________________
द्वादशारनयचक्रम्
[विध्यरे स्यान्मतं सञ्चयस्येन्द्रियविषयत्वान्नीलात्मकत्वाच्च तस्य नीलं विजानाति इत्येतच्चायुक्तं समुदायस्य चानीलत्वात् , यदि समुदाये संवृतिसति नीलत्वं स्यात् स्यात्तदेवम् , न पुनरभावस्य नीलताऽस्तीति न विजानाति नीलमित्येतदेवात्र सुभाषितमिति । .
__स्यान्मतं न विजानीयान्नीलं यद्येकं परमाणुमतीन्द्रियं पश्यतीति ब्रूयात् , तत्समुदाय वा 5 खपुष्पस्थानीयमिति, किं तर्हि ? तानेव परमाणून प्रत्येकं भिन्नान् संहतान् सर्षपप्रचयवदेकस्थान् पश्यतीत्येतञ्चायुक्तम्
भेदतत्त्वाभिमतप्रत्येकसमुदायपरिग्रहेऽपि न नीलं विजानाति, तेषामितरेतरनीलत्वेनानीलत्वात् , जात्याकारादिना अतद्रूपत्वात् परमार्थसन्नीलपरमाणुरेव ।।
भेदतत्त्वाभिमतेत्यादि, भेदा एव तत्त्वं भेदतत्त्वं, तद्भावस्तत्त्वं, भेदतत्त्वमित्यभिमताः, 10 प्रत्येकं त एव समुदायः, न समुदायप्राधान्यम् , किं तर्हि ? भेदप्रधान एव समुदायः-प्रत्येकसमु
दायः सन् , तत्परिग्रहेऽपि-भेदस्वरूपपरस्परविशिष्टसमुदायपरिग्रहेऽपि शिबिकोद्वाहकन्यायेन प्रत्येकमसामर्थेऽपि तत्प्रधानसमुदाये नीलज्ञानोत्पत्तिहेतुसामर्थ्यमस्त्वित्येतस्मिन्नपि च पक्षे परिगृह्यमाणे नीलाभावान्न नीलं विजानाति, कस्मात् ? तेषामितरेतरनीलत्वेनानीलत्वात् , तानि नीलत्वानि हि प्रतिपर___माणु भिन्नानि स्वाश्रयपरमाणुतोऽन्यत्र न वर्तन्ते, स्वरसोत्पत्तिभङ्गवत्त्वादर्थान्तरासम्बन्धाच्च भावानाम् , 15 तस्मादितरस्य नीलत्वमितरत्र नास्ति, किं कारणं ? अतद्रूपत्वात् , तदेवं रूपं तद्रूपं न तद्रूपमतद्रूपं तद्भावोऽतद्रूपत्वं तस्मादतद्रूपत्वात् , न हि तन्नीलमितरस्य नीलरूपं भवति, यदि भवेत्तदेव तत्स्यात् तद्रूपत्वात् तद्वत्, न तु भवति । अथवा तत् रूपमस्य तद्रूपं, न तद्रूपम् तत्स्वरूपमित्यतद्रूपम् । केन रूपेण ? जात्याकारादिना, न हि तन्नीलमितरनीलरूपं जात्या नीलत्वलक्षणया सामान्यभूतया, आकारेण वा संस्थानविशेषेण वृत्तपरिमण्डलादिना । जातिरूपेणाकाररूपेण वा यत्स्यादनन्याकारयोर्नीलयोः पर20 माण्वोः तस्य तन्मतेन कस्यचिदनुपपत्तेरतद्रूपत्वमन्येन नीलं नीलान्तररूपेण नास्ति तद्वन्नीलान्तरमपि
तद्रूपेण नास्ति, आदिग्रहणात् प्रथमक्षणदृश्यं द्वितीयक्षणदृश्यरूपं न भवति तदपीतररूपं न भवतीति, देशतोऽपि देशान्तरदृश्यं देशान्तरदृश्यरूपं न भवत्यतोऽनन्यत्वकरस्यानुपपत्तेरतद्रूपत्वम् , अनन्यकरत्वस्थानुपपत्तिरत्यन्तव्यावृत्तत्वादर्थस्यति परमार्थसन्नीलपरमाणुरेव ।
ते च परमाणवोऽत्यन्तमितरेतरव्यावृत्तासाधारणरूपाः कस्मात् ? द्रव्यसद्रूपत्वात् , 25 करोति-सञ्चयस्येति । ननु मेदोपसर्जनामेदप्रधानस्य परमाणूनां समुदाय इत्येवंरूपस्य सञ्चयस्य खपुष्पस्थानीयत्वेऽपि
अमेदोपसर्जनभेदप्रधानस्य शिबिकोद्वाहकन्यायेन समुदितपरमाणूनां नीलाकारज्ञानोत्पत्तिहेतुत्वं सम्भवतीत्याशङ्कायामाह-मेदतत्त्वाभिमतेति । समुदिता ये नीलपरमाणवस्तेषु प्रत्येकं नीलत्वसत्त्वेऽपि तावत्परमाणुषु नीलत्वं नास्त्येव, नीलत्वस्य प्रत्येकपर्याप्तत्वात् । एकपरमाणुगतं हि नीलत्वं नान्यपरमाणुषु वर्त्तते, क्षणिकत्वेन द्वितीयादिक्षणगतान् समानक्षणवृत्तीन् वा न याति, अर्थान्तरासम्बन्धखरूपत्वात् , यद्येतन्नीलत्वं परमाण्वन्तरेऽपि स्यादेतत्परमाणुरेव स्यादेतद्रूपवदतःसमुदितपरमाणूनाम30 नीलत्वान्नीलाकारज्ञानोत्पत्तिहेतुत्वं नास्तीत्याह-नीलाभावादिति । एको नीलपरमाणुरन्येन नीलपरमाणुना जातिरूपेण
वृत्तपरिमण्डलादिसंस्थानविशेषेण वा न भवति, तथाविधस्य तन्मतेन कस्यचिदनुपपत्तेरित्याह-अथ वेति । जातिपदेन द्रव्यमाकारपदेन भावो विवक्षितः, आदिना च कालक्षेत्रौ ग्राह्यौ, यत्स्यादिति, अनन्याकारयो लयोः परमाण्वोस्तद्रूपत्वं स्यादित्यर्थः । तस्य- तथाविधस्य । तदपि-द्वितीयक्षणदृश्यमपि, इतररूपं न भवति-प्रथमक्षणदृश्यरूपं न भवति । भत्यन्त. व्यावृत्तवादिति, खलक्षणस्य सजातीयविजातीयच्यावृत्तवादित्यर्थः । तदेवाह-ते घेति । द्रव्यसद्रूपत्वादिति,
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org