________________
वेदपौरुषेयत्वम्] न्यायागमानुसारिणीव्याख्यासमैतम्
९३७ गस्य देशकालातुरप्रकृतिसाम्यबलाबलवद्रोगसमुत्थनिदानादिलक्षणानभिज्ञस्यौषधोपदेशो न घटते तथाईग्निहोत्रं जुहुयात्स्वर्गकाम इत्याद्युपदेशः । अथवा हिताहितप्राप्तिपरिहारार्थत्वात्सर्वोपदेशानां तदभावात् क्रीडितमेवास्त्विति इदं बालकादिग्रहणवत् तज्ज्ञानविरहितस्योपदेशं श्रवणग्रहणधारणतर्कानुमानाद्यनानुबन्ध्येव स्यादितीदमर्थप्रदर्शनार्थ द्वितीयमुदाहरणम् ।
उपदेशादेव न ज्ञानयोग इति चेदयुक्तम् , उभयथाऽपि पौरुषेयत्वाभारतरामायणादिवदप्रामाण्यम् , अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् सांख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा।
(उपदेशादेवेति) स्यान्मतम् पुरुषस्यातीन्द्रियार्थदर्शनशून्यत्वात् स्वर्गापूर्वकर्मसम्बन्धज्ञाने पूर्व विज्ञानकारणाभावाद्वन्ध्याया दौहित्रस्मरणवद्रव्यगुणरसवीर्यविपाकादिज्ञानस्यानुमानं पूर्व विज्ञानकारणं न सम्भाव्येत तस्मादुपदेशादेवाग्निहोत्रकर्म स्वर्गफलाभिसम्बन्धादिज्ञानमिति, एतच्चायुक्तम् , 10 उभयथाऽपि पौरुषेयत्वात्, दृष्टादृष्टार्थत्वेनोपदेशज्ञानस्यापि पौरुषेयत्वात् , ज्ञानतो वचनतश्च पुरुषाधीनत्वादिति वा, यथा त्वमतीन्द्रियेष्वर्थेषु पूर्व विज्ञानकारणाभावं मन्यसे पुरुषस्य पुरुषज्ञानवचनानां तद्विषयाणाञ्चाप्रामाण्यं रागादियोगात्, तथाऽसर्वज्ञोपदेशस्योपदिष्टज्ञानस्य श्रोतृज्ञानवचनयोश्च ज्ञानत्ववचनत्वाभ्यां पौरुषेयत्वानतिवृत्तेर्भारतरामायणादिवदप्रामाण्यम् । अग्निहोत्राद्युपदेशस्यातीन्द्रियार्थस्य प्रामाण्यवत् सांख्याद्यतीन्द्रियार्थोपदेशप्रामाण्यं वा ।।
..15 वानरमूलिकादिपरिज्ञानवत्तद्विषयं तज्ज्ञानं स्यात् सर्वोषधादिविषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थविषयैकपुरुषविज्ञानाभ्युपगमो वाऽवश्यम्भावी, वेदवचनयोरन्यथाऽनुपपत्तेः ।
(वानरेति) वानरमूलिकादिपरिज्ञानवत्तद्विषयं तज्ज्ञानं स्यान्न तु सर्वोषधादिविषयैकपुरुषज्ञानम् , अतो वैद्यकादिष्वपि पूर्वज्ञानकारणाभावः । तद्विषयैकपुरुषविज्ञानवदतीन्द्रियग्राह्यसर्वपदार्थ-20 विषयैकपुरुषविज्ञानाभ्युपगमो वाऽवश्यम्भावी, किं कारणम् ? वेदवचनयोरन्यथानुपपत्तेः, पुरुषमन्तरेण, वेदनं वेदो ज्ञानमित्यर्थः, तेन च ज्ञानस्य वचनं-परप्रत्यायनञ्च, तदुभयं-प्रत्ययनं प्रत्यायनञ्च दृष्टार्थोपदेशः, स्वर्गापूर्वतृह्यादेदृष्टादृष्टार्थत्वात् । तादृशोपदेशस्य न केवलमघटितार्थत्वमपि त्वनिष्टार्थतापील्याह अथवेति। विज्ञानं विज्ञानपूर्वकमिति नियमाभावमाह स्वर्गेति, वर्गः अपूर्वमदृष्टं यागव्यापारो यागादिकर्म चैतेषां परस्पर कार्यकारण. भावलक्षणसम्बन्धज्ञान इत्यर्थः । एतेभ्यो द्रव्यादिविपाकपरिणामेभ्यो स्वर्गादिफलं भवतीत्यनुमानासम्भवादुपदेशादेव तज्ज्ञान-25 मिति भावः, उभयथापीति । दृष्टार्थमिदमदृष्टार्थमिदमिति विज्ञाय केनचिदुपदिष्टत्वात् पौरुषेयत्वं श्रोतुर्वा इदम्प्रथमतयोपदेशश्रवणात्तथाज्ञानोत्पतेः पौरुषेयत्वं वक्तुश्च तथाज्ञानाद्वचनाच, पूर्वपूर्वविज्ञानानां कारणत्वे ह्यपौरुषेयत्वं स्यादिति भावः । असर्वज्ञोपदेश उपदिष्टं ज्ञानं श्रोतुः ज्ञानं वचनचाप्रमाणम् , ज्ञानत्वाद्वचनत्वाद्वा, अतीन्द्रियार्थोपदेष्ट्रसर्वज्ञोपदेशादिवत् । तादृशोपदेशादीनां भारतरामायणादिवत् पौरुषेयत्वमित्याशयेनाह यथेति । भारतादीनामप्यतीन्द्रियार्थेषु तत्कर्तुः रागादिसम्भवे. नाप्रामाण्यं विज्ञेयम् । अथाप्यमिहोत्राद्युपदेशस्य प्रामाण्ये सांख्यादिशास्त्रोपदेष्टणामतीन्द्रियार्थोपदेशोऽपि प्रमाणं स्यादित्याह 30 अग्निहोत्रादीति । तस्माद्वानरस्य यथा मूलिकादिपरिज्ञानं तथा यत्किञ्चिदोषधिविषयमेव वैद्योपदेशज्ञानं स्यात् न तु सर्वोषधादिविषयमेकपुरुषज्ञानं स्यादिति तत्रापि पूर्वविज्ञानकारणाभावः प्रसक्तः तथा च तस्याप्यपौरुषेयत्वं स्यादिति तत्र सर्वोषधिविषयैकपुरुषज्ञानस्याङ्गीकारेऽतीन्द्रियग्राह्यसर्व विषयैकपुरुषविज्ञानाभ्युपगमो वेदेऽपि खीकार्य इति पौरुषेयत्वमेव तस्येत्याहबानरमूलिकादीति । हेतुमाह-वेदेति, पुरुषमन्तरेण वेदनं ज्ञानं पुरुषमन्तरेण च ज्ञानस्य वचनं पर प्रतिपादनमेत
द्वा० न०१८
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org