________________
द्वादशारनयचक्रम्
[विध्यरे त्यादि । एवं तावच्चक्षुरिति विज्ञानमिति च द्वयं दूषितं, चक्षुर्विज्ञानसमङ्गीत्यत्र समङ्गित्वमपि दूषयितुकाम आह-न च चक्षुर्विज्ञानं समङ्गतीति, तहारेण पुरुषाख्यसन्तानैकगमनं समङ्गनं ततस्तन्निषेधः, कस्मान्न समङ्गति ? चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवात् , न वा तत्सन्तानोऽन्यत्र सम्भवति, उक्तं हि
"सति सम्भवे व्यभिचारे च विशेषणविशेष्यभाव' इति, सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत 5 इति चेत्तन्न, यस्मान्न सञ्चयो रूपम् , अरूपत्वाच्चक्षुर्विज्ञानसङ्गत्यभावः । स्यान्मतं नीलरूपाव्यभिचारा
देव तदेकगमनात् समङ्गीत्युच्यते चक्षुर्विज्ञानमित्येतञ्चायुक्तम्, तस्याप्यतीन्द्रियत्वाच्चक्षुर्विज्ञानाविषयत्वादरूपत्वम् । अभ्युपेत्यापि त्वन्मतेन यदपि च तद् रूपं रूप्यत इति रूपं चक्षुर्विज्ञानेन किल रूप्यत इति, तद्विषयं स विषयो यस्य तत्तद्विषयं, कि ? तदेकगमनं कस्य ? चक्षुर्विज्ञानस्य, तदपि नास्ति,
कस्मात् ? अविषयत्वात् , अविषयत्वमतीन्द्रियत्वात् प्रस्तुतप्रत्यक्षस्य, अन्येन्द्रियविषयवत् , यथा 10 शब्दोऽन्येन्द्रियविषयश्चक्षुर्विज्ञानेन न समझ्यते तथा तदपि रूपमिति । स्यान्मतं सञ्चयश्चक्षुर्विज्ञानसङ्गतियोग्यः स्यादित्यत्र ब्रूमः, सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गनं न, अस्तीति वर्तते, कस्मादसत्त्वं १ संवृतिसत्त्वात् , खपुष्पवदिति, सङ्गमनाभावसाधम्र्येण दृष्टान्तः, एवं तावद्रूपं चक्षुर्विज्ञानं समङ्गतीत्येतानि दूषितानि ।
इदानीं नीलं विजानातीति च दूष्यम् , तत्र नीलं पदार्थतो दूषितमेव विजानातीति च दूषित16 मेव पदार्थतः रूपचक्षुर्विज्ञानानां संगतेश्च दूषितत्वात् , मा भूदक्षरस्थानं दूषणशून्यमिति कृत्वा वाक्यार्थतोऽपि दूज्यते
नीलविज्ञानसम्बन्धी न भवति तत्सन्तानः, तदाकारज्ञानोत्पत्तिहेत्वभावात्, अदग्धस्य दाहाज्ञानवत् ।
(नीलेति) स आकारोऽस्येति तदाकारं ज्ञानं नीलाकारं तस्योत्पत्तिस्तदाकारज्ञानोत्पत्तिः 20 तस्या हेतुः सञ्चयो नीलरूपं वा स्यात् , उभयमपि तन्न भवत्युक्तविधिनैव, तस्मात्तदाकारज्ञानोत्पत्ति
हेत्वभावात् , को दृष्टान्तः ? अदग्धस्य दाहाज्ञानवत् , यथाऽदग्धस्य दाहानुभवज्ञानं तदाकारज्ञानो. त्पत्तिहेत्वभावान्नास्ति तथा नीलज्ञानसम्बन्धी न भवति तत्सन्तान इति । एवं नीलरूपतत्सञ्चययो. रन्यतरविषयत्वेऽष्टौ दोषा उक्ताः ।
न च चक्षुर्विज्ञान मिति, चक्षुर्विज्ञानं खलक्षणं समन्वेति, विज्ञानस्य स्खलक्षणमात्रे गमनात्, तद्वारेण च सन्तानमपि 26 समन्वेतीति यदुक्तं तदयुक्तं, कुत इति चेत् समङ्गित्वस्य व्यर्थत्वात् , न हि चक्षुर्विज्ञानं रूपं सन्तानं मुक्त्वाऽन्यत्र याति येनाति
प्रसक्तिवारणाय चक्षुर्विज्ञानसमङ्गित्वयोर्विशेषणविशेष्यभावोऽङ्गीक्रियेत, न च सञ्चयेऽपि चक्षुर्विज्ञानमस्तीति तद्वारणाय समङ्गित्वमिति वाच्यम् , तस्यारूपत्वादिति भावः । नन्वव्यभिचारेण नीलरूपेण सह चक्षुर्विज्ञानस्यैकगमनाचक्षुर्विज्ञानसमझीत्युच्यते न व्यभिचारादिवारकं समङ्गित्वमित्याशङ्कते-स्यान्मतमिति, नीलरूपमपि न रूपमतीन्द्रियत्वेन चक्षुर्ग्राह्यत्वाभावादिति समा.
धत्ते-तस्यापीति । तस्य रूपत्वमभ्युपेत्याप्याह-अभ्यपेत्यापीति । यथा खपुष्पे चक्षुर्विज्ञानस्य समङ्गनं नास्ति तथा सञ्च30 येऽपि नास्तीति समङ्गनाभावसाधर्येण खपुष्पदृष्टान्त उद्भावितो न तु संवृतिसत्त्वसाधात् खपुष्पादेः संवृतिसत्त्वस्याप्यन• जीकारादित्याशयेनाह-सङ्गमनाभावेति।पदार्थों वाक्यार्थश्चाक्षरस्थानम् , उभयरूपेणाक्षरेभ्योऽर्थप्रतिपत्तेः, नीलविज्ञानादिपदार्थानां निराकरणेऽपि वाक्यार्थानिराकरणे तत्स्थानं दूषणशुन्यमिति कश्चिदभिमन्येतेति तदपि दूषयितुमाह मा भूदिति । नीलसन्तानो न नीलविज्ञानसम्बन्धी, नीलाकारज्ञानोत्पत्तिहेत्वभावात् , अदग्धस्य दाहाज्ञामवदिति प्रयोगः, नीलसन्तानस्य नीलखरूपेण सञ्चयरूपेण वा तदाकारज्ञानोत्पत्ती निमित्तत्वाभावस्य पूर्वमेवोक्तत्वादित्याशयेनाह-तदाकारक्षानेति। ननु
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org.