________________
द्वादशारनयचक्रम्
[विधिषिभ्यरे ... (यथेति) इति-एतच्छास्त्रम् , कथमुपलक्ष्यते विधिरिति ? अप्रसिद्धार्थविषयविधायितया लक्ष्क्ष्यते, अत्राप्रसिद्धमग्निसम्प्रदानं हवनं विधीयते, स्वर्गस्य सुखसंज्ञस्य तत्प्राध्याश्रयस्य विशिष्टदेशाद्यामकस्य वा तदभिलाषस्य च कर्तरि सिद्धत्वात् स्वर्गावाप्तावुपायोऽग्निहवनमित्युपायस्यापूर्वत्वात् । कथं पुनस्तक्रियाभिव्यङ्ग्यापूर्वाभावः ? त्वन्मतादेवोक्तवत् । 5. अतश्च तस्य विधेरसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभावः, आरोग्यार्थिडित्थभक्षणोक्तिवत् , एवं त्वदुक्तिक्रिये अशक्यप्राप्त्यनर्थे चेति सांख्यादिविवेकयत्नतुल्यत्वं तवापि ।
- (अतश्चेति) अतश्च तर्कोत्थापितलोकतत्त्वज्ञानानपेक्षत्वात्तस्य विधेरसंव्यवहार्यत्वात्तद्विहितक्रियाफलसम्बन्धाभावः, दृष्टान्त आरोग्यार्थिडित्थभक्षणोक्तिवत् , यथाऽऽरोग्यार्थिनि पुंसि डित्थं 10 भक्षयेत्युक्तिस्तक्रिया च विफले अप्रसिद्धत्वादेवं त्वदुक्तिक्रिये अशक्यप्राप्त्यनर्थे चेत्यशक्यप्राप्त्यादिमत्सांख्यादिविवेकयत्नतुल्यत्वम् , तवापि ।
अथोच्येत मा मंस्थाः सांख्यादितुल्यत्वमेतस्य, वैधात् कर्त्तव्यतां विधायेतिकर्तव्यताविधानात् , तद्यथा अग्निष्टोमादिसंस्थानविशेषैर्द्रव्यगुणदेवताकर्तृकर्मकालदेशादिविशेषैश्च 'वसन्ते ब्राह्मणो यजेत ग्रीष्मे राजन्यः शरदि वा यजेत वैश्यः, होलाको प्राज्ञ उदृषभयज्ञ 10 उदीच्यैर्वायव्यं श्वेतमालभेत भूतिकामो वायुर्वै क्षेपिष्ठा देवता वायुमेव स्वेन भागधेयेनोपधा
वति स एवैनं भूतिं गमयती'त्यादि त्वया प्रतिपत्तव्यमिति शिष्यमनुशास्ति तत उत्तरकालमेवं प्रकारमेवाग्निहोत्रं नामकर्म भवति, विशेषविधानार्थप्रतिपत्तिबलेन च सुसिद्धा भविप्यति तस्य शिष्यता इतरार्थाविचारेणेति ।
अथोच्यतेत्यादि, अत्राह-मा मंस्थाः सांख्यादियत्नतुल्यत्वमेतस्य, किं कारणम् ? वैधात्, 20 तद्यथा-कर्त्तव्यतां विधायेतिकर्तव्यताविधानात् , तत्राग्निहोत्रं जुहुयादिति कर्त्तव्यतयाऽमिहोत्रं विधी
यते ततः पुनरुत्तरत्र विशेषेतिकर्तव्यता विधीयते तदग्निहोत्रमेवमेवश्च कर्त्तव्यमिति, तद्यथाऽमहोत्रं होम इत्यग्निहोत्रमित्याह । सर्वत्राग्निहोत्रपदं तत्प्रख्यन्यायान्नामधेयपरम् , खण्डदेवमतेनोक्तवाक्यादग्निदेवताकहोमत्वप्र. कारकहोमविशेष्यकप्रतीतिजनकत्वेन नामधेयार्थस्याग्निदेवताकहोमत्वस्य धात्वर्थताच्छेदकत्वम्, तत्र च जुहोतिपदेनैव विशेष्याभिधानाद्विशेष्यपरमप्यग्निहोत्रपदं विशेष्यांशेऽनुवादकम् , नीलोत्पलयोरिव प्रवृत्तिनिमित्तभेदाद्भिन्नप्रवृत्तिनिमित्तकत्वे सत्येकार्थवृत्ति25 त्वलक्षणं सामानाधिकरण्यं बोध्यम् , तत्प्रख्यन्यायश्च यः शब्दो यत्र कर्मणि यद्गुणसम्बन्धं बोधयति स चेत्सम्बन्धः शास्त्रान्तरप्रति..पनस्तदा तस्य शब्दस्य तन्नामधेयत्वमिति, तत्राग्निहोत्रशब्देऽग्निसम्बन्धोधकं शास्त्रान्तरं यदग्नये च प्रजापतये चेत्याग्रस्तीति तनामधेयमिति । किमत्र विधीयत इत्यत्राह-अत्राप्रसिद्धमिति, अत्राग्नये होत्रमिति चतुर्थीतत्पुरुषमाश्रित्याग्निसम्प्रदानकहवनविधिरुक्तः । अप्रसिद्धोऽर्थः प्रमाणान्तरैरसिद्धः, स्वर्गादयस्तु सिद्ध एव न विधेय इत्याह-स्वर्गस्येति । किं विधिरिति, मनब्राह्मणात्मकवेदस्य योऽयं ब्राह्मणभागस्तस्य विध्यनुवादार्थवादात्मकतया तदाश्रयेण प्रश्नत्रयम् । कर्त्तव्यतां विधायेति, 30 आख्यातार्थभावनायाः किं भावयेत् केन भावयेत् कथं भावयेदियंशत्रयापेक्षित्वेन समानपदोपात्तहोमादेः करणत्वेन खर्गा. देर्भाव्यतया सन्निधिपठिताश्रूयमाणफलकक्रियाजातस्येतिकर्तव्यतयाऽन्वय इति कर्तव्यताविधानोत्तरकालमितिकर्तव्यताविधा. नम्, सा चेति कर्तव्यता क्रियाया एव न द्रव्यगुणयोः सिद्धत्वात् , कर्त्तव्यस्य इति-प्रकारः इतिकर्तव्यता, प्रकारश्च सामान्यमेदको विशेष एव, कर्तव्यस्य च विशेषः कर्त्तव्य एव भवति, न हि कुठारेण छिन्द्यादित्यत्र कथमित्याकांक्षायां हस्त इति केवलमुच्चार्यमाणोऽपि हस्तोऽन्वयं प्रामोति, किं तर्हि ? हस्तेनोद्यम्य निपात्येत्युच्चार्यमाणे उद्यमननिपतने एव, तद्वारा
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org