________________
विज्ञानस्याविज्ञानत्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् रूपस्याग्राहकत्वाच्चक्षुरचक्षुः श्रोत्रवत् , अथासञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमित्युभयथापि रूपाग्राहित्वाद्धटादिवञ्चक्षुर्नैव चक्षुः स्यात् ।। ___ अतन्मात्रत्वे संवृतिसत्त्वादित्यादि यावदुभयथापि रूपाप्राहित्वाद्धटादिवत् , अथ मा भूदेष दोष इति न रूपमा सञ्चयः स एव च गृह्यत इतीष्यते ततः सञ्चयस्य संवृतिसत्त्वादरूपत्वं खरविषाणवत , संवृतिसत्त्वञ्च प्रागुपपादितम् , अरूपत्वाच्च न चक्षुर्माह्यः स्यात् सञ्चयो रूपादन्यत्वात् । शब्दवत् खपुष्पवद्वा, ततः को दोष इति चेदुच्यते चक्षुनैव चक्षुः स्यात् , रूपस्याग्राहकत्वात् घटवत् जिह्वावत्त्वग्वदित्यादि, कथं रूपस्याग्राहकं चक्षुरिति दृष्टप्रसिद्धिविरुद्धमुच्यत इति चेत् तवैव दृष्टप्रसिद्धिविरोधावापाद्यते मया, किं कारणं ? उभयथा रूपाग्राहित्वात्तस्य, यदि सञ्चयस्तथाप्यसन्नरूप एवेत्युक्तत्वादचक्षुर्विषयो रूपं ततो रूपस्याग्राहकत्वाञ्चक्षुरचक्षुः श्रोत्रवत्, अथासञ्चितमेव परमाणुनीलरूपमिष्टं तथाप्यतीन्द्रियत्वादचक्षुर्विषयो रूपमतो रूपस्याग्राहकत्वाच्च चक्षुर्न चक्षुः स्यादुक्तवदिति सूक्त- 10 मुभयथापि रूपस्याप्राहकं चक्षुरिति । एवं तावच्चक्षुर्विज्ञानसमङ्गीत्यत्र चक्षुषोऽचक्षुष्ट्वाच्चक्षुर्ग्रहणमनर्थकम् ।
विज्ञानग्रहणमप्यत एवानर्थकमित्यत आह
विज्ञानमपि न विज्ञानं स्यात् , अन्यथाऽर्थप्रतिपत्तेरलातचक्रादिज्ञानवत् , न च चक्षुविज्ञानं समङ्गति चक्षुर्विज्ञानस्य रूपादन्यत्रासम्भवात् , न वा तत्सन्तानोऽन्यत्र सम्भवति, सञ्चयापेक्षो व्यभिचारोऽस्त्यतो विशेष्यत इति चेन्न, न हि सञ्चयो रूपमरूपत्वाच्चक्षुर्विज्ञान- 15 सङ्गत्यभावः । यदपि च तद्रूपं रूप्यत इति तद्विषयं तदेकगमनं चक्षुर्विज्ञानस्येति, तदपि नास्ति, अविषयत्वादन्येन्द्रियविषयवत्, सञ्चयविषयमपि चक्षुर्विज्ञानस्य समङ्गन न, संवृतिसच्चात् खपुष्पवत् । . विज्ञानमपि न विज्ञानं स्यादित्यादि यावत् खपुष्पवदिति, विशेषेण ज्ञान विज्ञानं तावद्भव- . दभिमतं प्रत्यक्षं मुख्यं विज्ञानं न स्यात् , इतरथा कथमाचार्यश्रीमल्लवादी विज्ञानं न स्यादिति स्ववचनविरोधं 20 मायेयदिनाविव ब्रूयात् । किं कारणं पुनर्विज्ञानं तन्न स्यात् ? अन्यथाऽर्थप्रतिपत्तेः, अरूपस्य सञ्चयस्य रूपत्वेन प्रतिपत्तेः, सञ्चयत्वेन वा रूपमात्रस्य प्रतिपत्तेः, को दृष्टान्तः ? अलातचक्रादिज्ञानवत्, यथोल्मुकाग्निकणमात्रमर्थं चक्रमिति प्रतिपद्यमानं न विज्ञानमेवं तदपि, आदिग्रहणात् स्थाणुपुरुषज्ञानवदि
अथ रूपस्य सञ्चयानात्मकत्वे चातीन्द्रियत्वेनापि चक्षुर्ग्राह्यताऽनुपपत्तिरित्याह-अथासश्चितमेवेति । तथा च चक्षु व चक्षुः । रूपाप्राहकत्वात् , घटादिवत्, अत्रासिद्धिवारणाय रूपं न चक्षुाह्यमतीन्द्रियत्वात् , अतीन्द्रियत्वं सञ्चयानात्मकत्वात् , सञ्चयो न 25 रूपं संवृतिसत्त्वात् खरविषाणवदित्याद्यनुमानानि । दृष्टप्रसिद्धीति, चक्षुषा हि रूपं दृश्यते तदपवादे दृष्टविरोधः, रूपग्राहक चक्षुरिति प्रसिद्ध लोके तदनङ्गीकारे प्रसिद्धिविरोध इति रूपस्याग्राहकं चक्षुरिति न सूक्तं वचनमिति शङ्कार्थः । भवदभिमतमिति, अनेन विशेषणपूरणेन विज्ञानं विज्ञानं न स्यादिति खवचनविरोधप्रसङ्गो दूरीकृतोऽन्यथा यदि तद्विज्ञानं कथं तर्हि विज्ञानं न स्यात् , विज्ञानाङ्गीकारात् , यदि तन्न विज्ञानं कथं तर्हि विज्ञानं न विज्ञानमित्युच्यते, अनभिमतोपालम्भत्वादिति विरोधः स्यादिति : भावः।मायेयः-अद्वैती मायासूनवीयो वा, दिनभिक्षुः कश्चिद्वौद्धः । मुख्यमिति, प्रमाणभूतमित्यर्थः । तेन तस्य भ्रमात्मक- 30 त्वात् विज्ञानं न विशिष्ट ज्ञानमित्यर्थेन न विरोधः। तस्य विज्ञानत्वाभावे हेतुमाह-अन्यथाऽर्थप्रतिपत्तेरिति. अर्थस्य वस्तुतोऽरूपस्य सञ्चयस्य, अन्यथारूपत्वेन प्रतिपत्तानात् ,यद्वा वस्तुतोऽसञ्चयात्मकस्य रूपस्य सञ्चयत्वेन प्रतिपत्तेरिति भावः। यथेति, यथा उल्मुकाग्निकणमेवार्थ भ्रमन्तं भ्रान्तदृष्ट्या पुरुषेण चक्रमिति प्रतिपद्यमानं न विशिष्ट ज्ञानमुच्यत इत्यर्थः
द्वा० न०११
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org