________________
द्वादशारनयचक्रम्
[विधिविध्यरे नोपपद्यते तयोः पुरुषसमवायित्वात् । उक्तञ्च 'रूपविबन्धः सम्बन्धः प्रामाण्यं प्रत्ययः क्रिया । शब्दस्य पुरुषाधीना ज्ञानं वा नान्यथाऽऽत्मनः ॥' इति, औषधोपदेशाज्ञानवदमिहोत्राशुपदेशाज्ञानं दशानवत्तदपि वा प्रमाणान्तरगम्यमिति । एवं तावत्कियोपदेशमभ्युपगम्य दोष उक्तः ।
अनभ्युपगम्यापि6 उपदेशाप्रसिद्धिरपि चैवं भवतः, सर्वस्योपदेशस्य सांख्याधुपदेशवल्लोकतत्त्वान्वेषणाहते सम्भवाभावात् ।
(उपदेशेति) त्वन्मतेनैवेति वाक्यशेषः । उपदेशो व्याख्या, असौ च व्याख्या पदविषया वाक्यविषया प्रमाणविषया तद्वस्तुविषया वा वेदव्याकरणसांख्यादिशास्त्रविकल्पिता यथावं प्रक्रियाभिः, तत्र यथा सांख्यादिप्रक्रियाभिर्वस्तुतत्त्वं घटादेर्लोकतत्त्वान्वेषणपरया व्याख्यया विना नाधिगम्यतेऽत10 स्तथा व्याख्यायते, एवमग्निहोत्रादिसंज्ञासंज्ञिसम्बन्धव्युत्पादनेन व्याख्यायते प्रकृतिप्रत्ययादिविभागेन, पदविषयं वाक्यविषयं प्रमाणविषयश्च प्रत्यक्षानुमानागमाद्यभ्युच्चयविकल्पाङ्गाङ्गिभावविकल्पादिलोकतस्वान्वेषणमन्तरेण नाधिगन्तुं शक्यमित्युपदेशस्तत्त्वान्वेषणपरः सर्वः प्रवर्त्तते, तत्र यथा सांख्याधुपदिष्टार्थेऽवशक्यप्राप्तिरुपदेशानर्थक्यश्च तथा वेदव्याकरणमीमांसाधुपदेशानामपीत्युपदेशाप्रसिद्धिः।
अथ लोकतः तत्त्वान्वेषणपराणां तेषामुपदेशानां शक्यप्राप्त्यर्थोपदेशसाफल्ये शक्येते 18क: पराभ्युपगमे प्रद्वेषः? लोकतत्त्वान्वेषणपरत्वानतिवृत्तौ तर्कशास्त्रविचारविज्ञानसाफल्यं वा।
(अथेति) इहापि च यथा लोकत एव प्रत्यक्षानुमानगम्यघटपटादितत्त्वपरिच्छेदः शक्यते कर्तुम् , एवं पदवाक्यप्रमाणपरिच्छेदोऽपि शक्यो घटादिपदाच्छब्दार्थप्रत्ययविषयस्य लोकत एव वर्णानुपूादिनियतवाच्यवाचकप्रत्ययाव्यभिचारस्य प्रसिद्धेः, एवं वाक्ये प्रमाणे च योज्यम् । उक्त
'प्रमाणानि प्रवर्तन्ते विषये सर्ववादिनाम् । संज्ञाभिप्रायभेदात्तु विवदन्ते तपस्विनः ॥ इति, तस्मादु20 पदेशानां त्वन्मतेनैव सर्वेषामप्रामाण्यसिद्धिः, लोकतत्त्वान्वेषणपरत्वे सत्यशक्यप्राप्तयफलत्वेनाभ्युपगत
दुभयं खज्ञानपरज्ञापनलक्षणं पुरुषेण विना न सम्भवतीति भावः । तत्रामियुक्तोक्किं दर्शयति-रूपविबन्ध इति, शब्दस्य रूपनिष्पत्तिः वाच्यवाचकभावसम्बन्धः तत्प्रामाण्यं शाब्दबोधः परप्रत्यायनार्थ शब्दोच्चारणक्रिया च पुरुषाधीनैव नान्यथा तथाऽऽत्मनः-खस्य तज्ज्ञानमपीत्यर्थः। दोषान्तरमाह-औषधोपदेशेति, यथौषधोपदेशोऽज्ञानं न प्रमाणान्तरगम्यं
तथाऽमिहोत्राघुपदेशोऽपि स्यात् , ओषधोपदेशस्य प्रमाणान्तरगम्यत्वे वाऽग्निहोत्राद्युपदेशोऽपि तथा स्यादविशेषादिति भावः, 25 दोषः-उपदेशासम्भवपौरुषेयत्वाप्रामाण्यादिदोषः । उपदेशा अप्रमाणाः लोकतत्वान्वेषणपरत्वे सत्यशक्यप्राप्त्यफलत्वात् सांख्यादिशास्त्रकारोपदेशवदिति साधयितुमाह-उपदेशेति, व्याख्यालक्षण उपदेशः तत्र च त्रेधा पुरुषानुप्रवेशो भवति यतः पौरुषेयत्वं स्यात् पदपदार्थसम्बन्धद्वारेण वाक्यवाक्यार्थसंबन्धद्वारेण ग्रन्थतश्च, तथा प्रमाणतश्च, एवं क्रियमाणं व्याख्यान लोकतत्त्वाविरोधेनैव भवेन त्वन्यथेत्याशयेनाह-असौ चेति । तद्वस्तुविषया-प्रमेयविषया । प्रमाणविषयश्चेति, व्याख्यानमिति शेषः। प्रत्यक्षेति, प्रमाणानां क्वचिद्व्याख्याने समुच्चयेन कचिद्विकल्पतः कचिदङ्गाङ्गिभावेन प्रवृत्तिः तथैव 30 लोकतत्त्वानामन्वेषणात्, अन्यथा वस्तुतत्त्वाधिगमो न सम्भवतीति भावः । तत्र तत्त्वान्वेषणं दुःशकं निष्फलम्च, को वैतद्वेद किंवानेन ज्ञातेनेत्युक्तेः तथा चोपदेश एवाप्रसिद्ध इत्याह-तत्रेति । यद्यग्निहोत्राद्युपदेशानां लोकतत्त्वान्वेषणपराणां सुशकत्वं सफलत्वचेष्यते तर्हि सांख्याधुपदेशादीनामपि तथात्वं दुर्वारमित्याह-अथ लोकतः इति । पदपदार्थप्रत्ययस्य वाच्यवाच. कभावसम्बन्धज्ञानाव्यभिचारात् पदपदार्थपरिच्छेदो लोकत एव सुशक इत्याह-एवमिति । उपदेशानां सुशकत्वे सफलत्वे वेत्यर्थः । सर्ववादिप्रमाणानां विषयेष्वविशेषेण प्रवृत्ती प्राचां सम्मतिमाह-प्रमाणानीति । उपसंहरति-तस्मादिति, लोक
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org