________________
रूपादीनामेकता ]
न्यायागमानुसारिणीव्याख्यासमेतम्
इदानीं प्रत्येकं त एव समुदिता इत्युभयैकविषयत्वे दोषं वक्तुकामः पक्षान्तरं ग्राहयति---- नीलश्च सञ्चयञ्च प्रत्येकसमुदितकारणत्वाद्विज्ञास्यतीति चेन्न युगपज्ज्ञानासम्भवात् । ( नीलश्चेति ) स्यान्मतं त एव हि नीलपरमाणवः प्रत्येकं शिबिकोद्वाहन्यायेन समुदिताश्च कारणं न चैकैकः, न च समुदायस्तद्व्यतिरिक्तोऽस्तीत्युभयकारणत्वं ज्ञानस्य, तस्माज्ज्ञानोत्पत्तिहेत्वभावासिद्धिरित्येतन्न, युगपज्ज्ञानासंभवात्, द्वयोरर्थयोर्युगपदेव ज्ञानाभावादेकैकस्मिंश्चार्थे युगपज्ज्ञान- 5 योरभावात् भवता यथोक्तम् "विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ॥” इति । स्यान्मतं हस्तेनानेकबदरामलकाद्यर्थग्रहणवत् स्यादित्येतश्चायुक्तम्, ज्ञानस्य क्रियावैधर्म्यात्, ज्ञानं च प्रत्यक्षमुच्यते कल्पनाया ज्ञानव्यभिचारात् प्रत्यक्षं कल्पनापोढं यद् ज्ञानमर्थे रूपादाविति वचनादेवं रूपरूपसमुदाययोर्नानात्वे दोषः ।
"
यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं दाहानुभववत्, तस्मिन्नितरेतरत्वे सर्वसर्वात्म- 10 वादिता, समुदायानर्थान्तरत्वाद्रूपं समुदाय एव, समुदायस्वरूपवत्, समुदायो वा रूपमेव, रूपानर्थान्तरत्वात् रूपस्वरूपवत्, तस्मादैक्ये सति समवायग्रहणे हि प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवालग्रहणेऽपि च सर्वनील केशपाशग्रहणम्, एकनीलात्मकत्वात् समुदायस्य ।
( यद्यपीति) यद्यपि स्यात्तयोरेकज्ञानत्वादेकज्ञेयत्वं - एकं ज्ञानमनयोरित्येकज्ञाने, तयोरेकज्ञानत्वादेक एव ज्ञेयस्तद्भाव एकज्ञेयत्वं, दाहानुभववत्, तस्मिन्नेकज्ञेयत्वे इतरेतरत्वे अन्योऽन्यात्मापन्नत्वे 15 सति सर्वसर्वात्मवादिता, कथं ? समुदायानर्थान्तरत्वात् रूपं समुदाय एव समुदायस्वरूपवत्, समुदायो वा रूपमेव रूपानर्थान्तरत्वात् रूपस्वरूपवत्, एवं रसादिघटादिरूपादिसमुदायान्तराभिमतार्थानामनर्थान्तरत्वात् सर्वसर्वात्मकत्ववादिता, तस्मात् - सर्वपरमाणुनीलानां सयानर्थान्तरत्वादैक्ये सति समवायग्रहणे - युवतिकेशपाशसमुदाये गृह्यमाणे, हिशब्दो यस्मादर्थे, यस्मात्सर्वनीलैक्यं तस्मादेकमेव नीलं रूपमेककेशगतं गृह्येत, एकमेकं प्रति प्रत्येकं प्रत्येकैकनीलग्रहणं स्यात्, एकनीलवालग्रह - 20 णेsपि च सर्वनील केशपाशग्रहणमेकनीलात्मकत्वात् समुदायस्य ।
ततश्च यथात्र सन्द्रावात्सर्वनीलैकता तथा रूपादिपञ्चकस्यापि सन्द्रावादेकता गुण
Jain Education International 2010_04
૮૨
प्रत्येकं नीलाणव एव समुदिताः कारणं भवन्तीति तदाकारज्ञानोत्पत्तिहेत्वभावलक्षणो हेतुरसिद्ध इत्याशङ्कते - स्यान्मतमिति । द्वयोरर्थयोरेकदैकेन ज्ञानेन ग्रहणासम्भवात्, एकैकस्मिंश्चार्थे एकदा प्रत्येकसमुदायविषयविज्ञानद्वयासम्भवान्नीलसञ्चययोर्ज्ञानं न सम्भवति, नीलस्यातीन्द्रियत्वात् सञ्चयस्य संवृतिसत्त्वादित्याशयेनोत्तरयति - युगपदिति । एतदर्थविषयकतदीयगाथामाह - 25 विजानातीति, स्फुटार्था चेयम् । ज्ञानस्येति, ज्ञानस्य ग्रहणक्रियातो विलक्षणत्वादित्यर्थः अथ नीलाणुसमुदाययोर्ना नात् दोषमभिधाय तयोरेकज्ञानविषयत्वादेकज्ञेयत्वमित्येकत्वेऽपि दोषं वक्तुमाह-यद्यपीति । तयोः - नीलतत्सञ्चययोः । इतरेतरत्वे नीलस्य नीलतत्सश्चयरूपत्वेन सञ्चयस्य वा नीलतत्सभ्चयरूपत्वेनैकज्ञेयत्वे सांख्यमतप्रवेशापत्तिरिति भावः । तथात्वेऽपि दोषमाह - तस्मादैक्ये सतीति । कर्मधारयसमासे तत्पदग्रायनीलसंचययोर्ज्ञानात्मकतया तत्रैकज्ञानत्वमसिद्धमिति बहुवीहिमाह - एकं ज्ञानमिति तयोर्भावः एकज्ञानत्वमिति पूरणीयम् । उक्ताशङ्कानिरासायार्थमाह - तस्मिन्निति । अनेककेशपाशग - 30 तानां नीलानामेककेशगतनीलेनामेदादैवये एककेशगतमेव नीलरूपं गृह्येत, एवमेवान्यान्यकेशगतानि नीलरूपाणि पृथक् . पृथकू गृह्येरन्, एकनीलग्रहणेऽपि च सर्वकेशपाशग्रहणं प्रसज्येतेत्याह- यस्मादिति । सर्व सर्वात्मकत्ववादितामेव स्फुटयति- ततश्चेति । सन्द्रवणं सन्द्रायः-समुदायः, यथा प्रकृते नीलसमुदायो नीलमेघ, मीलानर्थान्तरस्वात् तथा रूपरसादीनां समुदा
For Private & Personal Use Only
www.jainelibrary.org