________________
वाक्यार्थान्तरकथनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् द्रव्यसतो ह्येतद्रूपं यदन्यनिरपेक्षविविक्तस्वरूपत्वम् , तत्र यथा तद्रसरूपेण गन्धरूपेण वा नास्ति द्रव्यसद्रूपत्वात्तथा नीलस्वरूपेणापि नास्ति तदपि च द्रव्यसद्रूपमाण्याद्यभावे रथाभाववन्नीलान्तररूपाभाववद्वा तदभावेऽपि न भवत्येव । नीलत्वशून्यत्वाद्वा नीलान्तरनीलवत्तदपि परनीलं तद्वदनीलमतः कतरत्तन्नीलं स्याद्यद्विज्ञायेत चक्षुषा चक्षुर्विज्ञानसमङ्गिनेति न नीलं विजानाति चक्षुर्विज्ञानसमगी।
(ते चेति) अनन्यत्वकरस्य जात्यादेरभावादेव वा रूपमिति वा रस इति वाऽत्यन्तभिन्नानां परमाणूनामभेदेन द्रव्यसतां ग्रहणाभावान्न नीलं विजानाति । इतरेतराभावपरमार्थत्वाद्वोक्तन्यायेनैव न नीलं नीलान्तरश्चास्ति, रूपरसादिवदन्यरूपमिति न नीलं विजानातीत्येतदेव संवदतीति सूक्तमिति ।
अत एव चक्षुर्विज्ञानसमगी सञ्चितालम्बन इत्यादिप्रत्यक्षविधेर्वाक्यस्यार्थोऽयमापद्यते नो तु नीलमिति, तस्य सञ्चयस्यासतश्चक्षुषा ग्रहणात् नो तु नीलमेवं भवति परमार्थसत्प-10 रमाणुनीलत्वात् ,
अत एवेत्यादि, अत इत्यनन्तरनिर्दिष्टनीलार्थचक्षुर्विज्ञानसमङ्गनाभावात् , एवेत्यवधारणे वक्ष्यमाणवाक्यार्थापत्तिः, प्रत्यक्ष विधेः-प्रत्यक्षजन्मनो विधायकस्य वाक्यस्यार्थोऽयमापद्यते नो तु नीलमितीति, अत्रेतिशब्दस्य प्रकारार्थवाचित्वादेवं प्रकारो वाक्यार्थ आपद्यत इति, कतमस्य वाक्यस्येति स्फुटीकरणाथ प्रस्तुतमेव प्रत्यक्षलक्षणोदाहरणवाक्यं प्रत्युच्चार्य प्रदर्शयति चक्षुर्विज्ञानेत्यादि, 15 तदेवं चक्षुर्विज्ञानसमङ्गी सञ्चितालम्बनः पूर्वोक्तः सन्तानः, चक्षुर्विज्ञानसमङ्गी सश्चितमालम्बनमस्येति सञ्चितालम्बनः, सञ्चयं संवृतिसन्तं नीलं रूपं. विज्ञानमसदवस्तु नीलाभिमतं जानाति न सत् किञ्चिदित्ययमर्थो जायते, किं कारणं ? तस्य नीलस्य सञ्चयस्यासतश्चक्षुषा चक्षुरिन्द्रियेण ग्रहणात्, नो तु नीलमेवं भवति-एवंप्रकारमतद्रूपं नीलं न भवति, सदेव हि तन्नील न जानाति परमार्थसत् । किं कारणं तन्नीलं न भवतीति चेत् ? परमार्थसत्परमाणुनीलत्वात्-परमार्थसन्तो हि परमाणव 20 एव नीलाः, न सञ्चयस्तस्मान्न नीलं विजानाति चक्षुर्विज्ञानसमङ्गीति ।
___ भावना त्वस्यानर्थेऽर्थसंज्ञी न च कदाचित्वचिदप्यर्थे धर्मसंज्ञीति, अनर्थे-संवृति सति समुदाये द्रव्यसन्नीलसंज्ञी, न त्वर्थेऽर्थसंज्ञी, न त्वर्थ एव-द्रव्यसति परमाणुनील एवार्थसंज्ञी भवति तस्यातीन्द्रियत्वात् । यद्येवमर्थे धर्मसंज्ञी भवतु, नेत्युच्यते न च कदाचित् कचिदप्यर्थे धर्मसंज्ञी, अतीन्द्रियत्वादत्यन्तं सर्वकालं परमाणुनीलादेरग्राह्यत्वात् , ततोऽर्था- 25 देतदप्यापन्नमनर्थ एव धर्मसंज्ञीति, अनर्थ एव-असति नामादिधर्मसंज्ञापि, सञ्चयस्य नामा
द्रव्येण-परमार्थेनाकृत्रिमेनानारोपितेनास्तीति द्रव्यसत्, य एवार्थः सन्निधानासन्निधानाभ्यां स्फुटमस्फुटश्च प्रतिभासं करोति स एव प्रत्यक्षविषयोऽन्यनिरपेक्षविविक्तखरूपः विकल्पविज्ञानेनावसीयमानोऽर्थः सन्निधानासन्निधानाभ्यां स्फुटत्वेनास्फुटत्वेन ज्ञानप्रतिभासं न भिनत्ति, आरोप्यमाणरूपत्वात् तद्धि सकलनीलसाधारणमतस्तत्सामान्यलक्षणं खलक्षणन्त्वसाधारणमिति बौद्धमतम् । समुदितपरमाणूनां रूपमिति वा रस इति वा नीलमिति वा ग्रहणं न सम्भवति, अनन्यत्वकरादेरभावाऽत्यन्त- 30 व्यावृत्तासाधारणपरमार्थत्वाद्वा नीलं न विजानातीत्येव सम्यगित्याह-अनन्यत्वकरस्येत्यादिना । उक्तन्यायेनैवेति, तत्र यथा तद् रसरूपेणेत्यादिमूलोकन्यायेनैवेत्यर्थः । अनन्तरेति, पूर्वव्यावर्णितानुसारेण नीलार्थस्य चक्षुषो विज्ञानस्य
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org