________________
द्वादशारनयचक्रम्
- [विध्यरे भवनात् , भावानामेकत्वञ्च साधारणभवनत्वात् परमाणूनो स्वानि तत्त्वानि भिन्नानि, तथा तेषां परमाणूनां नीलादिरूपाण्यप्यनेकरूपाण्येव, तेषाश्च स्वतत्त्वानां तेषाश्च नीलादिस्वरूपाणामेकद्वित्रिगुणादिभिन्नानां यथासंख्यमेकतत्त्वैकरूपाध्यारोपात्-सर्वपरमाणुतत्त्वानामेकवतत्त्वाध्यारोपात् सर्वपरमाणुरूपाणामेकनीलरूपाध्यारोपादर्थान्तरनिरूपणम् , स चाप्यध्यारोपो रूपान्तरसामान्यरूपविषय। त्वात्-रूपादन्यद्रूपं रूपान्तरं परमाणुरूपात् परमाण्वन्तररूपं रूपान्तरम् , एवं सर्वाणि परमाण्वन्तर
रूपाणि, तेषां रूपं नीलमित्यभेदेन यत्सामान्यबुद्ध्या गृह्यते सोऽध्यारोपस्तद्विषयः, तदपि सामान्यं तदतद्विषयवृत्तत्वात् , सामान्यमित्युच्यते स चान्यश्वार्थो विषयोऽस्येति कृत्वा।। । ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहादनुमाने त्वपोहात्प्रत्यक्षमविविक्तविषयमतोऽनुमानात्तत्
पापीया, सङ्कीर्णतरविषयत्वान्नाम्यनुमानवदेतत् , अपोह्याथोपोहशक्तिशून्यत्वात् । 10 (ततश्चेति) ततश्चात्र प्रत्यक्षेऽन्यस्यानपोहः, अनुमाने त्वनग्नेरन्यस्यापोहः-तस्मादतदनपोहात् प्रत्यक्षमविविक्तविषयम्-स्वविषयाभिमतेऽन्यत्र चापरित्यागेनाभेदेन च वृत्तेः, नानुमान खविषये सामान्यमात्र एव वृत्तेरतोऽनुमानात् तत्-परपरिकल्पितं प्रत्यक्षं पापीयः, सङ्कीर्णतरविषयत्वादिति तस्मान्नाम्यनुमानवदेतत्-अग्न्यनुमानतुल्यमपि तन्न भवति, 'अपोह्यार्थापोहशक्तिशुन्यत्वात् ,
तस्मात्सामान्यात्मकतैवान्यनुमानस्य न प्रत्यक्षस्येति तस्य नीलादेरर्थस्य प्रत्यक्षविषयस्य ज्ञानस्य च 15 तदतदोः सङ्कीर्णरूपता।
किश्चान्यत् तदतद्विषयवृत्ततापि न नीलरूपादेस्तज्ज्ञानस्य वोपपद्यते, किं कारणम् ? सदसतोः सम्बन्धाभावात् , घटखपुष्पवत् , तत उपचरितमत्र तदतद्विषयवृत्तत्वमपीति तत्प्रदर्शनार्थमाह.. प्रज्ञप्तिपरमार्थस्थितसञ्चयपरमाणुपरिग्रहात्मकत्वात्तदतद्विषयवृत्तता, सा च सर्वथा सा
धारणार्थत्वादिसर्वेष्वेतेषु हेतुषु, ततो मूलहेतुरेतैः साधितस्तस्मान्न तत्प्रत्यक्षं नानुमानवदस20 ङ्कीर्णस्वविषयम् ।
(प्रज्ञप्तीति) प्रज्ञप्तिसन् सञ्चयः, परमार्थसन्तस्तु तथास्थिताः परमाणवः, तेषां परिग्रहः
रूपाण्यपि प्रतिपरमाणु भिन्नानि परानपेक्षस्वतत्त्वानि, तथा च स्थिते वस्तुखभावे परमाणुतत्त्वानामेकत्वं तन्नीलरूपाणाञ्चैकरूपत्वमध्यारोप्य निरूपणं ज्ञानार्थयोः क्रियत इत्यर्थान्तरनिरूपणं बोध्यम् । प्रत्येकं परमाणुस्वतत्त्वानां भवनानां कथमेकत्वमित्यत्राह-भावानामिति । रूपाश्रयेणाह-तथेति । यथासंख्यमिति, एकतत्त्वाध्यारोपः परमाणुतत्त्वानां तन्नीलरूपाणा25 चैकरूपाध्यारोपो यथासंख्यार्थः । रूपान्तरेति, रूपान्तराणां-निखिलपरमाणुरूपाणां तत्समुदायस्य च रूपमिति सामान्य
बुद्ध्याऽभेदेन विषयीकरणादारोपरूपतेत्यर्थः । अतदनपोहादिति, इतरव्यावृत्त्यकरणात् , अतद्विषयेऽपि प्रत्यक्षज्ञानस्य वर्तनादित्यर्थः । अपोह्येति, अपोह्यो व्यावर्तनी यो योऽर्थस्तस्यापोहे व्यावर्त्तने शक्तिशून्यत्वात् सामर्थ्यवेधुर्यात् प्रत्यक्षस्येत्यर्थः ।
सामान्यात्मकतैवेति, सामान्यं हि अतळ्यावृत्तत्वम् , अनुमानज्ञानेनानग्गेावर्तनात्तस्य सामान्यात्मकता, अत एवासङ्की. णविषयत्वं प्रत्यक्षन्त्वतद्विषयेऽपि वृत्तावृत्त्यकरणादसामान्यात्मकमत एव च सङ्कीर्ण विषयमिति भावः। सद्रूपाणां तेषां 30 परमाणूनामसद्रूपस्यातदस्तत्सञ्चयस्य वैज्ञानिकस्य घटखपुष्पवत्परस्परं सम्बन्धासम्भवात्प्रत्यक्षस्य तदतद्विषययोरपि वर्तनं
न वास्तवमपि त्वौपचारिकमिति प्रदर्शयति किञ्चान्यदिति । प्रज्ञप्तीति, प्रज्ञप्तिश्च परमार्थश्च प्रज्ञप्तिपरमाथी, ताभ्यो स्थिती. प्रज्ञप्तिपरमार्थस्थिती, सञ्चयश्च परमाणुश्च सञ्चयपरमाणू, ततः कर्मधारयः, तयोः परिग्रहः, स एवात्मा यस्यासो तादृश.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org