________________
द्वितीयो विधिविध्यरः ।
अयमपि तु विप्रतिषेधादयुक्तः।
(अयमपीति) अयमपि तु विधिवृत्त्येकान्तोऽपि विप्रतिषेधादयुक्त इति कः पुनः सम्बन्धः? खविषयसम्पातनेनार्थानां भावनात्मभिर्विधिनियमवृत्तिभिरनेकान्तविहितप्रत्येकतत्ताभिः समधिगम्या जैनसत्यत्वसाधनवृत्तौ विवक्षितद्वादशविकल्पविशेषणा एकैव वृत्तिरधिकृतेत्यनन्तरोक्ताया विधिवृत्तेरपि । प्रत्येकवृत्ताया मिथ्यादृष्टित्वादयमपि तु विधिवृत्त्येकान्तस्त्याज्यः, कस्मात् ? अयुक्तत्वात् , अयुक्तत्वं विप्रतिषेधात्, विरुद्धः प्रतिषेधो विप्रतिषेधः सर्वमुक्तं मृषेति प्रतिषेधवत् । अपिशब्दात् सामान्यविशेषोभयवादैकान्तः प्रथमनयदूषितोऽनुमत इत्ययमभिसम्बन्धः।
कथं विप्रतिषेध इति चेदुच्यते___ यदुक्तं त्वया सर्वमज्ञानानुविद्धमेव ज्ञानम् , न च ज्ञानाज्ञानयोः कश्चिद्विशेषोऽस्ति 10 संशयविपर्ययानध्यवसायनिर्णयानामवबोधैकार्थत्वान्न लोकतत्त्वं ज्ञातुं शक्यम् , विफलश्च विवेकयत्नः शास्त्रेष्विति, तद्यदि लोकतत्त्वमज्ञेयमेव सर्वशास्त्रविहितलोकतत्त्वव्यावर्त्तनं तद्यप्रत्ययमेव, अशक्यप्राप्त्यफलत्वाभ्याम् , प्रतिषेध्यस्वरूपज्ञानविषयत्वाच्च ।
(यदुक्तमिति) किन्त्वयैवेदं विदित्वाऽविदित्वा वा सामान्यविशेषौ स्वविषयौ परविषयौ वा - स्यातामित्यादिलोकतत्त्वं शास्त्रान्तरेषु कल्पितं दूषितम् ? विदित्वा चेन्न तर्हि तन्मतं न विदितम् , अथा- 15 विदित्वा, ततः कथं दूषितमित्युभयथाऽपि न युज्यते प्रतिषेधो विरुद्धत्वात् , प्रतिषिध्यते प्रतिषेध्यश्च न ज्ञायत इति हास्यमेतत् ।
स्यान्मतम्
प्रतिषेध्यं ज्ञायते तैस्तस्य बहुधा कल्पितस्यानुपपत्तेरित्येतदपि विप्रतिषिद्धम् , तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यादिति तुल्यविकल्पत्वात् 20 ज्ञाताज्ञातयोश्च तद्दोषाविमोक्षात् । यदप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति, तत्रापि विप्रतिषेधात्तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? । विधिविधिश्च क्रियाविधायिवाक्यपरिज्ञानस्याप्यशक्यप्राप्त्यप्रयोजनत्वादिदोषाविमुक्तत्वात् खवचनविरोधादिदोषावस्तुतत्त्वपरिज्ञानाविनाभावादयुक्तः सर्वैककारणमात्रत्वम् , तच्च पुरुषकालनियतिखभावभावाद्यन्यतमात्मकमात्मप्रभेदमात्रावस्थामेदमात्रस्य व्यवहृतेरिति प्रदर्शनार्थः, तदेवाहायमपि विति, तुशब्दो भङ्गान्तरारम्भसूचकः विधिवृत्त्येकान्तोऽपीति क्रिये-25 कान्तवादोऽपीति भावः। पूर्वोदितसामान्यादि विधिवृत्त्या सहास्याः क्रियैकान्तवृत्तेः सम्बन्धं पृच्छति कापुनः सम्बन्ध इति। वृत्तिशब्दार्थो हि खविषयसम्पातनेनार्थानां भावनारूपा सा वृत्तिः परस्परभङ्गापेक्षा सती जैनसत्यत्वसाधनसमर्था भवति अन्यथा तु मिथ्यादृष्टित्वादसत्या भवति विप्रतिषेधात् सर्वमुक्तं मृषेति प्रतिषेधवदिति, अयं हि प्रतिषेधो यदि सत्यः स्यात्तर्हि कथं सर्वमुक्तं मृषा, अस्या उक्तरमृषात्वात् , यद्यसत्यः स्यात् तर्हि कथं सर्वमुक्तं मृषा सिद्ध्येत् मृषाभूतेन कस्यचित् प्रतिषेधासम्भवादिति तथैवेयमेकान्तवृत्तिः स्वयमसत्यभूता कथं वस्तु साधयेदिति भावः। नन्वज्ञानानुनिद्धमेव सर्वमित्यज्ञानशब्दोच्चार-30 णादेव प्रतिषेध्यतयाऽन्यत्र प्रसिद्धज्ञानाभ्युपगमः कृतो भवति प्रतिषेधस्य प्रसिद्धविषयत्वादित्याशङ्कायां ज्ञानाज्ञानयोरवबोधार्थसाम्यादविशेष इत्याशयेनोत्तरयति न चेति । अशक्यप्रात्यफलत्वाभ्यामिति, ज्ञातुमशक्यत्वात् शक्यत्वेऽपि निष्फलत्वादित्यर्थः । प्रतिषेध्यं शायत इति, प्रतिषेध्यं लोकतत्त्वं वादिकल्पितं ज्ञायत एव किन्तु तैर्लोकतत्त्वं यद्बहुधा कल्पितं
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org