________________
अग्निहोत्रवाक्यपरीक्षा] न्यायागमानुसारिणीव्याख्यासमेतम् त्वात् सांख्यादिशास्त्रकारोपदेशवदतो दृष्टादृष्टार्थक्रियोपदेशे पदवाक्यप्रमाणविषयव्याख्यावैयर्थ्यप्रसगान्न वेदशास्त्रोपदेशसिद्धिः । लोकतत्त्वान्वेषणपरत्वानतिवृत्तौ तर्कशास्त्रविचारविज्ञानसाफल्यं वा।
उपदेशाप्रसिद्धौ परीक्षकत्वहानिः, पदवाक्यप्रमाणविषयाव्यभिचारज्ञानार्थत्वात् परीक्षायाः । स व त्वन्मतेनैवैवं नावतिष्ठते, लोकतत्त्वान्वेषणानात्मकत्वात् ।
(उपदेशेति) परीक्षैव चोपदेशः परीक्षाव्याख्ययोरनर्थान्तरत्वात् । स चोपदेशस्त्वन्मते- 5 नैवैवं नावतिष्ठते लोकतत्त्वान्वेषणानात्मकत्वात् । ।
स्यान्मतं पदवाक्यप्रमाणानामपि सामान्यविशेषादिघटादिजगत्तत्त्वविचारवदव्यवस्थैव, प्रमाणानामपि प्रमाणान्तराधिगम्यत्वेऽनवस्थादोषप्रसङ्गादित्यत्रोच्यते प्रमाणानवस्था तावनास्ति चन्द्रार्कमणिप्रदीपादिवत् स्वपरावभासित्वात् प्रमाणानाम् ,, तस्यापि त्वनवस्थाने . क्रियाविधाय्यपि शास्त्रं नावतिष्ठेत तस्यापि लोकतत्त्वान्वेषणात्मकत्वानतिवृत्तेरप्रमाणादिति 10 तत्प्राप्यपुण्याघभावः।
__ स्थान्मतमिति, पदादीनामभ्युपगम्यापि त्वन्मतेनानवस्थामाह तस्यापीति, जगत्तत्वल प्रमाणविचारस्य वा, इतिशब्दो हेत्वर्थे, अयं हेतुः क्रियाविधायिशास्त्रानवस्थानादिति, अतस्तत्माप्यपुण्याद्यभावः, क्रियाविधायिशास्त्रोपदिष्टक्रियाभिव्यङ्ग्यापूर्वाभाव इत्यर्थः । कतमत् पुनस्तक्रियाविधायिशास्त्रं ? उच्यते
16 - यथाऽग्निहोत्रं जुहुयात् स्वर्गकाम इति, इदं तु पुनः किं विधिरनुवादोऽर्थवादः । उच्यते, विधिः, अप्रसिद्धार्थविषयविधायित्वात् , अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयत इत्युपायस्यापूर्वत्वात्तदभिव्यन्यापूर्वाभावः, त्वन्मतादेवोक्तवत् ।
तत्त्वान्वेषणाइते सम्भवाभावादित्यर्थः । दृष्टादृष्टार्थेति, दृष्टार्थेऽदृष्टार्थे च क्रियोपदेशे तन्दुलान् पचेद्भोक्तुकामः, अमिहोत्रं जहयात्स्वर्गकाम इत्यादिरूपे पदतो वाक्यतः प्रमाणतो वा क्रियमाणो विचारोऽनर्थक एव स्यात्, लोकतत्वान्वेषणपरत्वाभा-20 वादिति, यदि च तेषामुपदेशानां लोकतत्त्वान्वेषणपरत्वाव्यभिचारित्वमिष्यते तर्हि तर्कशास्त्रादीनामपि तथात्वं स्यादित्याहलोकतत्त्वेति । ननु पदवाक्यप्रमाणानामपि नास्ति व्यवस्था तस्याः प्रमाणान्तरेण कर्त्तव्यतया तस्यापि चाव्यवस्थितस्य व्यवस्थापकत्वासम्भवेनान्यप्रमाणान्तरापेक्षयाऽनवस्था स्यात्, प्रमाणानां परतो व्यवस्थितत्वादित्याशङ्कते-स्थान्मतमिति। प्रमाणानि खपरावभासीनि नातोऽनवस्था, व्यवस्थितत्वात्, अन्यथा क्रियाविधायिशास्त्रस्याप्यनवस्थितत्वात्तत्कियाभिव्य धर्मलक्षणमपूर्वमपि न भवेदित्युत्तरयति प्रमाणानवस्थेति । यागादिकर्मनिर्वर्त्यमपूर्व नाम धर्ममाचक्षते वृद्धमीमांसकाः,25 यागादिकमैव शाबरा ब्रुवते, वाक्यार्थ एव नियोगात्माऽपूर्वशब्दवाच्यो धर्मशब्देनोच्यत इति प्राभाकरः। अग्निहोत्रमिति, अत्र मीमांसकाः विधिवाक्यानि षड्विधानि, यथाऽमिहोत्रं जुहोति, अग्निहोत्रं जुहुयात् खर्गकामः, दधा जुहोति, दधेन्द्रियकामस्य जुहुयात्, सोमेन यजेत, सौर्य चळं निर्वपेत् ब्रह्मवर्चसकाम इति, प्रमाणान्तरानधिगतार्थविषयत्वं विधेलेक्ष. णम् । तत्र प्रथमविधावग्निहोत्राभिन्नहोमकरणिकाभावनेति बोधः सर्वत्र विधी भावनायामाख्यातार्थेऽसति बाधके धात्वर्थस्यैव करणत्वेनान्वयः, द्वितीयाविभक्तिश्च करणत्वमेव लक्षणया बोधयति, अत्र द्रव्यदेवतयोः प्रमाणान्तरेण प्राप्तिः । द्वितीयविधी 30 त्वमिहोत्राभिन्नहोमकरणिका खर्गभाव्यका भावनेति बोधः, अत्रापि धात्वर्थस्य करणत्वेनान्वयः परन्तु भावनायां फलविशेष. सम्बन्धोऽधिको विद्यते । अत्राग्निहोत्रपदं भाष्यकृता यस्मिन्नन्नये होत्रं होमतदग्निहोत्रमिति व्यधिकरणचतुर्थीबहुव्रीहिमाश्रित्य वर्णितम्, न्यायसुधाकृता अग्नहोत्रं यस्मिन्निति षष्ठीबहुव्रीहिः। अत्रोभयत्रापि लक्षणा, खण्डदेवश्च होत्रपदस्य भावव्युत्पत्त्या
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org