,
पृथिव्यादिमयत्वादित्यर्थः। तन्मयत्वानुमानश्चेति, घ्राणादीन्द्रियाणि पृथिव्यादिमयानि भूतत्वादित्यर्थः, विकारार्थे मयद 30 प्रत्ययः, इन्द्रियाणां भूतप्रकृतिकत्वे सत्सेव खखविषयग्रहणसामर्थ्यादिति भावः। तत्र घ्राणेन्द्रियं पृथिवी, गन्धादिषु गन्धबिशेषवत्त्वात् , एवं जिह्वाचक्षुस्त्वगादयो जलादिरूपाः रसरूपस्पर्शेषु रसरूपस्पर्शविशेषवत्त्वादित्याह पृथिवीगन्धे इति,तहण इति, प्रत्यभिज्ञानादिर्गुणो यस्यासौ तद्गुणः । गुणगुणिनोरिति, तयोरत्यन्तभेदे ज्ञानादेरात्मन इवान्यत्वाविशेषेण पृथिव्यादिगुणोऽपि स्यादिति भावः । तत्करणत्वादिति, किमपि वस्तु प्रतिपद्यमानोऽपि ज्ञोऽचेतनप्रदीपादिप्रकावितघटादेरज्ञानात्म
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org