________________
विधेव्यार्थता] न्यायागमानुसारिणीव्याख्यासमेतम् भङ्गान्तरसूचनार्थम् , परस्परनिरपेक्षाणां भङ्गानां वृत्तेम॒षात्वात्तद्विपर्यये सत्यत्वात् तेषाञ्च विधिनियमयोरेव भङ्गत्वान्नयानाम् , तस्मादस्मिन्नेव नयभङ्गे शब्दस्याज्ञातोऽर्थो नान्येषु, तेष्वप्यन्येऽन्येऽर्था इति ।
एतस्य दर्शनस्य ज्ञापकमाह
यथा चाहुः 'अस्त्यर्थः सर्वशब्दानामिति, सत्तामात्रमर्थः सर्वशब्दानाम् , कोऽप्यस्यार्थोऽस्ति, न निरर्थकः शब्दः, स पुनरर्थो न निरूपयितुं शक्योऽयमयमिति, एत-5 त्प्रत्याय्यलक्षणम् , तत्र दृष्टान्तोऽपूर्वदेवतास्वर्गशब्दानामर्था यथा तेषामत्यन्तापरदृष्टत्वादीदृशोऽपूर्वः स्वर्गो देवता वेदशीति न प्रतिपद्यामहे निरूपणेन तथा गवादिशब्दानामप्यर्थैः तत्समैरेव भवितव्यम् , न हि गमनागमनगर्जनादिष्वर्थव्यवस्था विशेषरूपेति कश्चिदस्त्यर्थ इत्येतावत्प्रतिपत्तव्यम् । एतस्मिन्नेव नयभङ्गे सर्वाणि पदानि वाक्यार्थः, तद्यथा देवदत्त ! गामभ्याज शुक्लां दण्डेनेत्यत्र परस्पराऽविवेकेन सङ्कीर्णरूपाणि पदान्येकार्थान्यन्वयव्यतिरे- 10 काभ्यामनुगम्यमानं सम्पिण्डितमिवार्थ ब्रूयुर्न पृथग्भूतम् , तस्मात् सर्वाणि पदानि वाक्यार्थः।
(यथा चाहुरिति) अस्त्यर्थः सर्वशब्दानामिति श्लोकः । (सर्वाणीति) पदान्येव वा वाक्यार्थः, नैकैकं न तद्व्यतिरिक्तं यथोक्तम् 'अर्थकत्वादेकं वाक्यं साकाक्षश्चेद्विभागे स्यात्' (पू. मीमांसायां अ०२ पा० १ अधि० १५) इति, न तु यथाऽन्यैः कल्प्यतेऽन्यथा, 'आख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी । एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहतिः॥पदमाद्यं पृथक् सर्वं पदं सापेक्षमित्यपि । वाक्यं 18 प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥' (वाक्यप० का० २ श्लो० १-२) इति ॥ अलौकिकत्वादशक्यप्राप्त्यफलत्वाभ्यामेव ।
क पुनरयं नयेऽन्तर्भाव्यते ? किं द्रव्यनयभेदे ? पर्यायभेदे वा, उच्यते
व्यवहारदेशत्वाच्चास्य द्रव्यार्थता 'लौकिकसम उपचारप्रायो विस्तृतार्थो व्यवहार इति (तत्त्वा० अ०१ सू० ३५ भाष्ये) वचनात् , द्रव्यशब्दो द्रोरवयवोद्रव्यमिति व्युत्पादितः, 20 द्रुः गतियोत्रा तस्या अवयव एकदेशः, एकदेशोऽसमस्तवृत्तिरन्यथावृत्तित्वात् ।
(व्यवहारेति) व्यवहारदेशत्वाचास्य द्रव्यार्थता लौकिकसम उपचारप्रायो विस्तृसार्थो व्यवयमभङ्गवृत्तिव्यतिरिक्तत्वादनर्थकवचोवदनृतमित्युक्तेरिति भावः। अस्त्यर्थः सर्वशब्दानामिति, अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् । अपूर्वदेवतास्वर्गः सममाहुर्गवादिषु ॥ (वाक्यपदीये का० २ श्लो० १२१) इति पूर्णः श्लोकः। तं व्याख्यातिसत्तामात्रमर्थ इत्यादिना । ननु प्रत्येकं पदानि वाक्यार्थमवगमयेयुः, तत्संघातो वाक्यं वा पदार्थो वेत्याशङ्कायामाह-25 एतस्मिन्नेव नयभङ्ग इति । सर्वाणि पदानि वाक्यपदाभिधेयानि, न हि प्रत्येकं पदेभ्यो वाक्यार्थप्रतीतिदृश्यते किन्तु परस्परापृथग्भूतेन सङ्कीर्णखरूपाणि पदान्येवैकार्थप्रतिपादकत्वाद्वाक्यमिति भावः । न तद्यतिरिक्तमिति, पदसमुदायव्यतिरिक्त पदार्थस्फोटादिरूपं न वाक्यार्थावगमनिमित्तमित्यर्थः । तत्र प्रमाणमाह-यथोक्तमिति, पूर्वमीमांसायां यावत्स्वर्थैकत्वं विभज्यमानसाकांक्षत्वञ्च तावत्सु पदेषु वाक्यत्वं पर्याप्तं न तु वाक्यसमूहे, तस्यैकार्थप्रकाशकत्वाभावात् , अथैकत्वञ्च मिनप्रतीतिविषयत्वेनानेकमुख्य विशेध्यराहित्यम् , विभज्यमानसाकांक्षत्वञ्चान्वीयमानयोः पदार्थयोरनन्वयेऽनिवृत्ताकांक्षत्वम् , कोमलमासनं 30 करोमि तस्मिन् सीदेत्यत्रानन्वये साकांक्षत्वेऽपि भिन्नवाक्यत्वादाद्यं विशेषणमिति भावार्थः । अत्र वैयाकरणैरुक्तान वाक्यविकल्पान् दर्शयति-आख्यातशब्दः संघात इत्यादि । आख्यातशब्दः, संघातः, संघातवर्तिनी जातिः एकोऽनवयवः शब्दः क्रमो बुख्खनुसंहतिः, आद्यं पदं, प्रत्येकं सर्व पदं मिथोऽनुग्रहापेक्षया संघातं वेति वाक्यं प्रति न्यायदर्शिनां मतिर्बहुधा मिलेत्यर्थः, मतिमेदे कारणमाह-अलौकिकत्वादिति । लोकव्यवहारेति, लोके व्यवहारक्षमोऽर्थो हि घट इति विभक्तरूपतया अस्तीत्यविभक्तरूपतया प्रतीयमानः पदार्थस्तत्प्रवर्तनपरो नयो व्यवहारः सोऽपि द्रव्यार्थनयोऽशुद्धः, सङ्घहनयविषयो 35 हि सत्तामात्रं द्रव्यार्थिकनयस्य विशुद्धा प्रकृतिः, अयन्तु व्यवहारो घटादिविशेषसङ्कीर्णसताप्ररूपक इत्यशुद्धद्रव्यास्तिकः, तथा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org