________________
द्वादशारनयचक्रम्
[विभ्यरे कण्डूयनमशकदंशस्पर्शसंवेदनं गन्धादिज्ञानं सुप्तादीनाश्चाम्लद्रव्यास्वादनमसञ्चेतितं रसास्वादनमित्यर्थः । आदिग्रहणात् क्षुतजृम्भितकाशितादयः, यथैताः क्रिया असश्चेतितास्तथा स्वसंवेदनमपि, इत्थं कल्पिताकल्पिततथाभूतप्रत्ययानुपपत्तेरिति, कल्पितस्तावत् कल्पितत्वादेव तथाभूतो न भवति प्रत्ययः ।
अकल्पितोऽपीत्थमुक्तविधिना नोपपद्यते तथाभूतः प्रत्ययः शुद्ध इत्यर्थः, तस्मात् कल्पिताकल्पिततथा। भूतप्रत्ययानुपपत्तेरज्ञानानुविद्धमेव सर्वं ज्ञानमिति । परिच्छेदार्थश्च प्रमाणव्यापार इति, प्रमाणं हि व्याप्रियमाणं यथार्थपरिच्छेदार्थमिष्यते, न चेत्थं तत्परिच्छेदोऽस्तीति वैधर्म्य दर्शयति ।
स्यान्मतमज्ञानप्रतिबद्धमित्यज्ञानशब्दोच्चारणादेव ज्ञानाभ्युपगमः कृतो भवति, प्रतिषेधस्याब्राह्मणवदन्यत्र प्रसिद्धविषयत्वात् , अन्यथा प्रतिषेधानुपपत्तेः, स्ववचनविरोधाच्च,
तथापि न चाज्ञानमित्युक्तिविरोधः, राधकपूर्णकमातृव्यपदेशवत् , विशेष्यप्राधान्यादनव10 धारणात् , तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति नोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् , संशयविपर्ययानध्यवसायनिर्णयानामवगमावबोधार्थत्वात् अवगमस्य बोधाबोधपर्यायत्वात्तस्मादेतस्मिन्नयभङ्गेऽज्ञातमेव शब्दस्यार्थः ।
(स्यान्मतमिति) (नचाज्ञानमित्युक्तिविरोध इति) किमिव ? राधकपूर्णकमातृव्यपदेशवत्, कुतः १ विशेष्यप्राधान्यादनवधारणात् । का भावना ? यथा राधकस्य पूर्णकस्य चैकैव माता विवक्षिता 15 भवति तदा राधकमातेति राधकेन विशिष्यमाणा पूर्णकमातेति पूर्णकेन वा, अथ राधकपूर्णकमातेत्यु
भाभ्यां वा सर्वथा राधकस्यैव पूर्णकस्यैव वा मातेत्यवधारणं नास्ति विशेष्यप्राधान्यात् , तथा ज्ञानाज्ञानाभ्यां तदेव विशिष्यते वस्त्विति विशेष्यप्राधान्यानोक्तिविरोधो ज्ञानाज्ञानयोरविशेषात् । न तु यथा विशेषणप्राधान्यादवधारणं नीलमुत्पलमिति, अतस्तेषामवबोधार्थाभेदाज्ज्ञानत्वमज्ञानत्वश्चाविशिष्टमिति
तत्प्रदर्शयन्नाह-संशयविपर्ययानध्यवसायनिर्णयानामवगमावबोधार्थत्वात्। 'गम सूप गतौ' अवपूर्व गमन20 मवगमोऽवगमश्चावबोधः, 'बुध अवगमने' इति वचनात् , सर्वेषां संशयविपर्ययानध्यवसायनिर्णयानामवगमार्थत्वादवगमस्य च बोधाबोधपर्यायत्वात् , तस्मादेतस्मिन्नयभङ्गेऽज्ञात एव शब्दस्यार्थः, भङ्गाहणं
आखवस्थासु सञ्चेतनात्मकं खसंवेदनं नास्तीति भावः । आखवस्थास्वविद्यमानानधिकृत्यापि व्यभिचारमाह-तथाऽन्यमनसामिति ।चलनकण्डूयनस्फुरणादिक्रिया इत्यत्रादिपदग्राह्यक्रिया आह-आदिग्रहणादिति। ननु ब्राह्मणत्वस्य क्वचित्प्रसिद्धौ
सत्यामयमब्राह्मण इति प्रतिषेधप्रतिपत्तिर्भवितुमर्हति, प्रतियोगिनिरूपणाधीननिरूपणविषयत्वात् प्रतिषेधस्य, एवञ्चाज्ञानमित्यु25 क्यैव ज्ञानस्य क्वचिदङ्गीकारः कृत एवेति नाज्ञानप्रतिबद्धं सर्वम्। तथा ज्ञानाभावे सर्वमज्ञानप्रतिबद्धमिति नोदियात् यदीदं ज्ञानं
कथं सर्वमज्ञानप्रतिबद्धं यदि न ज्ञानं कथं सर्वमज्ञान प्रतिबद्धमिति निर्णयो विरोधादित्याशङ्कते-स्यान्मतमिति । अस्याः प्रतिविधानमाह-तथापि न चेति । अनवधारणादिति, विशेषणस्याप्रधानत्वेन तदंशेऽवधारणाभावादित्यर्थः । नीलमुत्पल मितीति, नीलान्यरूपव्यवच्छेद उत्पले बोध्यते विशेषणसमतावधारणस्येतरव्यवच्छेदकत्वप्रसिद्धेनं तु विशेष्यसजतावधारणस्य, तस्यायोगस्यैव व्यावर्तकत्वादिति भावः । तेषामिति, ज्ञानत्वेनाज्ञानत्वेन चाभिमतानां संशयविपर्ययानध्यवसा30 यनिर्णयानामित्यर्थः । अवबोधार्थत्वादिति, ज्ञानं हि द्विविधमुच्यते यथार्थमयथार्थश्चेति, अयथार्थमेव चाज्ञानमुच्यते ज्ञानश्चावबोधः, शाऽवबोधने इत्युक्तेः, तथा च यथार्थायथार्थपर्यायत्वं ज्ञानस्य, अन्यथा तस्य द्वैविध्यानुपपत्तेः, अतो ज्ञानत्वमज्ञानत्वचाविशिष्टमविरोधादिति बोधाबोधपर्यायत्वं विज्ञेयमिति भावः । एतस्मिन्नयभङ्ग इत्युक्त्याऽन्योऽपि भङ्गोऽस्तीति ज्ञायते समीपतरवर्तिवाचकैतदो विशेषणाच, तथा चास्मिन्नेव भङ्गे शब्दार्थोऽज्ञात एव नान्येषु भङ्गेषु, तत्रान्यार्थानामपि सम्भवादिलाशयेनाह-भलमहणमिति । यदि भङ्गान्तरं न सूचयेत्तर्हि मिथ्यात्वादवृत्तित्वमेव स्यात्, परस्परनिरपेक्षत्वात्, विधिनि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org