________________
वाक्यार्थानुपपत्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् पगमात्-प्रागसश्चिताः परमाणुरूपादयः पश्चात् सञ्चितालम्बनीभूता इति नाभ्युपगम्यते यस्मान्मायासूनवीयैः, अवश्यञ्चैतदेवं भवद्भिरभ्युपगतमेतदिति तदर्थोपदर्शनार्थमाह-आगम एवोक्तं हि वः, हि शब्दो यस्मादर्थे, यस्मादुक्तं वः सिद्धान्ते, किमुक्तं ? संघाता एव संघातान स्पृशन्ति सावयवत्वादित्युक्तम् , 'किं परमाणवः परस्परं स्पृशन्ति ? स्पृशन्तोऽपि किं देशेन देशं स्पृशन्ति सर्व वा संघाता वा संघातान् स्पृशन्तो देशेन वा देशं सर्वं वा स्पृशन्ती'ति परप्रश्नोपक्रमः, तत्र परस्पर्शनिरूपणे इत्यादि, सर्वा- 5 त्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं संघाताः संघातान् देशेन स्पृशन्ति देशमेवेति । यदि परमाणुं स्पृशेद्देशाभावात् सर्वात्मना स्पृशेत् ततश्च तत्प्रवेशेन पिण्डोऽणुमात्रकः स्यात् प्रतिघातत्वहानश्वास्य स्यात्, तथा संघातोऽपीति सर्वात्मना स्पर्शाभावः, अस्पर्शनेऽपि च सप्रतिघत्वाद्यभावः परमाणुषु वाऽविद्यमानः प्रतिघातः सिकताविवासत्तैलं तत्संघातेऽपि न स्यात् , स च दृष्टः संघाते, तस्मान्नास्त्यस्पर्शनं परमाणूनां तत्संघातानाच, तस्मात्संघाता एव संघातान् देशेन स्पृशन्ति, आदिग्रह- 10 णाद्गतिप्रतिबन्धाभावदोषस्तेषां स्यात् , तत एव संघाताभावादालम्बनाभावः स्यादित्यादिदोषापत्तेर्देशस्पर्श एवोपात्तः । सोऽपि च स्पर्शो न सञ्चयाहते सम्भवति कथञ्चिदिति साधूच्यते सन्द्रावातिशयो मायोपम इति ।
___ एवं च नीलं विजानातीति वाक्यं संवदत्यर्थतः केनार्थेन कतमत् ? यत्तूक्तं नो तु नीलमित्येतदेवैकं संवदति नान्यत् किञ्चित् , कदाचिदपि नीलपरमाण्वाकारनियतज्ञानो- 18 त्पत्तिहेतुत्वाभावात् , समुदायस्य चानीलत्वात् ।
(एवञ्चेति) एवं च नीलं विजानातीति वाक्यार्थोऽपि न घटत इत्युक्तम् , एतत्तु तस्मिन्नभिधर्मे प्रत्यक्षलक्षणोदाहरणवाक्यं संवदत्यर्थतः केनार्थेन कतमत् ? यत्तूक्तं नो तु नीलं विजानातीति तु वर्त्तते, अमानोनाः प्रतिषेधे, नीलं न विजानातीति, एतदेवैकं संवदति नान्यत् किञ्चित् , किं कारणं ? कदाचिदपि नीलपरमाण्वाकारनियतज्ञानोत्पत्तिहेत्वभावात् , ये तावत् परमाणवो नीला उच्यन्ते 20 तेषां कदाचिदपि नीलाकारनियतस्य ज्ञानस्योत्पत्तौ हेतुत्वं न भूतं न भवति न भविष्यति चातीन्द्रियत्वादतोऽसौ त्वदभिमतचक्षुर्विज्ञानसमङ्गी न कदाचिन्नीलं विजानातीति सुनिश्चितोपपत्तिकं वचः ।
शक्यते, अत एव च सञ्चयस्यासम्भवात् परमाणुसन्द्रावाभ्युपगमलक्षणोऽतिशयो बौद्धानां मायोपम इत्याशयेनाह-प्रागसञ्चिता इति । नन्वस्माभिः सञ्चयो नाभ्युपगम्यते येन मायोपमता भवेदित्याशङ्कायामाह-आगम एवोक्तमिति । सङ्घाता एवेयेवकारेण परमाणूनां निरासः। यदि परमाणमिति, पिण्डादिलक्षणसंघातो यदि परमाणु सर्वात्मना स्पृशेत्तर्हि तत्र 25 सङ्घातस्यान्तःप्रविष्टतयाऽणुमात्रक एव पिण्डः स्यात् तथा पिण्डस्य प्रतिघातत्वहानं स्यात् परमाणोरप्रतिघत्वादिति भावः । अथ परमाणु सङ्घातो न स्पृशतीति नापि वक्तुं शक्यम्, प्रतिघाताभावप्रसङ्गादेव, नहि प्रत्येकं परमाणुष्वसतः प्रतिघातस्य सङ्घाते सम्भवः सिकतासु तैलमिवेत्याह-अस्पर्शनेऽपि चेति । तथा सङ्घातः सङ्घातं न सर्वात्मना स्पृशति, सङ्घातद्वयस्य दृष्टप्रतिघातानुपपत्तेः, गतेः प्रतिबन्धाभावापत्तेश्च, तथा च व्यणुकादिसंघातानामप्रतिहतगतीनां स्थूलसङ्घातरूपतानापत्त्या प्रत्यक्षादिज्ञानालम्बनत्वानुपपत्तिः स्यादतः सङ्घाता एव सङ्घातान् देशेन स्पृशन्तीति भावः । सञ्चयस्य मायोपमत्वादेव नीलं 30 विजानातीत्युदाहरणवाक्यं केनापि रूपेण कमप्यर्थ न संवदतीत्याह-एवञ्चेति, सञ्चयस्य मायोपमत्वे चेत्यर्थः । चक्षुर्विज्ञानसमझी नीलं न विजानाति इत्येतदेवैकं वाक्यं सङ्गतार्थकमित्याह-यत्तूक्तमिति । अविज्ञाने हेतुमाह-कदाचिदपीति, भीलपरमायाकारनियतस्य शानस्योत्पत्ती भीलपरमाणूनो कालत्रयेऽपि हेतुत्वं न समच्छत इति भाषः । सचयस्य हेतुता निरा.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org