________________
द्वादशारनयचक्रम्
[विध्यरे दीनाञ्च कल्पनात्मकत्वादनथे-यावत्कल्पनात्मके सञ्चयेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी, कल्पनापोहासम्भवात् , तस्मादस्मदुक्तैषा भावना घटते ।
भावना त्वस्येत्यादि, उक्तोपपत्तिबलादेव त्वदुक्ता भावना न ह्यर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति, कथं तर्हि घटत इत्यत्राह-भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित् कचिदप्यर्थे धर्मसंज्ञीति, तद्व्या5 चष्टे-अनर्थे-संवृतिसति समुदाये, अनर्थो हि संवृतिसत्त्वात्समुदायः, तदद्महे तु तद्बुद्ध्यभावात् । यथोक्तम्-'भेदे यदि न तद्बुद्धि'रिति श्लोकः । पतयादिवदिति त्वन्मतेनैव तस्मिन्नसल्लक्षणे समुदाये द्रव्यसन्नीलसंज्ञी-परमार्थसत्परमाणुनीलसंज्ञी, तेषामेवार्थत्वात् । अनर्थेऽर्थसंज्ञीत्येतस्माद्भावनावाक्यादर्थाक्षिप्तमेतल्लभ्यते न त्वर्थेऽर्थसंज्ञीति, तळ्याचष्टे-न त्वर्थ एव द्रव्यसति परमाणुनील एवार्थ संज्ञी भवति,
कस्मात् ? तस्यार्थस्यातीन्द्रियत्वादित्येतत्कारणं पुष्कलमस्यस्मिन्नस्मत्कल्पितभावनावाक्य इति दर्शयति । 13 यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते, न च कदाचित् कचिदप्यर्थे धर्मसंज्ञी, कदाचिदिति समुदायस्यै
वेन्द्रियविषयत्वात्तद्ब्रहणकाले वा इत्वरकाले वा न धर्मसंज्ञाप्यर्थे भवितुमर्हति, अथवा प्रत्यक्षकालेऽनुमानकाले वा, किं कारणम् ? अतीन्द्रियत्वात् , अत्यन्तं सर्वकालं कदाचिदित्यस्य व्याख्यानम् । अग्राह्यत्वात् कस्य ? परमाणुनीलादेः, ततोऽर्थादेतदप्यापन्नमनर्थ एव धर्मसंज्ञीति । तव्याचष्टे-अनर्थ एवा
सति नामादिधर्मसंज्ञापि, किं कारणं ? सञ्चयस्य नामादीनाञ्च कल्पनात्मकत्वादनर्थे यावत्कल्पनात्मके 15 सञ्चयेऽनर्थकल्पनात्मकशब्दादिधर्मसंज्ञी, कस्मात् ? कल्पनापोहासम्भवात् , समुदाये समुदायाश्रयनामादिषु वा नामजात्यादियोजना च कल्पना तदपोहस्तस्य ज्ञानस्य कल्पितसमुदायतन्नामादिविषयस्य न सम्भवत्येव, तस्मादस्मदुक्तैषा भावना घटते ।
अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते अर्थेऽर्थसंज्ञी न, अर्थे-नीलादौ परमार्थसत्यर्थसंज्ञी न भवत्यतीन्द्रियत्वात्तस्य, तुशब्दो विशेषणे, अर्थे धर्मसंज्ञी नेति वर्त्तते यस्तावदर्थ 20 एवार्थसंज्ञी न भवतीति स कुतोऽर्थे धर्मसंज्ञी भवतीति विशेषस्तुशब्दात् , अर्थापत्त्या पूर्वव
समगनस्य चासम्भवादेवेत्यर्थः । सञ्चयं संवृतिसन्तमिति । विज्ञानं हि संवृतिसन्तमसदवस्तुभूतं नीलाभिमतं नीलं रूपं सञ्चयं जानाति न तु वास्तविक कश्चिदर्थमित्यर्थः। पूर्वोक्ता त्वदीया या भावनाऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति सोक्तोपपत्तिबलादेव न हि-न हि घटत इत्यर्थ इत्याह-उक्तोपपत्तिबलादेवेति । अनर्थे संवृतिसतीति, परमाणुनीलानामतीन्द्रियत्वात्
संवृतिसत्यनर्थे एव परमार्थसन्नीलसंज्ञा भवति, नतु कदाचिदप्यर्थे परमाणाविति भावः। पड्यादिवदिति, बलाकादीनां पंक्ति: 25 प्रतिविशिष्टसमुदायलक्षणा तस्या अग्रहे न हि पंक्तिरियमिति विज्ञानं भवति तथैव परमाणूनां समुदायः संवृतिसन्, संबन्धाधीनत्वात् , यथा तंतूनां परस्परसम्बन्धेन पटोऽयमिति व्यवहारः, तत्सम्बन्धाग्रहणे च न पट इति व्यवहारः, तस्मात् समुदायोऽनर्थ इति भावः।नच कदाचिदिति । यथाऽर्थेऽर्थसंज्ञा न भवति तथाऽर्थे धर्मसंज्ञापिन भवति, धर्मसंज्ञा शब्दसंज्ञा, अर्थस्यातीन्द्रियत्वादेव कदाचिदपि शब्दसंज्ञापि न भवतीत्यर्थः, तथाचानर्थे एव शब्दसंज्ञापि भवति, अनर्थस्य सञ्चयस्य कल्पनात्मक
त्वात् तत्रैव कल्पनात्मकनामादिशब्दसंज्ञा तद्विषयञ्च ज्ञानं कल्पनात्मकमेव न तु कल्पनापोढमिति । पूर्वमर्थेऽर्थसंज्ञी न त्वर्थे 30 धर्मसंज्ञीत्यघटितार्थत्वादनर्थेऽर्थसंज्ञी न च कदाचिदर्थे धर्मसंज्ञीति भावना कृता, सम्प्रति अर्थेऽर्थसंज्ञी न त्वर्थे धर्मसंज्ञीति
तद्वाक्यादेव भावना क्रियत इत्याह-अथ वेति । क्वचिदर्थसंज्ञाधर्मसंज्ञे अन्तरेण तनिषेधो न संभवतीत्यर्थीपत्त्याऽनर्थेऽर्थसंज्ञा धर्मसंज्ञा च लभ्यत इत्याह-अर्थापत्त्येति । शून्यं शून्येन गुणितं शून्यमेव भवतीति कल्पनं यथा गणकानां शिष्यमतिसंस्का
तथा कल्पनापोढं प्रत्यक्षमिति कल्पनाया अप्यसद्विषयत्वं निर्मूलत्वञ्च, अत एव मृगतृष्णिकादिकल्पनाभ्योऽपि
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org