________________
१३६ द्वादशारनयचक्रम्
[विधिविध्यरे (प्रतिषेध्यमिति) प्रतिषेध्यं ज्ञायते तैस्तस्य वस्तुनस्सत्त्वादिगुणत्रयात्मकक्षणरूपद्रव्यादिषट्पदार्थात्मकादितया बहुधा कल्पितस्यानुपपवेरिति, एतदपि विप्रतिषिद्धं तेषामपि मतानां लोकतत्त्वान्तःपातिनां मिथ्याविधिकत्वं ज्ञातमज्ञातं वा स्यादिति तुल्यविकल्पत्वात् , ज्ञाताज्ञातत्वयोश्च तहोपाविमोक्षात्, सामान्यं स्वविषयं परविषयं वेत्थमित्थञ्च न युज्यते तथा विशेष इति अपश्चितत्वात् । 5 अज्ञातश्चेत्तर्हि सर्वमप्रत्ययत्वान्न प्रतिषेध इत्युक्तम् , ज्ञातश्चेत् कथं ज्ञातुमशक्यं लोकतत्त्वमित्यप्रत्ययमेव, स्वयमसमीक्षितवाच्यवाचकसम्बन्धत्वात् , तेन च तदुन्मत्तवदेव तावदशक्यं ज्ञातुं लोकतत्त्वमित्युक्तम् , विप्रतिषेधेऽप्युक्तमनर्थको विवेकयत्नः शास्त्रेष्विति तत्रापि विप्रतिषेधात्, यदप्युक्तमनर्थको विवेकयत्नः शालेष्विति तत्रापि विप्रतिषेधात्तज्ज्ञानमफलमेव किमिति शास्त्रविहितार्थप्रतिषेधप्रयासः ? शास्त्रविहितार्थज्ञानं तत्प्रतिषेधोपायज्ञानश्चावधार्य किं सफलमफलम् ? इति, यद्यफलं विज्ञानं शास्त्रविहितार्थान 10 प्रतिसिषेधिषतः प्रयासोऽप्यफल एव ज्ञातत्वात् पूर्ववत् । अथ सफलम् , अफलमेव लोकतत्त्वज्ञानमिति व्याहन्यते, अतः को वैतद्वेद किं वाऽनेन ज्ञातेनेत्येतदयुक्तमुक्तम् , विप्रतिषेधात् ।
यदप्युक्तं वस्तुतत्त्वाशक्यप्राप्तेः क्रियाया एवोपदेशो न्याय्यस्तत्पूर्वकत्वात् सुखावाप्तेरित्यत्रोच्यते
क्रियोपदेशन्याय्यत्वाभ्युपगमोऽपि चैवं विघटेत, संसेव्यविषयस्वतत्त्वानुपातिपरिणामविज्ञानविरहितत्वात् , अज्ञातवैविध्यवस्तुतत्त्वपरिणामवदवैद्यौषधोपदेशवदग्निहोत्रं जुहुयात् 15 स्वर्गकाम इत्याद्युपदेशो बालकादिग्रहणवत् ।
(क्रियेति) विघटत एवेति कथं निष्ठुरमुच्यते । विघटेतेति सम्भावनयोच्येत दाक्षिण्यलोकज्ञानाभ्याम् । को हेतुर्विघटेत ? संसेव्यविषयवतत्वानुपातिपरिणामविज्ञानविरहितत्वात् , समित्येकीभावे, आत्मसाद्भावेन सेव्यमानस्य विषयस्य स्वतत्त्वं आहारादेः शब्दस्पर्शरसरूपगन्धात्मकस्य स्वरूपं 'वातादिप्रकोपशमोऽपचयप्रलयावहः । नागरातिविषामुस्ताकाथः स्यादामपाचनः ॥' इति, तत्तत्त्वा20 नुपातिपरिणामविज्ञानं तदनुपतितुं शीलमस्येति । किमुक्तं भवति ? आसेव्यमानस्य वस्तुनस्तक्रियात
एव स्वरूपानुपातेन विपाकपरिणामस्तद्विज्ञानविरहितत्वम् , स इत्थं विपाकः सुखाय दुःखाय वेत्येतद्विज्ञानं हिताहितप्राप्तिपरिहारार्थं तत्तु भवतां नास्त्येव, अतस्तद्विरहितत्वात् क्रियोपदेशोऽपि 'अग्निहोत्रं जुहुयात्स्वर्गकामः, तन्दुलान् पचेद्भोक्तुकामः' इत्यादिदृष्टादृष्टार्थो न घटते, अज्ञातवैविध्यवस्तुतत्त्वपरिजामवदवैद्यौषधोपदेशवत् , यथा कस्यचिदविज्ञातरसवीर्यविपाकप्रभावद्रव्यगुणविशेषभागाभागसंयो26 तदनुपपनामिति प्रतिषिध्यत इति भावः । सत्त्वादिगुणत्रयात्मकेति । सांख्यमतेन, क्षणरूपेति बौद्धमतेन, द्रव्यादिषद् पदार्थेति वैशेषिकाभिप्रायेण, परपरिकल्पितस्यानुपपत्तौ हेतुमाह सामान्यं स्वविषयमित्यादिना । स्वयमसमीक्षित. बाध्यवाचकसम्बन्धत्वादिति, वाच्यवाचकभावसम्बन्धं शब्दार्थयोः खयमविचार्यैवैवमुक्तत्वेनोन्मत्तवचनवदेव तव वचनं निरुतमशक्यं ज्ञातुं लोकतत्त्वमित्यादिरूपमिति भावः। निश्चितार्थबोधकं विघटत इति पदप्रयोगं परिहृत्य सम्भावनाबोध. कपदप्रयोगनिदानमाविष्करोति विघटत एवेतीति। संसेव्यमानेति, आसेव्यमानाहारादिविषयविपाकपरिणामज्ञानवैधुर्यात् 30क क्रियाया उपदेशः श्रेयान्, न ह्यविदितभेषजगुणस्य देशकालरोगिबलरोगलक्षणानभिज्ञस्य वैद्यस्य भेषजोपदेशः साधीयान् स हि बालकादिज्ञानमिव क्रीडाविलास एव भवेदिति भावः। संसेव्येति सम्यक् सेव्यो विषयः संसेव्यविषयः, सम्यक्त्वं चैकीभावः, तथा सेव्यमानविषयाणां स्वरूपानुपातिविपाकलक्षणपरिणामविशेषविज्ञानाभावादित्यर्थः। तथाविधविपाकपरिणाममानाभावे कथं हितप्राप्त्यहितपरिहारः स्यादित्याह स इत्थमिति । अग्निहोत्रमिति, अदृष्टार्थोऽयमुपदेशः, तन्दुलानिति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org