________________
द्वादशारनयचक्रम्
[विध्यरे त्वात् नीलैकत्ववत् , ततश्च गुणसन्द्रावद्रव्यत्वात् सर्वथा पृथिव्यादीनाम् , तेषामपि रूपादिपरमार्थत्वादिति सर्वसर्वात्मकत्वं विशेषकान्तवादिनोऽप्यविशेषकान्तवादिन इव ।। . (ततश्चेति) ततश्च यथाऽत्र सन्द्रावात्सर्वनीलैकता-गुणसन्द्रावो द्रव्यं नार्थान्तरं, संहत्य सर्वनीलगुणा एकतामापन्नास्तथा रूपादिपञ्चकस्यापि-रूपरसगन्धस्पर्शशब्दपञ्चकस्यापि सन्द्रावादेकता, स्यादिति वर्त्तते, कस्माद्धेतोः ? गुणत्वात् धर्मत्वादित्यर्थः, न हि वैशेषिकवद्गव्यगुणभेदोऽस्तीति कृत्वा दृष्टान्तो नीलैकत्ववत् यथा सर्वनीलानां गुणत्वाद्धर्मत्वादेकत्वं तथा रूपरसाद्येकत्वम्, ततश्च सन्द्रावसिद्धौ गुणानां रूपायैक्ये सति को दोषः ? उच्यते गुणसन्द्रावद्रव्यत्वात्-गुणानां संहतिमात्रमेव यस्माइन्यं तस्मात् सर्वथा पृथिव्यादीनां पृथिव्यप्तेजोवाय्वादीनाम् , एकत्वमिति वर्त्तते, किं कारणं ? तदेव रूपाद्यकत्वं कारणम् , तत आह-तेषामपि रूपादिपरमार्थत्वादिति, रूपादय एव पर10 मार्थों गुणसन्द्रावद्रव्यत्वात्तेषाश्चैक्यमतःपृथिव्यप्तेजोवायुघटपटसरित्समुद्रज्योतिरादेः सर्वस्य लोकस्य
तदात्मकत्वादैक्यं प्राप्तमिति, तदुपसंहृयैवाह-सर्वसर्वात्मकत्वमित्यतः साधूच्यते सर्वसर्वात्मवादितैव विशेषकान्तवादिनोऽप्यविशेषकान्तवादिन इवेति ।
अविशेषैकान्तवादिनमतिशेते च विशेषकान्तवादीति तद्व्याचिख्यासुराह
गुणसन्द्रावात्मकद्रव्यत्वापादनाय तु सञ्चयस्य सन्द्रावातिशयो मायोपमः, सञ्चिता15 नामसञ्चितानाश्च प्रागनभ्युपगमात् , अवश्यञ्चैतदेवमभ्युपगतम् , आगम एवोक्तं हि वः
'सङ्घाता एव सङ्घातान् स्पृशन्ति सावयवत्वादिति, तत्र परस्पर्शनिरूपणे सर्वात्मस्पर्शनास्पर्शनयोर्दोषापादनेन निर्धारितं सङ्घाताः सङ्घातान् देशेन स्पृशन्ति देशमेवेति, सोऽपि स्पर्शो न सञ्चयादृते सम्भवति ।
गुणसन्द्रावात्मकद्रव्यत्वापादनाय त्वित्यादि यावन्न सञ्चयादृते संभवतीति, तु20 शब्दो विशेषणार्थः, किं विशिनष्टि ? रूपादीनामैक्यापत्तेः प्राक् पृथक्स्वरूपैस्तैः शब्दादिभिराहकारिकैराकाशाद्यारम्भाभ्युपगमवादिनामविशेषकान्तवादिनां कदाचिदसश्चिताः सन्त्यपि रूपादय इति प्रक्रिया, विशेषकान्तवादिनान्तु सञ्चिततयैक्यापत्तिरेव, पृथगसश्चितरूपाद्यनभ्युपगमात् सर्वसर्वात्मकवादातिशय इति विशिनष्टि । व्याख्यातार्थसन्द्रावातिशयो मायोपमः, सञ्चितालम्बनाभ्युपगमात् रूपादिपरमाणूनामिति ग्रन्थात्तत्सश्चयत्वम् , कारणत्वप्रदर्शनार्थमाह-सचितानामसञ्चितानां प्रागनभ्यु
26 यस्याप्येकता स्यादित्याह-यथाऽति । गुणसमुदायात्मकमेव द्रव्यं न ततो व्यतिरिक्तं धर्मिभूतं द्रव्यमस्ति येन गुणगुणिभावो
भवेदत आह-न हीति । एवमेव पृथिव्यादीनामप्येकत्वं वस्तुतस्तेषां रूपादिसमुदायादभिन्नत्वादेवञ्च सर्वसर्वात्मकत्ववादितैव विशेषवादिनोऽपीत्याह-गुणसन्द्रावेति। अविशेषवाद्यपेक्षया विशेषवादिनोऽतिशयमाह-गुणसन्द्रावेति । अविशेषवादाविशिष्टतामाह-रूपादीनामिति । तन्मते हि प्रकृतेर्महान् महतोऽहङ्कारस्तस्मादेवादशेन्द्रियाणि पश्चरूपादितन्मात्राणि तन्मा
त्रेभ्यः पृथिव्यादिपञ्चभूतानि भवन्ति, तानि च भूतानि गुणसमुदायात्मकान्येव, तथा च कारणभूततन्मात्राणामसञ्चितानां 30 भूतसृष्टिपूर्व सत्त्वमस्ति, विशेषैकान्तवादे चासञ्चितरूपादेः कदाप्यनभ्युपगमाद्विशिष्टतेति भावः । व्यावर्णितः सन्द्रावातिशयो
वस्तुतो मायासदृश एव, असञ्चितानां परमाणुरूपाणां क्वचिदप्यभावात् , सञ्चयश्च त्वदीयग्रन्थेष्वभ्युपगत इत्याह-व्याख्यातार्थेति ।मायोपमत्वे हेतुमाह-सञ्चितानामिति । परस्परं परमाणूना स्पर्शो न सम्भवति, न हि स देशेन, परमाणोनिरषयवस्वात, नापि सर्वात्मना, एकपरमाणुत्वप्रसङ्गात् तस्मात् प्रागसम्चिताः परमाणवस्ततः सवितालासमीभूता इति पहुँन
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org