________________
१३४
द्वादशारनयचक्रम्
[विध्यरे हार इति वचनात्तस्य द्रव्यार्थभेदत्वम् , लोकव्यवहारविषयो हि व्यवहारः, तदेकदेशविषयो विधिनया, तस्माद्रव्यार्थभेदः । यथा 'दबट्ठियनयपयडी सुद्धा संगहपरूवणाविसओ। पडिरूवं पुण वयणस्थनिच्छओ तस्स ववहारो' (संमति कां० १ गा० ४) इति । तस्य शब्दार्थव्युत्पत्तिदर्शनार्थमाह
द्रव्यशब्द इति द्रोरवयवो द्रव्यमिति व्युत्पादितत्वात् । अथ द्रुः कः ? 'दु द्रु गतौ' तत्तुल्यार्थमव्युत्पन्नं । प्रातिपदिकं 'शुद्रुभ्यां मः' (५।२।१०८) इति निपातितत्वात । तस्यार्थो दुर्गतिः यात्रा व्यवहारो लोकस्येति, तस्या यात्राया अवयव एकदेश इत्यर्थकथनात् , स एकदेशः क इति चेदुच्यते-एकदेशोऽसमस्तवृत्तिरन्यथाव्यवहारात् समस्तलोकव्यवहारविपरीतवृत्तित्वान्मिथ्यादृष्टिरित्यर्थः।
सा पुनरस्या विधिवृत्तेरेकदेशवृत्तिता लोकत एव, मृद्घटादिसामान्यविशेषाणामर्थकलापानां परित्याज्यत्वात् , तस्मादन्यदवस्तु, अलौकिकत्वात् खकुसुमवत् , व्यतिरेके घटवदिति दिक् । 10 (सा पुनरस्या इति) सा पुनरस्या विधिवृत्तरेकदेशवृत्तिता, कुतः परिच्छिद्यत इति चेल्लोकत
एव परिच्छिद्यत इत्यर्थः, यस्माल्लोके तदेकदेशवृत्तिता मृद्भटादिसामान्यविशेषाणां मृत् सामान्यं घटो विशेषः मृदः सामान्यं द्रव्यत्वं घटविशेषः पृथुबुनखण्डौष्ठसम्पूर्णरक्तकृष्णतादिः सर्व एवैष परित्याज्योऽर्थकलापः, समस्तवृत्तौ नयानां यथाखं प्रमाणवशाव्यवस्थाप्यः, तस्याज्ञानानुविद्धत्वैकान्ताद्वक्ष्य
माणदोषसम्बन्धाच लौकिकस्याप्यन्या युक्तिः । इति परिसमाप्ती, विधिनयशतभेदो दिगिति । तस्माद15 न्यदवस्तु अलौकिकत्वात् खकुसुमवदिति गतार्थम् । अभिप्रायार्थ:-स तु मन्यते अलोकैकान्तसांख्यादिपरिकल्पितमवस्त्विति, व्यतिरेके घटवदिति, यद्वस्तु तल्लौकिकमेव यथा घटः कार्य कारणं वा सामान्यं वा विशेषो वा यो वा स वाऽस्तु यथा लोकप्रसिद्धिः पृथुबुध्नादिप्रागुक्तसामान्यविशेषभवनात् स च लौकिक इति, व्यतिरेके-वैधयें । - सर्वनयानां जिनप्रवचनस्यैव निबन्धनत्वात् किमस्य निबन्धनमिति चेदुच्यते20 निबन्धनञ्चास्य 'आया भंते नाणे अन्नाणे, गोयमा आया सिय नाणे सिय अन्नाणे' नाणे पुण नियमं आया इति (भग० १२-श-३-१०) ।
निबन्धनञ्चास्येति, आया भंते नाणे अन्नाणे इति स्वामी गौतमस्वामिना पृष्टो व्याकरोति गोयमा! नाणे नियमा आया,अतो ज्ञानं नियमादात्मा ज्ञानस्यात्मव्यतिरेके वृत्त्यदर्शनात् , आया सिय नाणे सिय अन्नाणे आत्मा पुनः स्याज्ज्ञानं स्यादज्ञानम् , अज्ञानमप्यसौ ज्ञानावरणीयकर्मवशीकृतत्वात् संश25 यविपर्ययानध्यवसाय बाहुल्यादित्यस्मात् सूत्रादेतन्मिध्यादर्शनं निर्गतमज्ञानोक्तेर्विरोधसमाधिमवददिति।
विधिभङ्गारो नाम प्रथमो द्रव्यार्थभेदः समाप्तः। व्यवहारैकदेशत्वाद्विधिनयस्यापि द्रव्यार्थत्वं बोध्यम् । द्रव्यशब्देनापि व्यवहारैकदेशताया लाभ इत्याह-द्रव्यशब्द इति, दुः-ग्यवहारः तस्यावयवः एकदेशो द्रव्यम्, एकदेशत्वं चास्यासमस्तार्थपरिच्छेदकत्वात्, अर्थो हि द्रव्यपर्यायात्मकस्तत्र द्रव्यस्यैवैकदेशस्यायं नयः परिच्छेदक इति भावः । सर्वनयानामिति, जिनप्रवचनादेव सर्वनयानामुत्थानात् प्रकृतनयस्य 30 किं मूलभूतं वचनमित्याशङ्कायामाह-आया मंते इत्यादि, आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्थादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिखभावत्वात् , ज्ञानं पुनर्नियमादात्मा, आत्मधर्मत्वात् ज्ञानस्य, न च सर्वथा धर्मों धर्मिणो भिद्यते इति, एवञ्चात्मा ज्ञानं व्यभिचरति ज्ञानं त्वात्मानं न व्यभिचरतीति सूत्रभावार्थः, कथमज्ञानमात्मेत्यत्र हेतुमाहशानावरणीयेति, यत एवासावात्मा ज्ञानावरणीयकर्मवशीभूतोऽत एव संशयाद्यज्ञानप्राचुर्यादज्ञानमुच्यत इति भावः॥
इस्याचार्यविजयलब्धिसूरिकृते द्वादशारनयचक्रस्य विषमपदविवेचने प्रथमो विधिभङ्गारः ॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org