________________
प्रत्यक्षस्याप्रत्यक्षता] न्यायागमानुसारिणीव्याख्यासमेतम् सदसदभेदात्मकः, तस्मात्सदसदभेदपरिग्रहात्मकत्वात्तदतद्विषयवृत्तता, सा च सर्वथा साधारणार्थत्वादिसर्वेष्वेतेष्वनन्तरोक्तेषु हेतुषु, ततो मूलहेतुः कल्पनात्मकत्वादियेवैतैः साधितः, तस्मान्न तत्प्रत्यक्षं न चानुमानवदसङ्कीर्णस्वविषयमित्येतदर्थभावनार्थाः पुनस्त एव हेतवो व्यापारिताः प्रत्येकमपि पूर्ववदेतस्मिन्नर्थे योज्याः।
इतश्च तज्ज्ञानमप्रत्यक्षमप्रत्ययप्रत्ययात्मकत्वाच्छब्दाश्रावणत्वप्रत्ययवत् ।
(इतश्चेति) प्रत्ययः कारणं हेतुरित्यर्थः, न प्रत्ययो हेतुरस्येत्यप्रत्ययः, कोऽसौ ? प्रत्ययः, प्रत्ययो विज्ञानम् , द्वितीयप्रत्ययशब्दस्य विज्ञानार्थत्वात् , अकारणज्ञानत्वादित्युक्तं भवति, कथं पुनरकारणं तज्ज्ञानं ? संवृत्यतीन्द्रियत्वाभ्याम् , यस्मान्नाणुषु न सञ्चये प्रत्ययता तथा प्रतिपत्तिं प्रति द्रव्यसतामविषयत्वात्, द्रव्यसन्तो हि परमाणवोऽतीन्द्रियत्वादेव न प्रत्यक्षज्ञानहेतवः, तथा नीलत्वादया, संवृतिसन्तस्तत्सश्चयोऽसत्त्वादेवाकारणम् , तस्मादुभयथाऽप्यप्रत्ययः स प्रत्ययो नीलरूपमिति, को 10 दृष्टान्तः ? यथाऽश्रावणः शब्द इति प्रत्ययोऽप्रत्यक्षं तथेदमपीति ।
स्यान्मतं कल्पनात्मकत्वादिभ्यो हेतुभ्योऽनुमानज्ञानं तर्हि चक्षुरादिविज्ञानं भविष्यतीत्यत्रोच्यते
अनुमानज्ञानमपि तन्न प्रतिपूर्यते सम्बद्धगृहीतस्यान्यथा प्रतिपत्तेः, यथा विरुद्धादिज्ञानम् ।
(अनुमानज्ञानमपीति) कर्मकर्त्तर्यात्मनेपदम् , यत् व तत्प्रतिषेधान्न प्रतिपूर्यते इति 15 रूपम् ? यथाऽयमोदनो विपन्नत्वात् पूतिमांसवदात्मानं न भोजयति न भुज्यते स्वयमेव तथेदमपि ज्ञानमात्मानमपि न पूरयति न प्रतिपूर्यते, कस्माद्धेतोः ? सम्बद्धगृहीतस्यान्यथाप्रतिपत्ते, सम्बद्ध एव गृहीतस्तस्य सम्बद्धगृहीतस्यान्यथाप्रतिपत्तेः तस्य ज्ञानस्यान्यथाप्रतिपद्यमानसम्बद्धगृहीतार्थत्वादित्यर्थः, यद् ज्ञानं सम्बद्धमेवार्थ गृहत्तमेवार्थमन्यथा प्रतिपद्यते तज्ज्ञानं नानुमानमपि सम्पूर्ण भवति, तद्यथा विरुद्धादिज्ञानम् , यथा कृतकत्वान्नित्यः शब्द इति पक्षधर्मज्ञानं शब्दसम्बन्धे घटादिष्वनि- 20 त्यानुगमसम्बद्धं गृहीत्वा नित्यं शब्दं प्रतिपद्यमानं विरुद्धहेत्वाभासज्ञानं भवति, आदिग्रहणात् प्रमेयश्रावणत्वद्वारं नित्यज्ञानं वा शब्दविषयमनैकान्तिकाभासं यथा तथेदमपि न सम्पूर्णमनुमानमपीति । परिग्रहात्मकस्तस्य भावस्तस्मादिति विग्रहः । सदसदिति, सन्तः परमाणवोऽसन्सञ्चयस्तेषाममेदरूपेण परिग्रह इत्यर्थः । अनन्तरोक्तेषु हेतुष्विति, सर्वथा साधारणार्थत्वादन्वयव्यतिरेकार्थविषयत्वात् सामान्यविशेषात्मकार्थविषयत्वादित्यादिहे. तुषु तदतद्विषयवृत्तता वर्तते, अत एवैते हेतवः प्रत्यक्षज्ञानस्य कल्पनात्मकत्वं साधयन्ति, ततश्च कल्पनात्मकत्वे सिद्धे तज्ज्ञा- 25 नस्याप्रत्यक्षत्वं तेन सिद्ध्यतीति भावः । अथ कल्पनापोढज्ञानस्याप्रत्यक्षत्वे कारणान्तरमाह-इतश्चेति। नीलादिप्रत्यक्षं न प्रत्यक्ष कारणं विना जातज्ञानत्वात् , अश्रावणः शब्द इति प्रत्ययवदिति मानम् । तस्य हि प्रत्यक्षस्य परमाणुर्वा सञ्चयो वा : भवतां कारणत्वेनाभिमतः, स च न सम्भवति, परमार्थसतः परमाणोरतीन्द्रियत्वेन प्रत्यक्षकारणत्वायोगात्, संवृतिसतः सञ्चयस्य चासत्त्वादेवाकारणत्वात् , अतोऽप्रत्ययप्रत्ययात्मकं तदिति भावः कर्मकर्तरीति, यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कर्मादिकारकान्तराण्यपि कर्तृसंज्ञां लभन्ते स्वव्यापारे वतन्त्रत्वात्, तदा सकर्मकेभ्यः 30 कर्तरि ह्यात्मनेपदादयो भवन्ति पूरी आप्यायने चुरादिः, प्रत्यक्षज्ञानमात्मानं न पूरति, तदनुमानज्ञानं प्रेरयतीति अनुमानज्ञानं प्रत्यक्षज्ञानमात्मानं न पूरयति, तत्र कर्मणः प्रत्यक्षज्ञानस्य कर्तृत्वविवक्षायां कर्मस्थक्रियया तुल्यक्रियत्वात् प्रत्यक्षज्ञानमात्मानं न प्रतिपूर्यते इत्यात्मनेपदादयः अत एवाग्रे तज्ज्ञानं नानुमानमपि सम्पूर्ण भवतीति भावार्थो वर्णित इति । यथा कृतकत्वादिति, कृतकत्वं हि अनित्यत्वेन सम्बद्धं तथैव गृहीतं तद्गृहविज्ञानं यदि शब्दं नित्यत्वेन प्रतिपादयति तदा तज्ज्ञा
__Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org