________________
अज्ञानात्मता जगतः ]
न्यायागमानुसारिणीव्याख्यासमेतम्
१३१
मानोऽपि प्रतिपद्येत ज्ञः-सम्भाव्यमानप्रतिपत्तिरपि पुरुषः स्थूलमेवार्थं प्रतिपद्येताज्ञानात्मकम्, करणानि चाज्ञानानि, अचेतनकरणप्रकाशितमव्यचेतनम्, प्रदीप प्रकाशितघटादिवदेव स्यात् स्थूलम् ।
नच परमाण्वादि सूक्ष्मं शुद्धचेतनस्वरूपपुरुषादि वा स्यादज्ञानादिप्रतिबद्धम्, तस्यापि चेन्द्रियसन्निकृष्टद्रव्यव्यतिरिक्तासाधारणस्वरूपादर्शनादिदमिदमिति न निरूपणोपायोऽस्ति, प्रत्येकं समुदाये वा तद्दृष्टानुपपत्तेः, अपूर्वत्वात् ।
न च परमाण्वादि सूक्ष्मं शुद्धचेतन स्वरूपपुरुषादि वा स्यादज्ञानप्रतिबद्धं तस्यापि चेन्द्रियसन्निकृष्टेत्यादि, सत्यपि च तस्य स्थूलस्य ग्राह्यत्वे तत्स्वरूपाज्ञानादज्ञानसम्बद्धमेव तस्येन्द्रियसन्निकृष्टद्रव्यान्तरव्यतिरिक्तमसाधारणं यत्स्वरूपमात्मादेर्वाऽतीन्द्रियस्य तस्य कचित् कदाचिददृष्टत्वादिदमिदमिति न निरूपणोपायोऽस्ति, निरूपणं निर्णयज्ञानमिष्टम्, किं कारणं न निरूपणोपायोऽस्ति इदमिदमितीति चेदुच्यते - प्रत्येकं समुदाये वा तद्दृष्टानुपपत्तेः, तस्यासाधारणरूपस्यापूर्वत्वात्, अपूर्वत्वादेव 10 दृष्टानुपपत्तिर्निर्णयानुपपत्तिश्च, प्रत्येकं तावन्न हि घट एकैकः कृष्णादिरूपोऽपूर्वत्वादृश्यते स्वरूपतः, तत एव प्रत्येकमनिरूपित स्वरूपाणां कुतो निरूपणं समुदाये ? सिकतासु प्रत्येकमनिरूपितस्य समुदाये तैलस्य निरूपणाभाववत्, निश्चयेन रूपणं निरूपणं तदुपायाभावादज्ञानप्रतिबद्धमेव सर्वमिति साधूक्तम् ।
स्यान्मतमनुभवितुर्बाह्यविषयमिदमिदमिति निरूपणं मा भूद्यदि न भवति स्वसंवेदनं किन्त्वान्तरं सुखदुःखादिषु किं निरूपणं न भवतीति ? उच्यते स्वसंवेदनेनाशनाद्यभ्यवहृतं 15 परिणमयन्न सञ्चेतयतीति व्यभिचारान्न भवति । तथा सुप्तादीनां चलनकण्डूयनस्फुरणादिक्रियाः कुर्वतामसञ्श्चेतयमानानामेव ताः क्रियाः दृश्यन्ते, इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति परिच्छेदार्थश्च प्रमाणव्यापारः ।
(स्यान्मतमिति) स्वसंवेदनेनाशनाद्यभ्यवहृतं परिणमयदित्यादि, प्राणापानार्थं सचेतयन्नेव हि कुरुतेऽशनादि सर्वो लोकः, अभ्यवहृतमपि खलरसभावेन रसरुधिरादिभावेन च परिणमयन्न 20 सश्चेतयति स्वयमेव तथा सुप्तादीनामिति, सुप्तमद मूर्च्छितगर्भाः सुप्तादयः, तथाऽन्यमनसामव्यक्तचलन
5
क्त्ववदचेतनभूतेन्द्रिय प्रकाशितं स्थूलं घटादिवस्तु प्रकाश्यमज्ञानात्मकमेव प्रतिपद्यते प्रकाश्यत्वस्याज्ञानत्वव्याप्यत्वात्, इन्द्रियैः प्रकाशितमिति प्रथमव्युत्पत्तेर्द्वितीयव्युत्पत्तेश्चेन्द्रियकरणज्ञानप्रकाशितमित्यर्थः । ननु स्थूलं घटादि भवत्वचेतनम चेतनकरणप्रकाशितत्वात् यत्तु सूक्ष्मं परमाण्वादि शुद्ध चेतनखरूपपुरुषादि वा कथमज्ञानप्रतिबद्धम्, परमाणोरतीन्द्रियत्वेन पुरुषादेश्व चेतनखरूपत्वादेवाचेतनकरणप्रकाशितत्वाभावादित्याशङ्कते न च परमाण्वादीति । न चेति स्यादित्यनेन सम्बद्ध्यते । समाधत्ते - 25 तस्यापीति स्थूलस्येन्द्रियग्राह्यत्वेऽपि विशिष्टस्य तत्स्वरूपस्य नैव निर्णयः कर्त्तुं शक्यतेऽत एवाज्ञान प्रतिबद्धमुच्यते तथा परमाण्वादेः पुरुषादेर्वा द्रव्यव्यतिरिक्तासाधारणस्वरूपस्य क्वचित्कदाचिदप्यदृष्टत्वान्न तन्निर्णयोपायः कश्चिदस्तीति भावः । एवं सूक्ष्मस्य परमाण्वादेरदृष्टत्वादेरेवानिरूपित स्वरूपत्वात् तत्कार्यभूतस्य समुदायात्मकस्य घटादेरप्यनिरूपितखरूपत्वं प्रत्येकमनिरूपितस्वरूपाणां समुदायस्यापि तादृशत्वादित्याह - प्रत्येकं तावदिति । ननु बाह्यविषयं खसंवेदनं ययनुभवितुर्न तर्हि मा भूत्तस्य तद्विषयमिदमिति निरूपणम्, सुखदुःखादीनान्तु स्वसंवेदनरूपाणामान्तराणां कुतो न निरूपणमित्याशङ्कते - स्यान्मतमिति । 30 स्वसंवेदनेनाऽनुष्टितस्यापि निर्णयज्ञानाभावाद्व्यभिचारमाह - स्वसंवेदनेनेति । व्यभिचारमेवाऽऽदर्शयति-प्राणापानार्थमिति । स्वसंवेदनलक्षणप्रमाणसद्भावेऽपि परिच्छेदाभावलक्षणोऽन्वयव्यभिचारो दर्शितोऽनेन स्वसंवेदनलक्षणप्रमाणाभावेऽपि परिच्छेदसद्भावरूपं व्यतिरेकव्यभिचारं दर्शयति तथा सुप्तादीनामिति । सुप्तादीनामित्यत्रादिपदप्राह्यमाह - सुतेति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org