________________
बुद्धवचनाप्रामाण्यम् ]
न्यायागमानुसारिणीव्याख्यासमेतम्
दनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति, ततः किं जातं ? शून्यशून्यप्रत्युपादनवदसद्विषयत्वं दोषजाताया अपि तस्याः कल्पनायाः, ततश्च निर्मूलकल्पनामात्रसत्यत्वालौकिकदृष्टसलिलादिबीजमृगतृष्णिकादिकल्पनाभ्योऽपि पापीयस्य प्रत्यक्षानुमानकल्पने युष्मदीये ।
"
( अथवेति ) यथा शून्यं शून्येन गुणितं जातं शून्यमेवेति यथा गणकानां क्वचित्कल्पनमसद्विषयं शिष्यमतिपरिकर्मार्थं तथेदमसद्विपयम्, ततश्चासद्विषयत्वान्निर्मूलकल्पनामात्रसत्यता - निर्बीजा 5 समुदायकल्पना तद्धर्मकल्पना च, निर्मूले द्वे अपि कल्पने, ते प्रमाणमस्य तन्मात्रं, तन्मात्रमेव सत्यं नान्यत्किञ्चित् सत्यं भवत्कल्पिते प्रत्यक्षे, तस्मान्निर्मूलकल्पनामात्रसत्यत्वाल्लौकिकदृष्टसलिला दिबीजमृगतृणादिकल्पनाभ्योऽपि पापीयस्यैौ प्रत्यक्षानुमानकल्पने युष्मदीये ।
यच्चाप्यभिहितमभिधर्मकोशे यत्तत्रानेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यत इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञान समङ्गिनी लविज्ञानोदाहरण संभाव - 10 नवाक्यवन्नोपपद्यत एवेत्युपपादयिष्यन् न पश्यतीदं पुनर्बुद्धवचनं न प्रमाणमिति ।
( यच्चेति) अभिधर्मकोशे निदर्शितं तद्विचार्यम्, तत्रानेकः प्रकारः प्रकृष्टः कारः, कोऽसौ ? अन्योऽन्यातुल्यत्वम्, केन प्रकारेण भिन्नं रूपायतनं ? नीलपीतादिप्रकारभिन्नं तत्र तस्मिन् रूपायतने नैकप्रकारभिन्ने कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पाद्यते, कदा पुनरेकेन द्रव्येणोत्पाद्यते ? यदा नीलादितत्प्रकारव्यवच्छेदो भवति, नीलमेवेदं न पीतादि, पीतमेवेदं न नीलादीत्येक प्रकारव्यवच्छेदो यदा 15 भवति तदा चक्षुर्विज्ञानमेकेन द्रव्येणोत्पाद्यते । कदाचिदनेकेन, कदा पुनरनेकेन ? यदा तत्प्रकारव्यवच्छेदो न भवति, नीलादिप्रकारव्यवच्छेदो यदा न भवति तदा चक्षुर्विज्ञानमनेकेन द्रव्येणोत्पाद्यते । अस्मिन्नर्थे उदारणमप्याह - दूरान्मणिसमूहमित्यादि, विप्रकृष्टदेशस्थितं मणीनां समूहमनेकवर्णसंस्थानं अनेन वर्णेन संस्थानं - व्यवस्थानमस्य तमनेकवर्णसंस्थानं पश्यतः अनेकवर्णमनेकसंस्थानच पश्यत इति वा यो नीलपीताद्यनेकवर्णो वृत्तत्र्यस्राद्यनेकसंस्थानो वञ्चेन्द्रनीलमरकत सस्यकपुष्य रागपद्मराग - 20 स्फटिकादिमणिसमूहोऽनेकप्रकारभिन्नः तं पश्यतः पुरुषस्य दूरान्न व्यवच्छेदो भवति, आरात्तु व्यव - .: च्छेदो भवति यदयमिन्द्रनीलो वज्रादीनामन्यतमो वेति ।
=
तत्र कल्पनापोढस्वलक्षणविषय प्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन यत्तहीदं सञ्चिताल -
पापीय इत्याह- ततः किं जातमिति । मृगतृष्णिकादिकल्पनासु किञ्चिन्मूलमस्ति साधारणधर्मदर्शनादयः, अत्र तु न किश्चिदिति तेभ्योऽपि पापीयस्त्वमिति भावः । अनेकप्रकारभिन्न इति, अनेकप्रकारभिन्ने रूपायतने तत्र कदाचिदेकेन 25 द्रव्येण चक्षुर्विज्ञानमुत्पद्यते कदाचिदनेकेन यथा दूरान्मणिसमूहमनेकवर्णसंस्थानं पश्यतो न व्यवच्छेदो भवत्यारात्तु भवति, अयमिन्द्रनील इत्यादीत्यभिधर्मकोशे निदर्शितमिति ज्ञायते वचनमिदं प्रत्यक्षलक्षणस्यानुषङ्गेणागतं एतदपि न प्रमाणम्, अनेकप्रकारभिन्नरूपायतनं पश्यतो यच्चक्षुर्विज्ञानं भवति तस्यालम्बनं समुदाय एवेति कथं खलक्षणविषयत्वं तस्य कथं वैकद्रव्येण चक्षुर्विज्ञानं तस्यातीन्द्रियत्वादिति चक्षुर्विज्ञानसमङ्गी नीलं विजानातीत्यादिवदतस्तव कथं तद्बुद्धवचनं प्रमाणं स्यादिति भावः । अन्योऽन्यातुल्यत्वमिति । नीलादिपरमाणूनां परस्परमतुल्यत्वात् तन्मते कस्यापि परमाणोः केनापि तुल्यत्वं नास्ति, 30 सजातीयविजातीयव्यावृत्तस्वभावताङ्गीकारादिति । नीलादितत्प्रकारव्यवच्छेदः - नीलादिरूपेण वास्तविकवस्तुप्रकारेण वस्तुनो निर्णय इत्यर्थः । अनेकेन वर्णेन संस्थानं व्यवस्थानमस्येति व्युत्पत्तौ नीलादिव्यतिरिक्तवस्तुस्वीकार आपद्यत इति व्युत्पत्त्यन्तरमाह - अनेकवर्णमिति । कल्पनापोढं खलक्षणविषयं प्रत्यक्षमिति प्रत्यक्षलक्षणमाक्षेप्तुं पृच्छति यत्तहृति,
द्वा० न० १२
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org