________________
७७
10
प्रत्यक्षस्य पापीयस्त्वम्] न्यायागमानुसारिणीव्याख्यासमेतम् मनर्थको विचारः कारको ज्ञापक इति । एवं तावदर्थकृतोऽस्य नीलस्य व्यपदेशः सिद्धो यत्सिद्धरप्रत्यक्षानुमेयत्वे सिद्धे स्याताम् , तत्सिद्धेश्च तज्ज्ञानस्यानुमानत्वं सिद्ध्येत्, अव्यपदेश्यत्वादिलक्षणविरोधश्च। ____ यदपीष्टमभिधानतो न व्यपदेश्यं तन्नीलादिपरमाणुरूपं परमाणुसमूहाभेदादेकं वेत्येते द्वे अपि नैव स्तः, अनुमिताग्निवद्बहुविषयत्वात् , तथा ज्ञानमपि । . (यदपीति) अभिधानाव्यपदेश्यैकात्मकत्वे अपि नैव स्तो नीलादिरूपस्येति प्रतिज्ञा, दृष्टान्तोऽनुमिताग्निवदिति, प्रतिपत्तिसौकर्यात् प्रागेव हेतोदृष्टान्त उक्तः, तद्बलादवयवसिद्धेहेतुसमर्थनार्थत्वात् दृष्टान्तस्य । हेतुस्तर्हि क इत्यत्रोच्यते बहुविषयत्वात् , यथा धूमज्ञानानुमितोऽग्निरबादिविनिवृत्त्युपलक्षितो देशकालादिभेदभिन्नोऽप्यभिधानव्यपदेश्योऽनेकात्मकत्वापन्न एव गृह्यते तथा नीलार्थोऽपि स्याद्बहुपरमाणुविषयत्वात् , तथा ज्ञानमपीति ।
इदानीं प्रागभिहितकल्पनात्मकत्वादिभिर्हेतुभिरनुमानात् पापीयस्त्वं तस्य प्रत्यक्षस्य प्रतिपादयितुकाम आह
तद्धि नीलरूपनिरूपणमर्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं स च विकल्प एवातः कल्पनापोढमिति दुष्टं लक्षणं ज्ञानार्थयोरध्यारोपाच्च निरूपणात्तस्य, प्रतिपरमाणु प्रतिभिन्नानि स्वानि तत्त्वानि, तथा तेषां नीलरूपाण्यप्यनेकरूपाण्येव, तेषाश्च यथासंख्यमेकतत्त्वैकरूपा- 15 ध्यारोपादर्थान्तरनिरूपणम् , स चाध्यारोपो रूपान्तरसामान्यरूपविषयत्वात् , तदपि सामान्य तदतद्विषयवृत्तत्वात् ।
तद्धि नीलरूपनिरूपणमित्यादि, तदिति प्रागपदिष्टमविकल्पात्मकं हिशब्दो यस्मादथै, यस्मानीलरूपस्य निरूपणमुक्तन्यायेनार्थव्यपदेशेन शब्दव्यपदेशेन वा दृष्टं स च विकल्प एवेत्यविकल्पकत्वं नास्त्यतः कल्पनापोढमिति दुष्टं लक्षणम् , ज्ञानार्थयोरध्यारोपाच्च निरूपणात्तस्य, तत्कथमिति 20 चेदुच्यते प्रतिपरमाणु-परमाणुं परमाणु प्रति प्रतिपरमाणु परस्परतः प्रतिभिन्नानि स्वानि तत्त्वानियो यस्य भावः स तस्य तत्त्वं न सोऽन्यत्र भवति, भवनमेव हि तस्त्वमतो विभिन्नानि प्रतिपरमाणु तत्त्वानि, एकैकस्य परमाणोः परमाण्वन्तरेभ्योऽत्यन्तभिन्नं खं तत्त्वं, भावान्तरमनपेक्ष्य स्वरसत एव त्वनिराकरणाय भवता योऽयं विचारः क्रियते सोऽनर्थक इति भावः । एवं तावदिति, एतावता ग्रन्थेन साधितमुच्यते, नीलादेर्व्यपदेश्यत्वसिद्धौ तस्याप्रत्यक्षत्वमनुमेयत्वञ्च सिध्यति, तत्सिद्धौ च नीलादिज्ञानस्यानुमानत्वं सिध्यति, ततश्च नीलादि-25 ज्ञानस्याव्यपदेश्यत्वादिलक्षणप्रणयनं विरुध्यत इति । ननु पूर्व नीलादिज्ञानस्याव्यपदेश्यैकात्मकनीलरूपविषयत्वमुक्तमर्थतो देश्यत्वमनभ्युपगच्छता वादिना तन्निराकृतश्चैतावता प्रतिवादिना, सम्प्रति व्यपदिश्यतेऽनेनेति शब्दपरव्युत्पत्त्यभ्युपगमेन मीलादेः शब्दतोऽव्यपदेश्यत्वं यदि ब्रूयात्तमपि पक्षं निराकर्तुमाहाभिधानेति । तथा च नीलरूपं नाभिधानाव्यपदेश्यकात्मकं बहुविषयत्यात् , अनुमितामिवदिति प्रयोगः । प्रतिपत्तिसौकर्यमेव दर्शयति-तद्वलादिति, आदौ हेतुं प्रदर्शयित्वापि यावता दृष्टान्तो न प्रदर्श्यते तावता न हेतावविनाभूतत्वनिर्णयः, तद्बोधकवाक्यस्य वाऽवयवत्वसिद्धिः, अतो दृष्टान्तस्य प्रतिपत्तौ जनयि-30 तव्यायां प्रधानतेति भावः। तदेवं नीलादेविषयस्य शब्दव्यपदेशेन व्यपदेश्यत्वं समर्थ्य नीलादिज्ञानस्यापि तत्समर्थनमतिदिशतितथा ज्ञानमपीति । कल्पनापोढप्रत्यक्षस्य कल्पनात्मकत्वं समर्थयति-स च विकल्प एवेति । अध्यारोपं दर्शयति प्रतिपरमाण्विति, प्रत्येकं हि परमाणवोऽन्योऽन्यानपेक्षखरसभवनखभावा नात्मानमन्येन मिश्रयन्ति तथा तेषां नील
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org