________________
द्वादशारनयचक्रम्
[विध्यरे अथवा तिष्ठतु तावत् स्वलक्षणमात्रविषयप्रत्यक्षत्वस्य प्रत्यक्षविधिविधानाभ्युपगमेन विरोध इति, इह तु चक्षुर्विज्ञानसमङ्गीत्येतदेव तु न घटते।
(अथवेति) अथवा तिष्ठतु तावद्यावत् प्रत्यक्षविषयत्वाभ्युपगमविरोध इति स्थितम् , तावद्वस्तु विदूरस्थेनागमेनाभ्युपगतेन प्रत्यक्षविषयत्वस्य विरोध इत्येतत्-इदमेवास्मिन् प्रकरणे यदुदाहृतं 5 तश्चक्षुर्विज्ञानसमङ्गीत्यादि तदेव न घटत इति वाक्यार्थः । प्रत्यक्षस्य विधिः-प्रत्यक्षस्य जन्म, तस्य विधानं-व्याख्यानं सञ्चितालम्बनाः पञ्चविज्ञानकाया इति, स एवाभ्युपगमः, प्रत्यक्षविधिविधानाभ्युपगमः, स्वलक्षणमात्रविषयप्रत्यक्षत्वमेव-खलक्षणमात्रं विषयो यस्य तत्स्वलक्षणमात्रविषयं, किं तत् ? प्रत्यक्षं तस्य भावः स्खलक्षणमात्रविषयप्रत्यक्षत्वं तस्य प्रत्यक्षविधिविधानाभ्युपगमेन विरोधः समनन्तर प्रन्थोपपादितः स स्थित एव । चनुर्विज्ञानमित्येतदेव तु न घटते, तुशब्दो विशेषणे, किं विशि10 नष्टि ? पूर्वस्माल्लक्षणवाक्यादागमस्यास्याशुद्धतरतां विशिनष्टि, चक्षुषः चक्षुषि चक्षुषा वा विशिष्टं ज्ञानं विज्ञानमसाधारणविषयं तत्समङ्गति समन्वेतीति चक्षुर्विज्ञानसमङ्गी कः ? सन्तानः, विज्ञानस्य तदर्थेकगमनात् तद्वारेण तत्सन्तानोऽपि समंगीत्युच्यते तत्समङ्गिनो नीलविज्ञानं तदेव प्रत्यक्षं कल्पनापोढमनिर्देश्यं खलक्षणविषयमित्यादिवचनं तेन लक्षितस्योदाहरणमिदं तदिति प्रत्यक्षीकरणं प्रदर्शनम् यथा 'वृद्धिरादैजि' (पाणि० अ० १ पा० १ सू० १) त्युपलक्षितस्यैव लावन इत्युदाहरणम् । 15 कथं पुनस्तन्न घटते ? तत आह
एवं ते सञ्चयस्य तब्रहणे तत्प्रत्यक्षत्वाद्रूपमात्रत्वात् सश्चितालम्बनकल्पनावैयर्थ्यम् ।
एवं ते सञ्चयस्येत्यादि यावत्सञ्चितालम्बनकल्पनावैयर्थ्य मिति, एवं ते उदाहरणत्वेनेष्टौ सत्यां सञ्चयस्य रूपमात्रत्वात्, किं भवति ? सञ्चितालम्बनकल्पनावैययं स्यादित्यभिसम्भत्स्यते, रूपमात्रत्वं सञ्चयस्य कुतः ? तद्हणे तत्प्रत्यक्षत्वात् , यद्हे यस्य प्रत्यक्षत्वं तत्तावन्मात्रमेव दृष्टं यथा 20 दाहप्रहे दाहप्रत्यक्षत्वे दाहमात्रमेव नातोऽन्योऽर्थ इष्टः, एवं सञ्चयग्रहे नीलरूपमात्रमेव अतः किं ? सञ्चितालम्बनकल्पनावैयर्थ्यम् , सञ्चयाभावात् सञ्चयाभावो रूपमात्रत्वात् सञ्चितालम्बनकल्पनावैय. या॑चोदाहरणमेव तु न घटते चक्षुर्विज्ञानसमङ्गीत्यादि ।।
अतन्मात्रत्वे संवृतिसत्त्वात्सञ्चयस्यारूपत्वं खरविषाणवदित्यचक्षुर्विषयो रूपम् , ततो
नस्य विरुद्धहेत्वाभासज्ञानरूपतया नानुमानं पूरयतीति, एवं प्रमेयत्वश्रावणत्वलक्षणानैकान्तिकहेत्वाभासज्ञानमपि शब्दनित्य20 त्वानुमानं न पूरयतीति प्रमेयत्वं साधारणानैकान्तिकं श्रावणत्वमसाधारणानैकान्तिकमिति विज्ञेयम् । अथवा तिष्ठत्विति,
अभिधमोगमानुपलम्मेन यथाशक्ति प्रन्थमिदं पृथक् क्रियते स्खलक्षणविषयत्वे प्रत्यक्षस्याभ्युपगम्यमाने सञ्चितालम्बनाः पञ्चविज्ञानकाया इत्यागमेन विरोधो य उद्भावितः स तिष्ठतु कल्पनापोढखलक्षणविषयस्य प्रत्यक्षत्वे चक्षुर्विज्ञानसमझी नीलं विजानाती त्याधुदाहरणवाक्यं तु न घटत एवेति भावः । पूर्वमादिति, प्रत्यक्षं कल्पनापोढमनिर्देश्यं खलक्षणविषयमिति पूर्वोक्तलक्षण
वाक्यादित्यर्थः । अस्यागमस्य-चक्षुर्विज्ञानसमङ्गीत्याद्यागमस्य । विज्ञानस्येति, विज्ञानमसाधारणं खलक्षणमेव समन्वेतीति 30 खलक्षणद्वारेण खसन्तानमपि समन्वेतीति सन्तानश्चक्षुर्विज्ञानसमझी भवति । इदं तदिति, इदं नीलविज्ञानं तत् चक्षुर्विज्ञानसमश्रीति प्रदर्शनमुदाहरणमिति भावः। अतन्मात्रत्वे सञ्चयस्य रूपमात्रत्वानभ्युपगमे सञ्चयस्यैव प्रहणात्तस्य च संवृतिसत्त्वेन परमाथेसबूपखरूपासम्भवाद्रूपस्याग्रहणाचक्षुर्नैव चक्षुः स्यानूपाप्राहकत्वात् सञ्चयस्यापि रूपानात्मकतया चक्षुषा ग्रहणं न स्यादिति भावः।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org