________________
द्वादशारनयचक्रम्
[विध्यरे क्षस्य, प्रत्यक्षं वाऽव्यपदेश्यमित्युभयमनृतम् , विशिष्टोऽपदेशो व्यपदेशः, विशिष्टोऽन्य इत्यर्थः, ग्राह्यादन्यः सञ्चयस्तव्यपदेशेन व्यपदेश्यं प्रमेयं तदनुमेयं प्रामोति, व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षं धूमानुमिताग्निवत् यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च
तथा नीलं रूपम् । 5 (लोकवदिति) लोकवत्तु सञ्चयसत्त्वे यथा लोकस्याव्युत्पन्नस्यापि समुदायिव्यतिरेकेण
सन्नेवावयवी परिणामान्तरवत्तत्समुदायो वा योऽस्तु सोऽस्तु परैर्युत्पादितः सन्नेवासौ, तन्तुपटादिषु बुद्धिशक्तिकार्याभिधानसंख्यादिभेददर्शनात्, इष्टसूत्राक्षरार्थानुसारेण व्यपदेशोऽस्त्येवेति गृह्यताम् , ततश्चाव्यपदेश्यो विषयः प्रत्यक्षस्य, प्रत्यक्षं वाऽव्यपदेश्यमित्युभयमनृतम् , तत्कथमिति चेत् ? विशिष्टोऽपदेशो व्यपदेश इति विशब्दस्य विशिष्टार्थतामपदेशशब्दस्य हेत्वर्थतां दर्शयति । विशिष्टोऽन्य इत्यर्थः, 10 कुतोऽन्य इति चेदुच्यते ग्राह्यादन्यः, ग्राह्यो नीलादिस्तस्मादन्यः सञ्चयः, तद्व्यपदेशः, तेन सञ्चयेन व्यपदेशेन हेतुना व्यपदेश्यम् , किं तत् ? प्रमेयं नीलादि त्वदभिमतप्रत्यक्षप्रमाणगम्यम् , किं भवति ? तन्नीलादिरूपमनुमेयं प्राप्नोति व्यपदेशव्यपदेश्यत्वान्न प्रत्यक्षम् , तस्य ज्ञेयस्यास्मादेव हेतोः प्रत्यक्षत्वाभावोऽनुमेयभावश्च साध्यते, तज्ज्ञानस्याप्रत्यक्षताऽनुमानता च साध्यते को दृष्टान्तः ? धूमानुमिताग्निवत् , यथा धूमेन व्यपदेशेन साधितोऽग्निरनुमेयोऽप्रत्यक्षश्च तथा नीलं रूपम्-यथा च धूमालम्ब15 नोत्पादिताग्निज्ञानमनुमानमप्रत्यक्षश्च तथा नीलज्ञानं सञ्चयोत्पादितमिति ।
किश्चान्यत्
सर्वथा तत्तेन व्यपदेश्यं तदविनाभावात्तस्य, कारकतायामकारकतायां वा न कश्चिद्विशेषोऽर्थान्तरनिमित्तादेव पितृधूमादिवत् , ततस्तुल्ये व्यपदेश्यत्वहेतौ व्यपदेश्यनिरोध
कोऽयमनर्थको विचारः कारको ज्ञापक इति, एवं तावदर्थतो व्यपदेश्यमेव । 20 (सर्वथेति) सर्वथा तन्नीलादिज्ञानं तेन-सञ्चयेन व्यपदेश्यं तदविनाभावात्तस्य, कारकतायामकारकतायां वा न कश्चिद्विशेषो व्यपदेश्यत्वसिद्धौ वस्तुनः, कुतः १ अर्थान्तरनिमित्तादेव पितृधूमादिवत् , यथा पिता पुत्रस्य जनकस्तेन व्यपदिश्यते कारकेण पुत्रः, धूमेन ज्ञापकेनामिरविशिष्टत्वाद्वस्तुनः, ततस्तुल्ये व्यपदेश्यत्वहेतावप्रत्यक्षत्वानुमानत्वसाधनसमर्थे सति व्यपदेश्यत्वनिरोधकोऽय
द्योतकः । लोकापेक्षया अवयवव्यतिरेकेणावयवी वर्तत एव, बुद्धिशक्तिकार्याभिधानसङ्ख्यादिमेददर्शनातू, तन्तुषु हि तन्तुरिति बुद्धिः पटे च पट इति बुद्धिमेदः, पटस्यावरणशक्तिर्न तन्तोरिति शक्तिमेदः, तन्तोः कार्य पटादि न पटादेरिति कार्यमेदः, तन्तोस्तन्तुरिति नाम न पट इति, पटस्य च पट इति न तन्तुरिति नाममेदः, पट एकस्तदवयवास्तन्तव अनेक इति सङ्ख्यामेदः, एवञ्च सोऽयं भिन्नोऽवयवी, तन्तुपरिणामान्तरभूतस्तन्तुसमुदायलक्षणो वा पटस्तत्तद्वाद्यभिप्रायेण भवतु किन्तु सः सन्नेवेत्यङ्गीकारे तेन तज्ज्ञानं व्यपदिश्यत एवेत्याशयेनाह-यथेति । नीलादिविज्ञानस्य व्यपदेश्यत्वानीकारे
तद्विषयस्य नीलादेः प्रत्यक्षत्वं व्याहतमनुमेयत्वमेव च प्राप्तं स्यादित्याह-किं भवतीति । तदिति, तस्य सञ्चयस्य 30 व्यपदेश्यत्वाविनाभावादित्यर्थः, यदर्थान्तरेणाधिगम्यते तद्यपदेश्यमिति व्याप्तः, न पत्र कारकत्वज्ञापकत्वकृतः कश्चन विशेषः,
अर्थान्तरभूतस्य निमित्तत्वे व्यपदेश्यत्वध्रौव्यात्, एवञ्च व्यपदेशव्यपदेश्यत्वहेतौ दृष्टान्तपक्षसाधारण्येन स्थिते सति व्यपदेश्य
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org